संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|स्वच्छन्दभैरवतन्त्र| सप्तमः पटलः स्वच्छन्दभैरवतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः १ दशमः पटलः २ दशमः पटलः ३ दशमः पटलः ४ दशमः पटलः ५ दशमः पटलः ६ दशमः पटलः ७ दशमः पटलः ८ दशमः पटलः ९ दशमः पटलः १० दशमः पटलः ११ दशमः पटलः १२ दशमः पटलः १३ एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः स्वच्छन्दभैरवतन्त्र - सप्तमः पटलः स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात. Tags : shastratantraतंत्रशास्त्रस्वच्छन्दभैरवतन्त्र सप्तमः पटलः Translation - भाषांतर क्रिया ज्ञाता मया देव त्वत्प्रसादान्महेश्वर ।कालांशकं च देवेश कथयस्व प्रसारतः ॥१॥कालो द्विधात्र विज्ञेयः सौरश्चाध्यात्मिकः प्रिये ।सुवारकरणे लग्ने सुयोगे सुदिने प्रिये ॥२॥तेजोऽपचयराशौ तु दक्षिणायनमुत्तरं ।ग्रहणं चन्द्रसूर्याभ्यां कालश्च ऋतवस्तथा ॥३॥पक्षो मासश्च वेला वि- षुवद्राश्यन्तरं तथा ।पुण्यापुण्योदयो देवि सौर एष प्रकीर्तितः ॥४॥आध्यात्मिकं पुनर्देवि कथयामि निबोध मे ।षाट्कोशिकस्तु यो देहो भूततन्मात्रसंयुतः ॥५॥स मनोबुद्ध्यहङ्कार- बुद्धिकर्मेन्द्रियैर्गुणैः ।सर्वतत्त्वैस्तथा देवैः समधिष्ठितविग्रहः ॥६॥तत्रात्मा प्रभुशक्तिश्च वायुर्वै नाडिभिश्चरन् ।नाभ्यधोमेढ्रकन्दे च स्थिता वै नाभिमध्यतः ॥७॥तस्माद्विनिर्गता नाड्यस्तिर्यगूर्ध्वमधः प्रिये ।चक्रवत्संस्थितास्तत्र प्रधाना दश नाडयः ॥८॥द्वासप्ततिसहस्राणि नाड्यस्ताभ्यो विनिर्गताः ।पुनर्विनिर्गताश्चान्या आभ्योऽप्यन्याः पुनः पुनः ॥९॥यावत्यो रोमकोट्यस्तु तावत्यो नाडयः स्मृताः ।यथा पर्ण पलाशस्य व्याप्तं सर्वत्र तन्तुभिः ॥१०॥शरीरं सर्वजन्तूनां तद्वद्व्याप्तं तु नाडिभिः ।मारुतापूरिताः सर्वा आत्मशक्तिचराः सदा ॥११॥पृथग्वृत्तिप्रभेदेन भिन्नाश्चारप्रभेदतः ।चारवृत्तिप्रभेदेन संज्ञाभेदो वरानने ॥१२॥नाडिनां चैव वायूनां भेदो ज्ञेयः सहस्रशः ।प्रधाना दश याः प्रोक्ता नाडयश्च वरानने ॥१३॥तासां मध्ये तु देवेशि वायवो ये व्यवस्थिताः ।नाडीनां चैव वायूनां संज्ञावृत्तीर्निबोध मे ॥१४॥इडा च पिङ्गला चैव सुषुम्ना च तृतीयका ।गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी ॥१५॥अलम्बुसा कुहूश्चैव शंखिनी दशमी स्मृता ।एताः प्राणवहाः प्रोक्ताः प्रधाना दश नाडयः ॥१६॥प्राणोऽपानः समानश्च उदानो व्यान एव च ।नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥१७॥वायवो नाडयश्चैव चक्रवत्संस्थिताः प्रिये ।तासु संचरतः सिद्धिं योगं चैव वरानने ॥१८॥जपतश्च वरारोहे जपसिद्धिमवाप्नुयाथ् ।दशानां तु परं देवि नाडीत्रयमुदाहृतं ॥१९॥बिन्दुनादात्मके द्वे वै मध्ये शक्त्यात्मिका स्मृता ।हृच्चक्रे तु समाख्याताः साधकानां हितावहाः ॥२०॥प्राणो वै चरते तासु अहोरात्रविभागतः ।तथा ते कथयिष्यामि प्रविभज्य यथास्फुटं ॥२१॥प्रभुशक्तिसमाकृष्टा मरुत्प्राणात्मसंस्थिताः ।त्रय एतेऽविभागेन संचरन्ते समन्ततः ॥२२॥अध ऊर्ध्वं वहेद्यस्मात्सर्वनाडीः प्रवाहयन् ।वृत्तिसंज्ञाप्रभेदेन वर्णरूपाण्यनेकधा ॥२३॥द्वासप्ततिसहस्रेभ्यो जायन्ते दश वै प्रिये ।कोटिधातो वरारोहे स एकः संव्यवस्थितः ॥२४॥प्राणापानमयः प्राणो विसर्गापूरणं प्रति ।नित्यमापूरयन्नेव प्राणिनामुरसि स्थितः ॥२५॥प्राणनं कुरुते यस्मात्तस्मात्प्राणः प्रकीर्तितः ।अहोरात्रगतिं प्राणे अधुना कथयामि ते ॥२६॥तुटयः षोडश प्राणे पूर्वं हि कथिता मया ।बाह्ये नैव तु कालेन ते लवाः परिकीर्तिताः ॥२७॥ताभिश्चतसृभिर्देवि प्राणे यामो विधीयते ।तैरेव प्रहरैर्देवि चतुर्भिस्तु दिनं भवेथ् ॥२८॥रात्रिश्चतुर्भिर्विज्ञेया अहोरात्रस्त्वतोऽष्टभिः ।शिवो धर्मेण हंसस्तु सूर्या हंसः प्रभान्वितः ॥२९॥आत्मा वै हंस इत्युक्तः प्राणो हंससमन्वितः ।तस्योदयात्कलेत्कालः ग्रहाणामुदयो भवेथ् ॥३०॥ऋक्षाणि राशयश्चैव तारास्त्वंशास्तथैव च ।प्राणे वै उदयन्त्येते अहोरात्रेण सुव्रते ॥३१॥अहोरात्रोदयस्त्यैव विभागं कथयामि ते ।हृदयोर्ध्वे तु कण्ठाधो यावद्वै प्रवहेत्प्रिये ॥३२॥अङ्गुलेन विहीने तु प्रथमः प्रहरः स्मृतः ।द्वितीय ऊर्ध्वे विज्ञेयो मध्याह्नस्तालुमध्यतः ॥३३॥अत्र होमो जपो ध्यानं कृतं वै मोक्षदं भवेथ् ।नासाग्र्यत्र्यङ्गुलोर्ध्वे तु यावत्प्राप्तस्तु सुव्रते ॥३४॥प्रहरस्तु तृतीयोऽसौ भवेद्वै वरवर्णिनि ।शक्त्यन्ते च चतुर्थस्तु प्रहरोऽहः प्रकीर्तितं ॥३५॥चतुर्थान्ते तु देवेशि प्राणसूर्यः सदास्तगः ।ततोऽस्तमयसन्ध्यात्र तुट्यर्धं तु भवेत्प्रिये ॥३६॥तत्कालं तु विलम्ब्यैवं पुनश्चाधः प्रवर्तते ।स च चन्द्रोदयो देवि रजनी च विधीयते ॥३७॥पूर्वोक्तक्रमयोगेन यामेष्वेवं चरत्यसौ ।तालुके चार्धरात्रस्तु पुनरेवं विधीयते ॥३८॥हृत्पद्मं तु यदा प्राप्तः प्रभातसमयस्तदा ।तुट्यर्धं तु वरारोहे पूर्वसंध्या भवेत्ततः ॥३९॥तस्मात्समुदयश्चैव सूर्यस्य स भवेत्पुनः ।पूर्ववत्क्रमयोगेन स चरेद्धि सदा शुभे ॥४०॥वासरे तु चरेत्सूर्यो धारायां संचरेच्छशी ।चन्द्रसूर्योदयो ह्येष मया ते परिकीर्तितः ॥४१॥भ्ॐआद्याश्च ग्रहा ह्येवं चरन्ति प्रविभागशः ।प्राणे चाप्युदयन्त्येते प्रहरे प्रहरे प्रिये ॥४२॥वेला वारो भवेद्यस्य स चरेत्प्रहरद्वयं ।राहुश्चरति सोमेन केतुश्चरति भास्वता ॥४३॥ये ग्रहास्ते च वै नागा लोकपालाष्टकं च ते ।मूर्तयश्चैव ते चाष्टावष्टौ ते च गणेश्वराः ॥४४॥ते च पञ्चाष्टका रुद्रास्तथा योगाष्टकाः परे ।अनन्तादिशिखण्ड्यन्तास्ते च विद्येश्वराष्टकाः ॥४५॥सकलाद्यानि तत्त्वानि स्थितानि परतस्त्विह ।पूर्वोक्ता भैरवाश्चाष्टौ सर्वे ते च व्यवस्थिताः ॥४६॥ग्रहादीन्समधिष्ठाय सर्वेषूदयकारकाः ।राशिभिः सह नक्षत्रैस्त उद्यन्ति अहर्निशं॥ ४७॥मध्याह्ने चार्धरात्रे च उदयोऽभिजितो भवेथ् ।अभीप्सितं फलं तत्र साधकानां भवेदिह ॥४८॥अहोरात्रविभागोऽयं एवं ते कथितो मया ।अधुना पक्षमासांश्च वर्षाणि कथयामि ते ॥४९॥आध्यात्मिकाहोरात्रेण बाह्ये काष्ठा विधीयते ।मासेनाध्यात्मिकेनैव बाह्ये चैव कला भवेथ् ॥५०॥तत्र त्रिंशदहोरात्रा मासस्तु वरवर्णिनि ।मासैद्वदशभिश्चैव बाह्येऽथ घटिका भवेथ् ॥५१॥शतानि त्रीण्यहोत्रात्राः षष्टिरेव तथाधिका ।वर्षमेतत्समाख्यातं बाह्ये वै घटिका च सा ॥५२॥घटिकाः षष्टिस्त्वहोरात्रे बाह्ये तु प्रवहन्ति वै ।ता एवान्तरचारेण षष्टिः संवत्सराः स्मृताः ॥५३॥प्राणसंख्यां पुनस्तेषु कथयाम्यधुना तव ।षट्शतानि वरारोहे सहस्राण्येकविंशतिः ॥५४॥अहोरात्रेण बाह्येन अध्यात्मं तु सरधिपे ।प्राणसंख्या समाख्याता ज्ञातव्या साधकेन तु ॥५५॥प्रणहंसे सदा लीनः साधकः परतत्त्वविथ् ।तस्यायं जप उद्दिष्टः सिद्धिमुक्तिफलप्रदः ॥५६॥अधः प्रवहणे सिद्धिर्हृत्पद्मं यावदागतः ।मुक्तिश्चैव भवेदूर्ध्वे परतत्त्वे तु सुव्रते ॥५७॥मनोऽप्यन्यत्र निक्षिप्तं चक्षुरन्यत्र पातितं ।यथा प्रवर्तते प्राणस्त्वयत्नादेव सर्वदा ॥५८॥नास्योच्चारयिता कश्चित्प्रतिहन्ता न विद्यते ।स्वयमुच्चरते हंसः प्राणिनामुरसि स्थितः ॥५९॥मासवत्सरसंख्या तु एषा ते कथिता मया ।चन्द्रसूर्योपरागं तु कथयामि ततः परं ॥०॥अहोरात्रस्तु यः प्रोक्तः प्राणेऽस्मिन्सुरसुन्दरि ।स एव पक्षद्वितयं मासं च कथयामि ते ॥६१॥तुट्यर्धं चाप्यधश्चोर्ध्वं विश्रमः परिकीर्तितः ।मध्ये पञ्चदशोक्ता यास्तिथयस्ताः प्रकीर्तिताः ॥६२॥प्रथमोदये तु हृत्पद्मात्तुट्यर्धं तु दिनं भवेथ् ।द्वितीये चैव तुट्यर्धे यदा चरति शर्वरी ॥६३॥राशयो ग्रहनक्षत्राण्युदयन्ति यथाक्रमं ।अस्मिन्नेवमहोरात्रे पूर्ववच्च वरानने ॥६४॥तुटिभिः पञ्चदशभिः पक्षः स तु विधीयते ।तिथिच्छेदे ऋणं ज्ञेयं वृद्धौ चैव धनं भवेथ् ॥६५॥ऋणं चैव भवेत्कासो निःश्वासो धन उच्यते ।कृष्णपक्षोर्ध्वचारेण संहारः संक्षयो भवेथ् ॥६६॥क्रूरकर्माणि वै तत्र कुर्वन्सिद्धिमवाप्नुयाथ् ।शुभकर्माणि कृष्णे च न च सिद्ध्यन्ति सुव्रते ॥६७॥शक्तिं वै विशति प्राणे या तुटिस्तु विधीयते ।अमावस्या तु सा ज्ञेया कृष्णपक्षे वरानने ॥६८॥शक्तेर्मध्योर्ध्वभागे तु तुट्यर्धं यत्प्रकीर्तितं ।पक्षसंधिस्त्वसौ ज्ञेयोऽमावस्यार्धप्रतिपदा ॥६९॥तिथिच्छेदेन वै तत्र सूर्यस्य ग्रहणं भवेथ् ।रविबिम्बान्तरे देवि चन्द्रबिम्बं तदा भवेथ् ॥७०॥तदन्तरे भवेद्राहुरमृतार्थी वरानने ।अमृतं स्रवते चन्द्रो राहुश्च ग्रसते तु तं ॥७१॥पीत्वा त्यजति तद्लिम्बं तदा मुक्तः स उच्यते ।आदित्यग्रहणं चैव लोके तदुपदिश्यते ॥७२॥राहुरादित्यचन्द्रौ च त्रय एते ग्रहा यदा ।दृश्यन्ते समवायेन तन्महाग्रहणं भवेथ् ॥७३॥स कालः सर्वलोकानां महापुण्यतमो भवेथ् ।तत्र स्नानं तथा दानं पूजाहोमजपादिकं ॥७४॥यत्कृतं साधकैर्देवि तदनन्तफलं भवेथ् ।तां चैवार्धतुटिं त्यक्त्वा शुक्लपक्षोदयो भवेथ् ॥७५॥शक्तिगर्भादधः सृष्टिस्तस्माद्वृद्धिः प्रजायते ।तदारभ्य च कर्माणि शुभान्यभ्युदयानि च ॥७६॥ध्यानमन्त्रादियुक्तस्य सिद्धिन्ते नात्र संशयः ।प्राणहंसो यदा प्राप्तस्त्वधस्तां प्रथमां तुटिं ॥७७॥पूर्वमर्धं त्वहः प्रोक्तं तुट्यर्धमपरं निशा ।राशयो ग्रह ऋक्साणि योगाश्च करणानि च ॥७८॥पूर्ववत्क्रमयोगेन तान्युद्यन्ति त्वहर्निशं ।प्रतिपत्सा तु विज्ञेया चन्द्रश्चैककलो भवेथ् ॥७९॥द्वितीयायां द्वितीया तु वृद्धिमेति क्रमेण तु ।तिथयश्चैवमारभ्य यावत्पञ्चदशी तुटि ॥८०॥पौर्णमासी तु विज्ञेया तिथिर्वै साधकेन तु ।तत्र पूजा जपो ध्यानं संपूर्णं सफलं भवेथ् ॥८१॥संपूर्णश्च भवेत्तस्यां चन्द्रो वै चारुलोचने ।तस्याश्चार्धतुटिर्या तु पक्षसंध्या तु सा स्मृता ॥८२॥तस्यार्धं पौर्णमासी तु प्रतिपदर्धेन संस्थिता ।हृत्पद्मसंधिमध्ये तु सोमस्य ग्रहणं भवेथ् ॥८३॥आदित्येन विना लोके सोमग्रहणमुच्यते ।तत्रैव च महत्पुण्यं ध्यानहोमजपादिभिः ॥८४॥पक्षद्वयेऽपि देवेशि ग्रहणं चन्द्रसूर्ययोः ।नानादिद्धिप्रदं ह्येतथ्साधकस्याभियोगिनः ॥८५॥मोक्षश्चैव पुनर्भद्रे पक्षद्वयसमुज्झितः ।पक्षद्वयं परित्यज्य पूवोक्तकरणेन तु ॥८६॥उन्मन्यन्ते स्थितो नित्यं परवृत्त्यवलम्बकः ।परित्यज्य त्वधः सर्वं ध्यानमास्थाय योजयेथ् ॥८७॥तस्य मुक्तिर्न संदेहस्त्वन्यथा सिद्धिभाग्भवेथ् ।पक्षद्वयेऽपि ग्रहणं भवेद्वै सर्वदेहिनां ॥८८॥एवमेतत्समाख्यातं यावदायुर्वरानने ।अत्रैवाध्यात्माहोरात्रे त्वथाब्दोदय उच्यते ॥८९॥हृत्पद्मादूर्ध्वपर्यन्तं राशयः षड्व्यवस्थिताः ।अङ्गुलैः षड्भिरेकैको हृत्पद्माद्याव शक्तितः ॥९०॥अङ्गुले अङ्गुले ह्यत्र तिथयः पञ्च संस्थिताः ।तस्याप्यर्धं दिनं पूर्वं अपरार्धं निशा भवेथ् ॥९१॥षट्पञ्चकास्तिथीनां ये ते ःओरात्रास्तु मासिकाः ।त्रिंशता तैरहोरात्रैर्द्विपक्षो मास उच्यते ॥९२॥मासि राश्युदये ह्येष अधोर्ध्वप्राणसंचरे ।हृदयादुदयस्थानात्संक्रान्तिर्मकरे स्थिता ॥९३॥षडङ्गुलान्यधस्त्यक्त्वा कुम्भे संक्रमते पुनः ।कण्ठोर्ध्वे द्व्यङ्गुलं त्यक्त्वा मीने संक्रमते पुनः ॥९४॥गलोर्ध्वाद्यावत्ताल्वन्तं त्यक्त्वा मेषेऽथ संक्रमेथ् ।नासान्तं यावत्संक्रान्तिरङ्गुलानि षडेव हि ॥९५॥एषा वै विषुसंक्रान्तिरुत्तरे संव्यवस्थिता ।जपहोमार्चनध्यानान्महाभ्युदयकारिका ॥९६॥नासाग्रं तु परित्यज्य प्राणहंसो वृषे चरेथ् ।षडङ्गुलानि संत्यज्य संक्रमेन्मिथुने पुनः ॥९७॥शक्त्यन्तं यावदध्वानं संक्रान्तिर्मिथुने स्मृता ।मकराच्च समारभ्य मिथुनान्तं च सुव्रते ॥९८॥उत्तरयणमत्रैतदैहिकीसिद्धिवर्जितं ।स्नानं ध्यानं तथा दानं पूजाहोमजपादिकं ॥९९॥साधकाद्यैः कृतं यच्च सहस्त्रानेकधा भवेथ् ।इह जन्मनि नाप्नोति परत्रैवोपतिष्ठते ॥१००॥दिनानि तत्र वर्धन्ते मकरान्मिथुनान्तिकं ।तत्काले संहरेद्वीर्यं जगत्यस्मिंश्चराचरे ॥१०१॥हंसो रश्मिभिराकृष्य गर्भस्थं कारयेत्तु तं ।गर्भस्थानेकधारूपं यद्गृहीतं पुरातनं ॥१०२॥कर्कटादेः समारभ्य सर्वं वर्षति तत्पुनः ।तस्मादारभ्य मकराद्ध्यानहोमजपादिकं ॥१०३॥परलोकनिमित्ताय तदनन्तफलं भवेथ् ।पुरश्चर्यानिमित्ताय मन्त्रग्रहव्रतं च यथ् ॥१०४॥मीनादावारभेत्सर्वं मन्त्रसिद्ध्यर्थमात्मनः ।बाह्येऽपि तरवो लोके ऋतुषट्कसमीरितं ॥१०५॥कुसुमानन्दमायान्ति कुसुमायुधदीपकं ।मन्त्राः कालानुरूपेण व्रतचर्यादिनेरिताः ॥१०६॥ज्ञेयबोधप्रदीप्ताश्च सिद्धिमुक्तिप्रसाधकाः ।अध्यात्मशब्दरूपात्मा षड्रसास्वादनेरितः ॥१०७॥हंसबोधप्रदीप्तस्तु गलके मीनमाश्रितः ।शब्दसंवेदनं तस्य स्फुटं तत्र भवेद्यतः ॥१०८॥तदारभ्य जपात्तस्य सर्वमेव प्रवर्तते ।मिथुनान्तं च देवेशि ततः सिद्धिः प्रजायते ॥१०९॥सहंसो बिन्दुशक्तिस्थः सिद्धिद्वारैरधोमुखः ।कर्कटादौ स वर्षेत्तु तुलान्तं तालुकान्तरे ॥११०॥कण्ठादधस्ततो देही हृत्पद्मात्सर्वतो व्रजेथ् ।तस्मादिहात्मसिद्ध्यर्थं पुष्ट्यर्थं चैव साधयेथ् ॥१११॥दक्षिणायनजे काले यस्मात्सृष्टिः प्रजायते ।शक्त्यधो हृदये हंसः संक्रमेत्कर्कटे प्रिये ॥११२॥षडङ्गुलानि संत्यज्य सिंहे वै संक्रमेत्पुनः ।षडङ्गुलैः पुनस्त्यक्तैः कन्यां संक्रमते पुनः ॥११३॥नासिकाग्रात्तु ताल्वन्तं त्यक्त्वैवं विषुवद्भवेथ् ।तुलासंक्रान्तिरेषोक्ता दक्षिणं विषुवद्भवेथ् ॥११४॥साधनं यत्कृतं तत्र इह जन्मनि कामदं ।मृत्योर्जयं तथा शान्तिं पुष्टिं तस्मात्समारभेथ् ॥११५॥तस्मात्स षड्रसाहारो गलाधः प्रीणयेत्तनुं ।षडङ्गुलानि त्यक्त्वा तु वृश्चिके क्रमते पुनः ॥११६॥कण्ठोर्ध्वं द्व्यङ्गुलं त्यक्त्वा कण्ठाधश्चतुरङ्गुलं ।वृश्चिकं तु परित्यज्य धन्विसंक्रान्तिरुच्यते ॥११७॥षडङ्गुलादधस्तात्तु धन्विस्थश्चरते हृदि ।हृत्पद्मान्तं तु वै हंसश्चरित्वा ऊर्ध्वगोदयः ॥११८॥मकरादिषु संक्रान्तौ द्वादशैवं चरेत्सदा ।अमुनोक्तक्रमेणैव आयुर्वै सर्वदेहिनां ॥११९॥ऐहिकामुष्मिकी सिद्धिरधमा मध्यमोत्तमा ।अयनद्वयमाख्यातं मोक्षसिद्धिर्द्वयोज्झिता ॥१२०॥अयनद्वयपर्यन्त उन्मन्यन्ते सदा स्थितः ।तत्रस्थो वै जपध्यानान्मोक्षसिद्धिमवाप्नुयाथ् ॥१२१॥मोक्षं गत्वा तु नागच्छेत्प्रतिज्ञा भैरवस्य तु ।अस्मिन्नब्दोदये भूयो द्वादशाब्दोदयं शृणु ॥१२२॥चैत्रसंवत्सरे यस्मान्मासानामुदयो भवेथ् ।तदादि साधकैस्तस्मात्कर्तव्यं मन्त्रसाधनं ॥१२३॥द्वादशाब्दः स विज्ञेयश्चैत्रमासाद्वरानने ।लक्षणं तस्य वक्ष्यामि प्राणोऽस्मिन्प्रविभागशः ॥१२४॥तत्र संवत्सरेणैव अमुनोक्तेन सुव्रते ।अहोरात्रस्तु यः प्रोक्तो द्वादशांशं भजेत्प्रिये ॥१२५॥द्वादश ते अहोरात्रा द्वादशाब्दे भवन्ति वै ।पञ्चभिस्तांस्तु संगुण्य द्वादशाब्द ऋतुर्भवेथ् ॥१२६॥तमेव द्विगुणं कृत्वा कालस्तु स विधीयते ।त्रिगुणेनैतदयने वत्सरः षङ्गुणेन तु ॥१२७॥संक्रान्तयो द्वादशात्र यद्वदब्दे प्रकीर्तिताः ।द्वादशाब्दोदये प्राणे वत्सरास्ते प्रकीर्तिताः ॥१२८॥द्वादशाब्दे त्वहोरात्राः तेषां सङ्ख्यां निबोध मे ।सहस्राणि तु चत्वारि त्रिशती विंशतिस्तथा ॥१२९॥द्वादशाब्दोदये देवि प्राणेऽस्मिन्कथिता मया ।षष्ट्यब्दोदयमत्रैव पुनश्च कथयामि ते ॥१३०॥आनन्दाद्यास्तु ते ज्ञेयाः षष्ट्यब्दास्तु वरानने ।ते चाध ऊर्ध्वगे प्राणे एकस्मिन्सुरसुन्दरि ॥१३१॥चरन्ति प्रविभागेन तथा ते कथयाम्यहं ।आनन्दप्रभृतेर्देवि मन्त्रमाराधयेत्तु यः ॥१३२॥तस्यानन्दस्तु देवेशि मन्त्रेण सह जायते ।द्वादशाब्दे त्वहोरात्रं पञ्चधा भेदयेच्च तं ॥१३३॥षष्ट्यब्दे ते त्वहोरात्राः पञ्चैव परिकीर्तिताः ।ते वै षङ्गुणितास्तत्र मास एकः प्रकीर्तितः ॥१३४॥तैश्च द्वादशभिर्देवि वर्षमेकं विधीयते ।अङ्गुले तु सपञ्चांशे मानमेतत्प्रकीर्तितं ॥१३५॥षडङ्गुलैस्तु पञ्चाब्दाः षष्ट्यब्द उदयन्ति ते ।हृत्पद्माद्याव शक्त्यूर्ध्वं त्रिंशदब्दोदयो भवेथ् ॥१३६॥शक्त्यधो यावद्धृत्पद्मं त्रिंशदब्दोदयो भवेथ् ।षष्ट्यब्दे ये त्वहोरात्राः सङ्ख्यां तेषु वदाम्यहं ॥१३७॥विंशतिस्तु सहस्राणि सहस्रं षट्शताधिकं ।अहोरात्रास्तु षष्ट्यब्दे सङ्ख्यातास्तु वरानने ॥१३८॥षष्ट्यब्दोदय आख्यातः प्राण एकत्र ते मया ।चन्द्रसूर्योपरागे च पक्षमासायनेषु च ॥१३९॥युगादिषु युगान्तेषु यच्च संवत्सरेऽप्यथ ।वर्षद्वादशके चैव षष्ट्यब्देऽथ वरानने ॥१४०॥स्नानदानेन यज्ञैश्च पूजाहोमजपेन च ।ज्ञानयोगादिभिश्चैव बाह्ये काले तु यत्कृतं ॥१४१॥अमुनोक्ते वरारोहे तत्फलं लभते महथ् ।प्राणहंसगतिं चारे ज्ञात्वैकस्मिंस्तु तद्भजेथ् ॥१४२॥स्वसंवेद्यो भवेच्चारो नाडीचारजयात्स्फुटं ।अथवा स जपादेवं अत्यर्थमुपबृंहितः ॥१४३॥मन्त्री योगं विजानाति ज्ञात्वा सर्वज्ञतां व्रजेथ् ।पुनरेव प्रवक्ष्यामि नाडित्रयविभागतः ॥१४४॥दक्षिनोत्तरसंक्रान्तौ विषुवच्चारतस्तथा ।यथा चरत्यसौ हंसो जगत्यस्मिंश्चराचरे ॥१४५॥अन्तःस्थः कालरूपेण कलाभिः कलयञ्जगथ् ।नाडित्रयकृताधारो मार्गत्रयव्यवस्थितः ॥१४६॥गुणत्रयसमाविष्टस्त्रिधावस्थाव्यवस्थितः ।कारणैः षड्भिराक्रान्तः शक्तित्रितयसंयुतः ॥१४७॥इच्छाज्ञानक्रियाविद्धः सोमसूर्याग्निमध्यगः ।दक्षनासापुटे चैव नाडी वै पिङ्गला स्मृता ॥१४८॥इडा चैव तु वामेन सुषुम्ना मध्यतः स्थिता ।दक्षिणे देवमार्गस्तु पितृमार्गस्तथोत्तरे ॥१४९॥मध्यमः शिवमार्गस्तु तत्र गत्वा न जायते ।दक्षिणे सत्त्वजाग्रत्स्थः स्वप्नस्थो वामतो रजः ॥१५०॥मध्ये तमस्तु विज्ञेयं सुषुप्तावस्थ एव च ।ब्रह्मेश्वरश्च दक्षस्थो वामे विष्णुसदाशिवौ ॥१५१॥मध्ये रुद्रशिवौ प्रोक्तौ सर्वातीतः परः शिवः ।ज्येष्ठाज्ञाने च दक्षे च क्रिया वामा तथोत्तरे ॥१५२॥रौद्री चेच्छा च मध्यस्था परा शक्तिः परापरा ।दक्षिणो तु स्थितः सूर्यो वामे सोमो विराजते ॥१५३॥पाके प्रकाशकत्वे च मध्यस्थश्चैव पावकः ।पाचयेत्सर्वपाकं हि सोमादिगुणसम्भवं ॥१५४॥प्रकाशयेत्स्वसामर्थ्यात्परतत्त्वमनामयं ।राशयश्च ग्रहाः सर्वे ऋक्षयोगादयश्च ये ॥१५५॥चन्द्रसूर्यपथेनैव ते चरन्त्यनुपूर्वशः ।सूर्यसोमौ च ते सर्वे भुञ्जते क्रमशः प्रिये ॥१५६॥सोमसूर्यात्मकास्ते वै पथित्रयव्यवस्थिताः ।वायति तपति सूर्यः सोमो वर्षति चामृतं ॥१५७॥सोमसूर्यात्मकं यस्माज्जगत्स्थावरजङ्गमं ।सौरो दक्षिणमार्गस्तु उत्तरायणसंज्ञितः ॥१५८॥वामः स्ॐयस्तु यः प्रोक्तस्तत्र वै दक्षिणायनं ।सोमसूर्यात्म विषुवत्पुटद्वयविनिःसृतं ॥१५९॥उदक्संक्रान्तयः पञ्च पञ्च वै दक्षिणायने ।दक्षिणोत्तरयोर्मध्ये संक्रान्त्या विषुवद्द्वयं ॥१६०॥सौरश्च दक्षिणो मार्गस्त्वभिचारप्रसिद्धिदः ।आप्यायने तथा पुष्टौ शान्तिके स्ॐय उत्तरः ॥१६१॥दक्षिणादुत्तरं याति उत्तरद्दक्षिणं यदा ।दक्षिणोत्तरसंक्रान्तिः सा चैवं संविधीयते ॥१६२॥दक्षिणस्यां यदा नाड्यं संक्रामेत्तु यदोत्तरं ।यावदर्धं तु तत्रस्थं मध्येनोत्तरतो वहेथ् ॥१६३॥तावत्तद्विषुवत्प्रोक्तं उत्तरं तूत्तरायणे ।उत्तराद्दक्षिणायां तु संक्रामन्स वरानने ॥१६४॥यावदर्धं वहेत्तत्र अर्धं दक्षिणतो वहेथ् ।विषुवद्दक्षिणं तावद्दक्षिणायनजं प्रिये ॥१६५॥तत्र पूजा जपो होमो यत्कृतं मुक्तिदं भवेथ् ।ध्यानयोगेन दीक्षायां तत्स्थो वै मोचयेद्गुरुः ॥१६६॥बाह्ये चैव त्वहोरात्रे अध्यात्मं तु वरानने ।चतुर्विंशतिसंक्रान्तीः प्राणहंसस्तु संक्रमेथ् ॥१६७॥अहनि द्वादश प्रोक्ता रात्रौ वै द्वादश स्मृताः ।पूर्वाह्णे विषुवत्त्वेकं मध्याह्ने तु द्वितीयकं ॥१६८॥तृतीयं चापराह्णे वै अर्धरात्रे चतुर्थकं ।चतुर्धा विषुवत्प्रोक्तं अहोरात्रेण मुक्तिदं ॥१६९॥चतुर्विंशतिसंक्रान्त्यः समधातोः स्वभावतः ।शतानि नव वै हंस एकामेकां वहेत्सदा ॥१७०॥एतन्मानं समाख्यातं अन्यथा प्रवहेद्यदा ।इष्टं चैवाप्यनिष्टं च तदा संसूचयेत्तु सः ॥१७१॥आत्मार्थं वा परार्थं वा तस्माद्योगी निरूपयेथ् ।पूर्वोदये तु संप्राप्ते भास्करस्य वरानने ॥१७२॥जीवितं मरणं चैव तदारभ्य विचारयेथ् ।सुसंयतमना योगी वीरो योगासनस्थितः ॥१७३॥संस्मरन्नात्मजं प्राणं सुषुम्नान्तर्गतं प्रिये ।सुप्रशान्तस्तदा तिष्ठेत्प्राणैकगतमानसः ॥१७४॥प्राणसंक्रान्तिकालो वै पिङ्गलैकस्थितो वहेथ् ।प्रवाहे विषुवद्देवि ज्ञात्वा कालं समादिशेथ् ॥१७५॥एकाब्दं जीवितं ज्ञेयं अहोरात्रेण सुव्रते ।अब्दद्वयं स जीवेत्तु अहोरात्रद्वयेन तु ॥१७६॥त्र्यब्दं तु त्रिभिरेवात्र चतुर्भिश्चतुरब्दकं ।पञ्चाब्दं पञ्चदिवसैः षड्भिः षड्वर्षमेव च ॥१७७॥सप्तभिः सप्त वर्षाणि जीवेदष्टाष्टभिर्दिनैः ।नवभिर्नववर्षाणि दशभिर्दश एव च ॥१७८॥दिनैकादशकेनैव वर्षैकादशकं प्रिये ।दिनैर्द्वादशभिर्योगी जीवेद्वर्षाणि द्वादश ॥१७९॥सप्तयामप्रवाहेण षण्मासानथ जीवति ।प्रहरान्षड्वहेद्यस्य मासांस्त्रीन्वै स जीवति ॥१८०॥पञ्चप्रहरवाहेन द्वयर्धमासायुर्व सः ।चतुर्भिः प्रहरैदेवि मासमेकं स जीवति ॥१८१॥प्रहरत्रयवाहेन मासार्धं चैव जीवति ।प्रहरद्वयं वहेद्यस्य दिनान्यष्टौ स जीवति ॥१८२॥चतुरः प्रहराञ्जीवेत्प्रहरं तु वहेद्यदा ।प्रहरार्धं वहेद्यस्य स जीवेत्प्रहरद्वयं ॥१८३॥सद्यो मृत्युर्भवेत्तस्य यस्य हंसस्त्रिमार्गगः ।यदारभ्य निरूप्येत प्राणे वै कालमीश्वरं ॥१८४॥मासः पक्षो दिनं वर्षं तदहः प्रभृति प्रिये ।संलक्ष्यैवं प्रयत्नेन तत्काले निश्चयो भवेथ् ॥१८५॥उत्तरायणजे काले एवं ते कथितं मया ।अयुक्तस्यापि च प्राणे मृत्युज्ञानं निबोध मे ॥१८६॥कर्णरन्ध्रकृताङ्गुष्ठो घोषं न शृणुते यदा ।मरणं तस्य देवेशि षण्मासेन विनिर्दिशेथ् ॥१८७॥घोषमध्ये परं शब्दं चीरवाक्चिञ्चिनीरवं ।मासमेकं स जीवेत्तु न शृणोति यदा प्रिये ॥१८८॥उत्पाटं चैव काणं च मृत्युयोगं च मे शृणु ।संक्रान्तिपञ्चकं प्राणो मुखरन्ध्रे वहेद्यदा ॥१८९॥तमुत्पाटं वदेद्योगं स्थानात्स्थानान्तरं व्रजेथ् ।वित्तनाशस्तथोद्वेगो रोगवृद्धिश्च जायते ॥१९०॥सुहृद्गृहविनाशश्च तेजोहानिश्च जायते ।दक्षिणे पुट एकस्मिन्दक्षिणायनवर्जिते ॥१९१॥संक्रान्त्यष्टकवाहेन काणयोगो भवेद्धि सः ।भगन्धरोऽनुग्रन्थश्च नेत्ररोगश्च कामला ॥१९२॥शूलं विस्फोटिका दुःखं उरोदोषा भवन्ति च ।वामनासापुटेनैव संक्रान्तीश्च त्रयोदश ॥१९३॥ज्वरः शिरोऽर्तिः शूलं च अर्शासि स्तम्भ एव च ।मूत्रकृच्छ्रं प्रमेहश्च पाण्डुरोगश्च जायते ॥१९४॥इडास्थः श्लेष्मणा व्याधिं प्रकोपयति सुव्रते ।यस्मिंश्चारे निरूप्येत तत्कालदिवसे परे ॥१९५॥व्याधिभिः पीड्यते सर्वैर्वामवामेतरेतरे ।अथान्यत्स्पर्शविज्ञानं नासाधस्तात्तथोपरि ॥१९६॥ऊर्ध्वेन स्पृशतश्चोर्ध्वं रुग्दोषाः प्राक्प्रचोदिताः ।वाचाक्रोशाभिभवनं दक्षिणेन वहेद्यदा ॥१९७॥मध्ये मध्यपुटस्पर्शी पराभिभवतां व्रजेथ् ।इतश्चेतश्च बहुधा संक्रान्त्येका वहेद्यदा ॥१९८॥पूजनं बहुसंमानं लाभस्तस्य भवेत्तदा ।मन्दचारे सुषुम्नायां प्राणहंसो वहेद्यदा ॥१९९॥भूलाभो धर्म ऐश्वर्यं भवेच्चात्र प्रियागमः ।द्वादशैव तु संक्रान्तीर्वहेद्विषुवतैकतः ॥२००॥तदैकवत्सरेणैव मरणं तु समादिशेथ् ।ह्रसेत्संक्रान्तिरेकैका मास एको ह्रसेत्तदा ॥२०१॥संक्रान्त्येका वरारोहे त्रिंशत्प्राणक्षयोदया ।दिने दिने वहेद्बाह्ये यावत्त्रिंशद्दिनानि तु ॥२०२॥मासान्ते तु भवेन्मृत्युः सद्य एव वरानने ।मृत्युयोगः समाख्यातो मया ते वरवर्णिनि ॥२०३॥अब्दं मासं तथा पक्षं तिथिं वेलां यदाभ्यसेथ् ।यत्कालात्तु समारभ्य तत्कालं तु समादिशेथ् ॥२०४॥इडासुषुम्नामार्गेण प्राणचारं विदुर्बुधाः ।दक्षिणायनजे काले एवं ते कथितं शुभं ॥२०५॥एवं शरीरजे काले मृत्युं चाशुभमेव च ।ज्ञात्वा योगी जयेन्मृत्युं अशुभान्यप्यशेषतः ॥२०६॥ध्यात्वा कालेशस्वच्छन्दं हंसं वा सकलेश्वरं ।नासिकारन्ध्रमार्गस्थः स सृजेत्संहरेज्जगथ् ॥२०७॥तत्रस्थः कलयेत्सर्वं सर्वभूतेष्ववस्थितः ।तत्स्थं ध्यात्वा जयेन्मृत्युं नाकलस्थं कलेत्प्रभुः ॥२०८॥ध्यानयुक्तस्य षण्मासात्सर्वज्ञत्वं प्रवर्तते ।कालत्रयं विजानाति कालयुक्तस्तु योगविथ् ॥२०९॥कालहंसं स तु जपन्ध्यायन्वापि महेश्वरि ।स भवेत्कालरूपी वै स्वच्छन्दः कालवच्चरेथ् ॥२१०॥हतमृत्युर्जरां त्यक्त्वा रोगैः सर्वभयोज्झितः ।विज्ञानं श्रवणं दूरान्मननं चावलोकनं ॥२११॥सर्वैश्वर्यगुणावाप्तिर्भवेत्कालजयात्सदा ।दक्षनासापुटे ध्यात्वा ब्राह्मैश्वर्यमवाप्नुयाथ् ॥२१२॥तदायुस्तत्समं वीर्यं भूतकालं च वेत्त्यतः ।भविष्यज्ज्ञो भवेद्वामे विष्णुतुल्यबलश्च सः ॥२१३॥तत्समं चैतदैश्वर्यं तदायुर्योगिराड्भवेथ् ।भूतं भव्यं भविष्यच्च सर्वं जानाति मध्यतः ॥२१४॥नित्यं वै ध्यानयोगेन रुद्रस्य समतां व्रजेथ् ।आयुषा बलवीर्येण रूपैश्वर्येण तत्समः ॥२१५॥ब्रह्मणः परभावेन ऐश्वरं पदमाप्नुयाथ् ।विष्णोः सदाशिवैश्वर्यं परभावादवाप्नुयाथ् ॥२१६॥रुद्रस्य यः परो भावो ध्यात्वा तं तु शिवो भवेथ् ।एवं मृत्युजयः ख्यातः अमृतं ध्यायतो जयः ॥२१७॥नाडिभिन्नालरन्ध्रस्थं हृत्पद्मं षोडशच्छदं ।ध्यात्वा सितं सुविकचं कलाषोडशकान्वितं ॥२१८॥संपूर्णावयवं चन्द्रं कर्णिकाकारविग्रहं ।तन्मध्ये चिन्त्यमात्मानं शुद्धस्फटिकनिर्मलं ॥२१९॥श्रीरामृतार्णवावस्थ- कल्लोलामृतपूरितं ।उपरिष्टाद्द्वितीयाब्जं शक्तामृतमहोदधौ ॥२२०॥तच्चाधो मुखपद्मं तु परिपूर्णेन्दुकर्णिकं ।तन्मध्ये चिन्तयेद्धंसं अधो बिन्दुशिखान्वितं ॥२२१॥वर्षन्तममृतं दिव्यं समन्तात्संविचिन्तयेथ् ।आत्मोर्ध्वरन्ध्रमार्गेण प्रविष्टं तच्च चिन्तयेथ् ॥२२२॥सितं सुबहुलं सान्द्रं अमृतं मृत्युनाशनं ।तेनाप्लावितमात्मानं पूर्यमाणं विचिन्तयेथ् ॥२२३॥पद्मनालनिबद्धैश्च नाडीरन्ध्रमुखैः सदा ।अमृतापूरितं देहं सर्वमेव विचिन्तयेथ् ॥२२४॥एवं वै नित्ययुक्तात्मा अमृतेशसमो भवेथ् ।व्याधीन्मृत्युं जरां त्यक्त्वा क्रीडते त्वणिमादिभिः ॥२२५॥एवं तस्यामृतध्यानात्कालमृत्युजयो भवेथ् ।अथवा परतत्त्वस्थः सर्वकालैर्न बाध्यते ॥२२६॥चिन्तयेत्परमं तत्त्वं कालचारविवर्जितं ।कलाकलङ्कनिर्मुक्तं निष्कलं परमं पदं ॥२२७॥निष्कलं चात्मतत्त्वं तु कलङ्को देह उच्यते ।संयुक्तः कारणैः षड्भिः सर्वतत्त्वसमन्वितः ॥२२८॥वर्णो बिन्दुस्तथा नादो व्यापिनीशक्तिसंयुतः ।समनावधिपर्यन्तः कलङ्काधार उच्यते ॥२२९॥आधेयः परमो ह्यात्मा तत्पराप्युन्मना स्मृता ।तस्याश्चान्ते परं तत्त्वं सकलाकलवर्जितं ॥२३०॥व्यापकं सर्वतोभद्रं सर्वान्तः सर्वतोमुखं ।पञ्चपञ्चकतत्त्वस्थं अष्टादशगुणान्वितं ॥२३१॥यद्यस्मिंस्तु परं वेत्ति तदा मुच्येत बन्धनाथ् ।कारणानि च मन्त्राश्च निवृत्त्याद्याः कलास्तथा ॥२३२॥बिन्दुश्चैवार्धचन्द्रश्च निरोधी नाद ऊर्ध्वर्गः ।शक्तिश्च व्यापिनी चैव समनात्मा तथोन्मना ॥२३३॥पञ्चपञ्चकमेतद्धि कथितं ते वरानने ।तत्त्वान्येव तु षट्त्रिंशत्गुणांश्चैव निबोध मे ॥२३४॥अहंकारो धीर्मनश्च इन्द्रियार्थास्तथैव च ।ग्रहणं स्पर्श आधारः शक्तिश्चैवाष्टमी स्मृता ॥२३५॥एते चाष्टौ गुणाः अष्टौ भैरवा भैरवाव्ष्टकं ।प्राणहंसस्तथा शक्तिः गुणा अष्टादश त्विमे ॥२३६॥एतेषु तत्परं तत्त्वं उच्चारालम्बनादृते ।अक्षराक्षरनिर्मुक्तं परं तत्त्वमनक्षरं ॥२३७॥अक्षरेषु कुतो मोक्ष आकाशो कुसुमं कुतः ।यावदुच्चार्यते वाचा यावल्लेख्येऽपि तिष्ठति ॥२३८॥तावत्स सकलो ज्ञेयो निष्कलो भेदवर्जितः ।सृष्टिसंहारनिर्मुक्तः क्रियाकालविवर्जितः ॥२३९॥अधश्चारे भवेत्सृष्टिरूर्ध्वे संहार उच्यते ।अधश्चारेण जातोऽसौ उर्ध्वे चैव मृतो भवेथ् ॥२४०॥सूतकं मृतकं त्यक्त्वा तिष्ठेद्वै तत्त्ववृत्तितः ।तत्त्ववृत्तिश्च व्याख्याता सर्वाध्वोपाधिवर्जिता ॥२४१॥तत्त्वाध्वधर्मनिर्मुख्तः कारणैश्च विवर्जितः ।तत्त्ववृत्तौ स्थितो योगी सर्वारम्भविवर्जितः ॥२४२॥रागद्वेषविनिर्मुक्तो विषादानन्दवर्जितः ।नाकाङ्क्षेन्न च निन्देत्तु विषयांश्च कदाचन ॥२४३॥समः शत्रौ च मित्रे च ब्राह्मणे श्वपचे समः ।तुल्यदर्शी भवेन्नित्यं सर्वं शिवमयं स्मरेथ् ॥२४४॥आत्मानं च तथैवैवं सर्वथैव सदा स्मरेथ् ।सर्वतत्त्वानि भूतानि वर्णा मन्त्राश्च ये स्मृताः ॥२४५॥नित्यं तस्य वशास्ते वै शिवभावनयानया ।नचासौ कुरुते पुण्यं नैव पापं च सुव्रते ॥२४६॥कृतकृत्यः प्रसन्नात्मा कृत्यं चास्य न विद्यते ।इह लोके परस्मिंश्च परिपूर्णस्तु सर्वदा ॥२४७॥धर्माधर्मविनिर्मुक्तः पुण्यपापविवर्जितः ।न चास्य भक्ष्याभक्ष्यं हि न पेयापेयमेव च ॥२४८॥नापवित्रं हि तस्यास्ति न पवित्रं हि सुव्रते ।निरपेक्षो ह्यसौ नित्यं सर्वापेक्षाविवर्जितः ॥२४९॥नास्य क्षेत्रं नास्य तीर्थं नियमो यम एव च ।क्षेत्रं तस्य परा शक्तिर्यतः सर्वं प्रसूयते ॥२५०॥सर्वाध्वानो यतो देवि तत्रस्थाः प्रचरन्ति वै ।तीर्थं चैव परं शान्तं नित्यं चानन्दविश्वगं ॥२५१॥येन व्याप्तमिदं विश्वं अनन्तं विश्वशक्तिभिः ।नित्यं विरक्तिः संसाराद्यमोऽयं परिकीर्तितः ॥२५२॥नियमो भावना नित्यं परतत्त्वैकतानता ।नात्मनो भावयेज्जातिं न कुलं न च बान्धवान् ॥२५३॥आचरेत्सर्ववर्णत्वं न च वर्णेषु वर्तयेथ् ।परभावनया नित्यं परधर्मेण वर्तयेथ् ॥२५४॥सर्वज्ञः परितृप्तश्च परिपूर्णः स्वभावतः ।स्वतन्त्रोऽलुप्तसामर्थ्यस्त्वनादिनिधनाश्रितः ॥२५५॥अनादिबोधो ह्यतुलः कालवेलाविवर्जितः ।चारोच्चारविनिर्मुक्तस्त्वहोरात्रविवर्जितः ॥२५६॥न दिवा जागरं कुर्यान्न च रात्रौ स्वपेत्क्वचिथ् ।स्वभावेनैव संतिष्ठद्दिनरात्रिविवर्जितः ॥२५७॥एवं वै वर्तते योगी परेण समतां व्रजेथ् ।न च तं कलयेत्कालः कल्पकोटिशतैरपि ॥२५८॥जीवन्नेव विमुक्तोऽसौ यस्यैषा भावना सदा ।शिवो हि भावितो नित्यं न कालः कलयेच्छिवं ॥२५९॥योगी स्वच्छन्दयोगेन स्वच्छन्दगतिचारिणा ।स स्वच्छन्दपदे युक्तः स्वच्छन्दसमतां व्रजेथ् ॥२६०॥स्वच्छन्दश्चैव स्वच्छन्दः स्वच्छन्दो विचरेत्सदा ।एवं वै मृत्युलिङ्गानि रिष्टान्यन्यानि यानि च ॥२६१॥योगाज्जानाति योगीन्द्रो नादजान्तर्गतानि च ।निर्जित्यैतानि योगेन एवमुक्तव्रमेण तु ॥२६२॥अयोगी यानि जानाति अयुक्तो वापि सुव्रते ।बहिर्लिङ्गानि तान्यत्र अङ्गारिष्टानि मे शृणु ॥२६३॥शुष्कताल्वोष्ठकण्ठश्चेदकस्माद्धूसरच्छविः ।स्कन्धौ च भङ्गमायातः षण्मासान्मृत्युमाप्नुयाथ् ॥२६४॥सुनीलं मण्डलं व्योम्नि यः पश्यति दिने दिने ।सितं हरितकृष्णं च वत्सरार्धान्म्रियेत सः ॥२६५॥विरश्मिं पश्यति रविं सोमं वै लक्ष्मवर्जितं ।तारां ज्योत्स्नां च कृष्णां वै पश्येत्षण्मासजीवितः ॥२६६॥हिरण्यवर्णं पुरुषं पिङ्गलं कृष्णमेव च ।स्वप्ने संपश्यते यो वै षण्मासान्सोऽपि जीवति ॥२६७॥आत्मनो ह्यशिरच्छायां पश्येत्षण्मासजीवितः ।तैलाभ्यङ्गं तथा पानं रक्तस्रगनुलेपनं ॥२६८॥रक्ताम्बराणि कृष्णानि स्वप्ने पश्यति वै यदा ।प्रेतैः पिशाचै रक्षोभिः श्वगोमायुकसूकरैः ॥२६९॥वृतं यातं गृद्ध्रकाकैर्महिषैरुष्ट्रगर्दभैः ।अङ्गभक्षणमुद्वाहं नग्नं चातीव विह्वलं ॥२७०॥स्वप्ने च पश्यते यो वै वर्षमेकं स जीवति ।शंखावर्ते भुजामध्ये गुल्फयोर्मर्मसन्धिषु ॥२७१॥सोऽवश्यं वधमायाति यस्यैतत्स्पन्दनं न हि ।सोमार्कमण्डलं देहे ध्रुवं चैव त्वरुन्धतीं ॥२७२॥न पश्यति महायानं सोऽवश्यं म्रियते नरः ।तालुरन्ध्रगतो धूमो महायानं तदुच्यते ॥२७३॥जिह्वा त्वरुन्धतीत्युक्ता नासाग्रं ध्रुव उच्यते ।नेत्रान्ते करजाक्रान्ते मण्डलं सोमसूर्ययोः ॥२७४॥न पश्येद्गगनेऽप्येतत्सोऽवश्यं म्रियते नरः ।स्थूलोऽकस्माच्च जायेत अकस्माद्वै भवेत्कृशः ॥२७५॥अतिक्रुद्धोऽतिभीतश्च वर्षमेकं स जीवति ।कृष्णाम्बरधरं कृष्णं लोहदण्डकरोद्यतं ॥२७६॥नरं चाभिमुखं स्वप्ने दृष्ट्वा मासत्रयायुषं ।हृदयं शुष्यते यस्य स्नातमात्रस्य तत्क्षणाथ् ॥२७७॥गात्रं चैवाप्यनुष्णं च ऋतुमेकं स जीवति ।धनुर्निशि दिवा चोल्का व्यभ्रे विद्युत्प्रदर्शनं ॥२७८॥दिग्दाहोऽप्लुष्टदेशेऽपि मासमेकं स जीवति ।चक्षुषी स्रवतो यस्य शब्दं न शृणुयात्स्फुटं ॥२७९॥नाघ्राति गन्धं वाग्जाड्यं मासमेकं गतायुषः ।रक्तपद्मोपमं वक्त्रं जिह्वा कृष्णा च यस्य वै ॥२८०॥गात्रे वर्णान्यनेकानि हृदयं यस्य रोदिति ।तालुकम्पोऽथ नाभेश्च अर्धमासं स जीवति ॥२८१॥प्रत्यक्षकाकनासीरो दीपधूमं न जिघ्रति ।पूर्वदृष्टं न जानाति चतुर्मासं स जीवति ॥२८२॥बिन्दुं यस्तु न पश्येत्तु नित्यं वक्त्रानुगं हितं ।नित्यं वहति हिक्कां तु वर्षमेकं स जीवति ॥२८३॥बहिर्लिङ्गानि चैतानि अङ्गारिष्टानि यानि च ।पूजया जपहोमेन ध्यानधारणया प्रिये ॥२८४॥कृतरक्षाविधानेन जीयन्ते नात्र संशयः ।नाडीनां शोधनं चैव वायूनां च जयः कथं ॥२८५॥स्थानं रूपं च शब्दं च कर्म ब्रूहि मम प्रभो ।परमो योगसद्भावो गुह्याद्गुह्यतरः प्रिये ॥२८६॥यो न कस्यचिदाख्यातस्तं योगं शृणु तत्त्वतः ।सुप्रशस्ते भूप्रदेशे नाग्नितोयसमीपतः ॥२८७॥वालुकाशर्कराहीने शुष्कवृक्षविवर्जिते ।निःशब्दकीटवल्मीके ईतिभिः परिवर्जिते ॥२८८॥पुण्ये धर्मिष्ठसंवासे तत्र योगं समभ्यसेथ् ।देवदेवं समभ्यर्च्य भैरवं सविनायकं ॥२८९॥पूर्वाचार्यान्नमस्कृत्य युक्तो ध्यानपरायणः ।आसनं स्वस्तिकं बद्ध्वा पद्मकं भद्रमेव वा ॥२९०॥सापाश्रयं सार्धचन्द्रं योगपट्टं यथासुखं ।दहनोत्पूयने कृत्वा प्लावयेदमृतेन च ॥२९१॥सबाह्याभ्यन्तरेणैव सकलीकरणं ततः ।अन्तर्यागं यथापूर्वं उच्चार्यं च परं तथा ॥२९२॥दशधा योगमार्गेण हंसस्वच्छन्दमभ्यसेथ् ।मन्त्रं बिन्दुमतीतं तु नादान्तज्योतिराकृतिं ॥२९३॥संकल्प्य कल्पनालक्ष्यं ध्यायेद्वै तेन सर्वगं ।अपसव्येन पूर्येत सव्येनैव विरेचयेथ् ॥२९४॥नाडीसंशोधनं चैतन्मोक्षमार्गपथस्य च ।रेचनात्पूरणाद्रोधात्प्राणायामस्रिधा स्मृतः ॥२९५॥सामान्या बहिरेते तु पुनश्चाभ्यन्तरे त्रयः ।आभ्यन्तरेण रेच्येत पूर्येताभ्यन्तरेण तु ॥२९६॥निष्कम्पं कुम्भकं कृत्वा कार्याश्चाभ्यन्तरास्त्रयः ।नाभ्यां हृदयसंचारान्मनश्चेन्द्रियगोचराथ् ॥२९७॥प्राणायामश्चतुर्थस्तु सुप्रशान्त इति श्रुतः ।प्राणरोधे तु संपूर्णे नाभौ नीत्वा समुच्छ्वसन् ॥२९८॥शनैर्विमोचयेद्वायुं वामनासापुटेन तु ।वायवी धारणाङ्गुष्ठे आग्नेयी नाभिमध्यतः ॥२९९॥माहेयी कण्ठदेशे तु वारुणी घण्टिकाश्रया ।आकाशधारणा मूर्ध्नि सर्वसिद्धिकरी स्मृता ॥३००॥एकद्वित्रिचतुष्पञ्च- संख्योद्धातैः प्रसिद्ध्यति ।संनिरुद्धे तु वै प्राणे मूर्ध्नि गत्वा निवर्तते ॥३०१॥स उद्घात इति प्रोक्तो ज्ञातव्यो योगिभिः सदा ।रागद्वेषौ प्रहीयेते प्राणायामैः सुधारितैः ॥३०२॥धारणाभिर्दहेत्पापं प्रत्याहारेऽक्षसंयमः ।हृद्गुदे नाभिकण्ठे च सर्वसन्धौ तथैव च ॥३०३॥प्राणाद्याः संस्थिता ह्येते रूपं शब्दं च मे शृणु ।द्रुततारनिभो रक्त इन्द्रगोपकसंनिभः ॥३०४॥क्षीराभः स्फटिकाभश्च पञ्चानां रूपलक्षणं ।घण्टाकंसाब्दमधुरो गजनादो महाध्वनिः ॥३०५॥प्राणादिनां तु पञ्चानां अयं शब्द उदाहृतः ।जल्पितं हसितं गीतं नृत्तं युद्धगतिः कलाः ॥३०६॥शिल्पं च सर्वकर्माणि प्राणस्यैव विचेष्टितं ।प्रवेशयेदन्नपानं तन्मलं स्रावयेदधः ॥३०७॥अन्धत्वं श्रोत्ररोगं च अपानस्तु करिष्यति ।अशितं लीढपीतं च समानः समतां नयेथ् ॥३०८॥क्षोभो हिक्का तथा छिक्का उदानस्य विचेष्टितं ।स्वेदश्च रोमहर्षश्च शूलं दाहोऽङ्गभञ्जनं ॥३०९॥व्यानस्यैतानि कर्माणि स्पर्शं चैव स विन्दति ।अङ्गुष्ठजानुहृदये लोचने मूर्ध्नि संस्थिताः ॥३१०॥नागाद्याः बहुरूपाश्च कर्म त्वेषां निबोध मे ।आह्लादोद्वेगजनकः शोषणस्त्रासनस्तथा ॥३११॥नागः कूर्मश्च कृकरो देवदत्तश्च पञ्चमः ।अतिनिद्राकरश्चान्यो योजकश्च धनंजयः ॥३१२॥श्वाससंकोचनच्छेदा घुर्घुरोत्क्रमणं तथा ।नागादीनां तु पञ्चानां मृत्युकाले विचेष्टितं ॥३१३॥न चैव याति चोत्क्रान्तौ तनुं त्यक्त्वा धनञ्जयः ।आकुञ्चयति वै कूर्मः शोषयेच्च कलेवरं ॥३१४॥प्राणमेव जयेत्पूर्वं जिते प्राणे जितं मनः ।जिते मनसि शान्तस्य परं तत्त्वं प्रकाशते ॥३१५॥प्राणापानं गुदे ध्यायेत्प्राणसमानं नाभितः ।प्राणोदानं तु कण्ठे तु प्राणव्यानं तु सर्वगं ॥३१६॥नागाद्याः प्राणसंयुक्ताः स्वस्थानेषु निरोधयेथ् ।निरुद्धस्य च यः कालस्तं वक्ष्यामि निबोध मे ॥३१७॥तालात्प्रभृति तं ध्यायेद्यावत्पञ्चशतं गतं ।जितोऽनिलो भवत्येव संक्रान्त्युत्क्रान्तिकर्मणि ॥३१८॥दिव्या कान्तिः शुभो गन्धः प्रज्ञा चास्य विवर्धते ।दिव्या दृष्टिश्च श्रवणं दिव्या वाक्च प्रजायते ॥३१९॥वायुवद्विचरेल्लोकान्सिद्धान्देवांश्च पश्यति ।मनसा चिन्तितावाप्तिः प्रवर्तेत गुणाष्टकं ॥३२०॥सर्वकामसुसंपूर्णः सर्वद्वन्द्वविवर्जितः ।संसारबन्धनिर्मुक्तः शिवतुल्यश्च जायते ॥३२१॥प्राणापानौ तु संयोज्य ह्रस्वकोटिसमन्वितौ ।नाभ्याधारे च योगीन्द्रः स्वेदः कम्पश्च जायते ॥३२२॥पुनरेव तु हृत्स्थौ हि प्राणापानौ निरोधयेथ् ।दीर्घकोटिसमायोगात्तत्क्षणाच्च पतेद्भुवि ॥३२३॥कण्ठस्थं च तथैवेह प्राणमेव निरोधयेथ् ।प्लुतकोटिसमायोगात्स्वप्नवृत्तिस्ततो भवेथ् ॥३२४॥भ्रूमध्ये बिन्दुयोगेन प्राणरोधं तु कारयेथ् ।सुषुप्तं जायते तत्र क्षणाच्चैव प्रबुद्ध्यते ॥३२५॥मूर्धद्वारं समाश्रित्य निष्कलं ध्यानमारभेथ् ।एवमभ्यसतस्तस्य प्रत्ययस्तु तदा भवेथ् ॥३२६॥पिपीलकण्टकावेधो मूर्ध्वद्वारं विभिन्दतः ।भित्त्वा क्रमेण सर्वणि उन्मन्यन्तानि यानि तु ॥३२७॥पूर्वोक्तलक्ष्णैर्देवि त्यक्त्वा स्वच्छन्दतां व्रजेथ् ।जायते उन्मनस्त्वं हि देहेनानेन साधके ॥३२८॥संक्रामेत्परदेहेषु क्षुत्तृष्णाभ्यां न बाध्यते ।अतीतानागतं चैव त्रैलोक्ये यत्प्रवर्तते ॥३२९॥प्रत्यक्षं तद्भवेत्तस्य सर्वज्ञत्वं च जायते ।प्रसङ्गेऽध्यात्मकालस्य ज्ञानं विज्ञानमेव च ॥३३०॥सर्वमेतत्समाख्यातं अंशकांश्च निबोध मे ॥३३१॥इति स्वच्छन्दतन्त्रे सप्तमः पटलः N/A References : N/A Last Updated : June 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP