संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|स्वच्छन्दभैरवतन्त्र| अष्टमः पटलः स्वच्छन्दभैरवतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः १ दशमः पटलः २ दशमः पटलः ३ दशमः पटलः ४ दशमः पटलः ५ दशमः पटलः ६ दशमः पटलः ७ दशमः पटलः ८ दशमः पटलः ९ दशमः पटलः १० दशमः पटलः ११ दशमः पटलः १२ दशमः पटलः १३ एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः स्वच्छन्दभैरवतन्त्र - अष्टमः पटलः स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात. Tags : shastratantraतंत्रशास्त्रस्वच्छन्दभैरवतन्त्र अष्टमः पटलः Translation - भाषांतर अंशकं षड्विधं देवि कथयाम्यनुपूर्वशः ।भावांशकः स्वभावांशः पुष्पपातांश एव च ॥१॥मन्त्रांशकः स्मृतश्चान्यस्त्वंशकापादनं द्विधा ।देवानुस्मरणं भावः सहजं तं विजानत ॥२॥स्वभावश्च भवेच्चेष्टा कथयाम्यनुपूर्वशः ।ब्रह्मांशो वेदभक्तस्तु रुद्रांशं च निबोध मे ॥३॥रुद्रभक्तः सुशीलश्च शिवशास्त्ररतः सदा ।विष्ण्वंशो विष्णुभक्तश्च चन्द्रांशः प्रियदर्शनः ॥४॥सर्वदेवरतः शान्तो यक्षांशो धनसंग्रही ।लुब्धो गर्वितमृष्टाशी वातांशश्चपलः स्मृतः ॥५॥सर्पविस्रम्भगामी स्यान्नागांशो दीर्घशाय्यथ ।दीर्घरोषः पूतिवक्त्रो गुरुक्षीररुचिः सदा ॥६॥गान्धर्वो गायनो नित्यं शिवभक्तो वरानने ।विद्याधरांशकः प्राणी दैत्यांशो द्वेषणः स्मृतः ॥७॥कामांशो रूपवांश्चैव सुभगो गणिकाप्रियः ।रक्षोंशः क्रूरनिस्त्रिंशो देवद्वेषी द्विजेषु च ॥८॥पिशाचांशश्छलान्वेषी वासरे भीरुकातरः ।अग्न्यंशः परुषस्तीव्र उष्णादः पिङ्गलस्तथा ॥९॥सवित्रंशश्च तेजस्वी पूर्तधर्मरतः सदा ।इष्टानि कुरुते नित्यं दयालुः शिवभावितः ॥१०॥स्वसिद्धेः फलदाः सर्वे स्वध्यानजपहोमतः ।भैरवाङ्गसमालब्धाः सर्वे देवा वरानने ॥११॥भैरवास्तु स्मृताः सर्वे सर्वसिद्धिफलप्रदाः ।स्वभावांशः समाख्यातः साधकानां हिताय वै ॥१२॥पुष्पपातवशान्नाम कर्तव्यं सुरसुन्दरि ।स मन्त्रः सिद्ध्यते तस्य तमेवाराधयेद्यदि ॥१३॥अंशकापादनं देवि कथयामि समासतः ।वैहायसं ध्वज चैव होमयेद्यस्तु साधकः ॥१४॥स मन्त्रः सिद्ध्यते तस्य अर्यन्तोऽपि हि सुव्रते ।अनंशकोऽपि यो मन्त्रो ज्ञातचिह्नैर्वरानने ॥१५॥तदा यागं पुरा कृत्वा अग्नौ होमं तु कारयेथ् ।शिष्यस्य पूर्ववत्कर्म कृत्वा तु विधिपूर्वकं ॥१६॥पूर्णाहुतिप्रयोगेण योजयेच्छाश्वते पदे ।परतत्त्वमभिध्यायन्साधयेन्मनसेप्सितं ॥१७॥मन्त्रांशं गणयित्वा तु गृह्णीयात्सुविचारितं ।हीनमध्यसमुत्कृष्टं कथयामि समासतः ॥१८॥हीनं शत्रुं विजानीयान्मध्यमं साध्यरूपिणं ।सिद्धं चैव सुसिद्धं च उत्तमं परिकीर्तितं ॥१९॥मन्त्राक्षरं तु विश्लेष्य मात्राबिन्दुसमन्वितं ।आत्मनामाक्षरं तद्वदधोभागेऽस्य योजयेथ् ॥२०॥आत्मवर्णात्समारभ्य यावन्मन्त्रार्णमागतं ।यस्मिन्स निपतेद्देवि तमायं परिकल्पयेथ् ॥२१॥रेखाङ्गुलिगतं तं तु कथयामि समासतः ।पर्वणि प्रथमे सिद्धः साध्यश्चैव द्वितीयके ॥२२॥तृतीये तु सुसिद्धः स्यादरिर्ज्ञेयश्चतुर्थके ।अरिसाध्यौ परित्यज्य दातव्यश्चुम्बकेन तु ॥२३॥सिद्धरूपः सुसिद्धश्च भुक्तिमुक्तिफलप्रदः ।यस्त्वंशकविशुद्धः स्याद्भैरवोऽत्र वरानने ॥२४॥तं मध्यमस्थं संपूज्य तत्स्थाने मध्यमं न्यसेथ् ।यतः सर्वगतो देवः सर्वेष्वन्तर्गतः स्मृतः ॥२५॥तत्सिद्धिमुक्तिदातासौ न वर्णाः परमार्थतः ।कथितं सरहस्यं ते गुह्याद्गुह्यतरं परं ॥२६॥अतस्तन्त्रावतारार्थं कथयामि समासतः ।अदृष्टविग्रहायातं शिवात्परमकारणाथ् ॥२७॥ध्वनिरूपं सुसूक्ष्मं तु सुशुद्धं सुप्रभान्वितं ।यद्वक्ष्यति---अदृष्टविग्रहाच्छान्ताच्छिवात्परमकारणाथ् ।ध्वनिरूपं विनिष्क्रान्तं शास्त्रं परमदुर्लभं ।तदेवापररूपेण शिवेन परमात्मना ॥२८॥मन्त्रसिंहासनस्थेन पञ्चमन्त्रमहात्मना ।पुरुषार्थं विचार्याशु साधनानि पृथक्पृथक् ॥२९॥लौकिकादिशिवान्तानि परापरविभूतये ।तदनुग्रहयोग्यानां स्वे स्वे विषयगोचरे ॥३०॥अनुष्टुप्छन्दसा बद्धं कोट्यर्बुदसहस्रधा ।गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः ॥३१॥पूर्वोत्तरपदैर्वाक्यैस्तन्त्रमाधारभेदतः ।तज्ज्ञानमीश्वरेऽदात्तदीश्वरेण शिवेच्छया ॥३२॥विद्यायाः कथितं पूर्वं विद्येशेभ्यस्तथादराथ् ।मायानियतिपर्यन्तैस्तस्माद्रुद्रैरवापि तथ् ॥३३॥श्रीकण्ठेनेश्वरात्प्राप्तं ज्ञानं परमदुर्लभं ।तेनापि तदधः प्रोक्तं रुद्राणामीश्वरेच्छया ॥३४॥प्रधानाच्छतरुद्रान्तं दीक्षयित्वा विधानतः ।ममापि च पुरा दीक्षा तथा चैवाभिषेचनं ॥३५॥श्रीकण्ठेन पुरा दत्तं तन्त्रं सर्वार्थसाधकं ।मयापि तव देवेशि साधिकारं समर्पितं ॥३६॥त्वमपि स्कन्दरुद्रेभ्यो ददस्व विधिपूर्वकं ।ब्रह्मविष्विन्द्रदेवानां वसुमातृदिवाकृतां ॥३७॥लोके संगृह्य नागानां यक्षाणां परमेश्वरि ।कथयस्व ऋषीणां च ऋषिभ्यो मनुजेष्वपि ॥३८॥एवं तन्त्रवरं दिव्यं सिद्धरत्नकरण्डकं ।त्वया गुप्ततरं कार्यं न देयं यस्य कस्यचिथ् ॥३९॥इति स्वच्छन्दतन्त्रेऽंशकाधिकारोऽष्टमः पटलः समाप्तः N/A References : N/A Last Updated : June 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP