संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|स्वच्छन्दभैरवतन्त्र| दशमः पटलः ११ स्वच्छन्दभैरवतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः १ दशमः पटलः २ दशमः पटलः ३ दशमः पटलः ४ दशमः पटलः ५ दशमः पटलः ६ दशमः पटलः ७ दशमः पटलः ८ दशमः पटलः ९ दशमः पटलः १० दशमः पटलः ११ दशमः पटलः १२ दशमः पटलः १३ एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः स्वच्छन्दभैरवतन्त्र - दशमः पटलः ११ स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात. Tags : shastratantraतंत्रशास्त्रस्वच्छन्दभैरवतन्त्र दशमः पटलः ११ Translation - भाषांतर कैलासनिलयश्चाहं त्वया सार्धं वरानने ।त्वं तनुर्वामभागस्य मत्तो नैव वियुज्यसे ॥१००१॥दक्षाध्वरे पुनर्जाता भद्रकालीति नामतः ।एकानंशापरा मूर्तिः सतीशानाद्विनिःसृता ॥१००२॥इदं चतुर्युगं प्राप्य द्वापरे विष्णुना सह ।महिषस्य वधार्थाय उत्पन्ना कृष्णपिङ्गला ॥१००३॥कात्यायनीति दुर्गेति विविधैर्नामपर्ययैः ।मनुष्याणां तु भक्तानां वरदा भक्तवत्सला ॥१००४॥पूर्वमवावतीर्णासि विन्ध्यपर्वतमूर्धनि ।अत ऊर्ध्वं प्रवक्ष्यामि भुवनं वरवर्णिनि ॥१००५॥सुचार्विति तु विख्यातं सहस्रादित्यकान्तिमथ् ।कैलासशिखराकारं शुद्धस्फटिकसप्रभं ॥१००६॥महाविमानकोटीभिरावृतं चक्रवर्तिनां ।तस्मिंस्तु भुवने दिव्ये सूर्यकोटिसमद्युतिः ॥१००७॥सहस्रबाहुचरणः सहस्रवदनेक्षणः ।उमापतिर्जगन्नाथः सर्वानुग्रहकृद्वरः ॥१००८॥भोगस्थानं समस्तं वै तत्रस्थं वामभागतः ।शतयोजनविस्तीर्णे नानारत्नविभूषिते ॥१००९॥दिव्यास्तरणसंछन्ने आदित्यशतसन्निभे ।आसने परमे दिव्ये रत्नपद्मविचित्रिते ॥१०१०॥उपविष्टो महातेजा वृषभैरष्टभिर्वृतः ।हेमचीनाम्बरधरो हारकेयूरभूषितः ॥१०११॥धारयन्सुप्रदीप्ते च सूर्यमण्डलसन्निभे ।स्फुरन्मयूखसंघाते कुण्डले रश्मिसंकुले ॥१०१२॥धारयन्मकुटं मूर्ध्नि दिव्यरत्नविचित्रितं ।देदीप्यमानमत्युग्रं कैलासशिखरोपमं ॥१०१३॥प्रलम्बोऽस्य महाहारः प्रभवद्रश्मिसंकुलः ।गाङ्गो हिमवतः शृङ्गात्पतितो निर्झरो यथा ॥१०१४॥त्रिंशत्कोटिसहस्रैस्तु त्रिंशत्कोटिशतैस्तथा ।शूलिभिर्जटिभिस्त्र्यक्षैर्दिव्याभरणभूषितैः ॥१०१५॥नानारूपधरैर्रुद्रैर्वृतो भूतगणैस्तथा ।दिव्याभिर्मानसीभिश्च नारीभिः परिवारितः ॥१०१६॥विमानशतकोटीभिरावृतः सर्व एव तु ।मातरः सप्त रूपिण्यो नानालंकारभूषिताः ॥१०१७॥परिवार्य महात्मानं समन्तात्पर्यवस्थिताः ।ब्राह्मी कमलपत्राभा दिव्याभरणभूषिता ॥१०१८॥आग्नेय्यां दिशि देवेशि स्थिता वै श्रीरिवापरा ।शङ्खगोक्षीरसंकाशा त्वैशान्यां तु वरानने ॥१०१९॥माहेश्वरी महातेजास्तिष्ठते सुरपूजिता ।क्ॐआरी पद्मगर्भाभा हारकेयूरभूषिता ॥१०२०॥दिश्युत्तरस्यां देवेशि कामिनीपर्युपासिता ।स्निग्धनीलोत्पलनिभा हारकुण्डलमण्डैता ॥१०२१॥दक्षिणस्यां दिशि तु सा उपास्ते परमेश्वरं ।वैष्णवीति च विख्याता शिवेन परमात्मना ॥१०२२॥नीलजीमूतसंकाशा सर्वाभरणभूषिता ।वारुण्यां दिशि देवेशि वाराही पर्युपस्थिता ॥१०२३॥शङ्खकुन्देन्दुधवला हारकुण्डलमण्डिता ।ऐन्द्र्यां दिशि च सा देवी इन्द्राणी पर्युपस्थिता ॥१०२४॥करालवदना दीप्ता सर्वाभरणभूषिता ।नैरृत्यां दिशि चामुण्डा उपास्ते परमेश्वरं ॥१०२५॥न त्यजन्ति हि ता देवं सर्वभावसमन्वितं ।अंशेन मानुषं लोकं ब्रह्मणा चावतारिताः ॥१०२६॥असुराणां वधार्थाय मनुष्याणां हिताय च ।तपस्तप्त्वा महाघोरं ब्रह्मणा लोकधारिणा ॥१०२७॥रुरोश्चैव वधार्थाय मयापि त्ववतारिताः ।स्वच्छन्दास्तु पराश्चान्याः परव्योम्नि व्यवस्थिताः ॥१०२८॥स्वच्छन्दं पर्युपासीनाः परापरविभागतः ।उमैव सप्तधा भूत्वा नामरूपविपर्ययैः ॥१०२९॥एवं स भगवान्देवो मातृभिः परिवारितः ।आस्ते परमया लक्ष्म्या तत्रस्थो द्योतयञ्जगथ् ॥१०३०॥अस्योपरि तथा चाष्टौ मूर्तयस्तस्य धीमतः ।शर्वो भवश्च भगवान्रुद्रः पशुपतिस्तथा ॥१०३१॥ईशानश्चैव भीमश्च महादेवोग्र एव च ।एताभिः कुरुते शर्वो मूर्तिभिः सृष्टिमुत्तमां ॥१०३२॥भूमिरापोऽनलो वायुराकाशं सूर्य एव च ।सोमश्च यजमानश्चेत्यष्टौ सृष्टिरियं स्मृता ॥१०३३॥सर्वात्मना तु ते तस्मिन्नन्यत्रैकांशतः स्थिताः ।एवमस्मिन्स्थितो देवो ब्रह्मलोकोर्ध्वतस्तथा ॥१०३४॥मेरोश्च मूर्धनीशानो योगाष्टकमथेष्यते ।श्रीकण्ठ इति नाम्ना च कैलासनिलयस्तथा ॥१०३५॥शर्वाद्याभिश्च तनुभिरष्टाभिर्व्याप्य तिष्ठति ।ये तु माहेश्वरं योगं सगुणं पर्युपासते ॥१०३६॥भक्त्या च ब्रह्मचर्येण सत्येन च दमेन च ।दृष्ट्वा देहस्थमात्मानं तेऽत्र यान्ति मनीषिणः ॥१०३७॥दृष्ट्वा च मण्डलं तस्य भक्त्या च परया भृशं ।मुक्तद्वैता यतात्मानस्तत्र यान्ति मनीषिणः ॥१०३८॥तेषां चैवोपरिष्टात्तु सुशिवा द्वादश स्थिताः ।वामो भीमस्तथेशश्च शिवः शर्वस्तथैव च ॥१०३९॥विद्यानामधिपश्चैव एकवीरः प्रचण्डधृथ् ।ईशानश्चाप्युमाभर्ता अजेशोऽनन्त एव च ॥१०४०॥तथा एकशिवश्चापि सुशिवा द्वादश स्मृताः ।सर्वे कुङ्कुमसंकाशाः सूर्यकोटिसमप्रभाः ॥१०४१॥भुवनेषु विचित्रेषु शङ्खाकारेषु संस्थिताः ।अत ऊर्ध्वं वीरभद्रो मण्डलाधिपतिः प्रभुः ॥१०४२॥तत्सायुज्यमनुप्राप्य तेनैव सह मोदते ।अत ऊर्ध्वं महादेवि महादेवाष्टकं विदुः ॥१०४३॥महादेवो महातेजा वामदेवभवोद्भवौ ।एकपिङ्गेक्षणेशानौ भुवनेशपुरःसराः ॥१०४४॥अङ्गुष्ठमात्रसहिता महादेवाष्टके शिवाः ।मायाञ्जनविनिर्मुक्ताः परमेशानसंमताः ॥१०४५॥बुद्धितत्त्वे समासने भुवनेशा मयोदिताः ।अथोर्ध्वं गुणतत्त्वं तु तस्मिंश्चैव व्यवस्थितं ॥१०४६॥गुरुपङ्क्तित्रयं दिव्यं गुणैरन्तरितं स्थितं ।प्रथमा तमसः पङ्क्तिरुपरिष्टाद्व्यवस्थिता ॥१०४७॥तेषां नामानि कथ्यन्ते यथावदनुपूर्वशः ।शिवः प्रभुर्वामदेवश्चण्डश्चैव प्रतापवान् ॥१०४८॥प्रह्लादश्चोत्तमो भीमः करालः पिङ्गलस्तथा ।महेन्द्रो दिनकृच्चैव प्रतोदो दक्ष एव च ॥१०४९॥कलेवरश्च विख्यातस्तथा चैव कटङ्कटः ।अम्बुहर्ता च नारीशः श्वेत ऋग्वेद एव च ॥१०५०॥यजुर्वेदः सामवेदस्त्वथर्वा सुशिवस्तथा ।विरूपाक्षस्तथा ज्येष्ठो विप्रो नारायणस्तथा ॥१०५१॥गण्डो नरो यमो माली गहनेशश्च पीडनः ।प्रथमा पङ्क्तिरुद्दिष्टा रुद्रैर्द्वात्रिंशता स्मृता ॥१०५२॥रजसश्चोपरिष्टात्तु द्वितीया पङ्क्तिरुच्यते ।शुक्लो दासः सुदासश्च लोकाक्षः सूर्य एव च ॥१०५३॥सुहोत्र एकपादश्च गृहश्चैव शिवेश्वरः ।गौतमश्चैव योगीशो दधिबाहुस्तथापरः ॥१०५४॥ऋषभश्चैव गोकर्णो देवश्चैव महेश्वरः ।गुह्येशानः शिखण्डी च जटी माली तथोग्रकः ॥१०५५॥भृगुः शिखि तथा शूली सुगतिश्च सुपालनः ।अट्टहासो दारुकश्च लाङ्गलिश्चातिदण्डकः ॥१०५६॥भवनश्च तथा भव्यो लकुलेशस्तथैव च ।त्रिंशद्रुद्राः समाख्याता द्वितीया पङ्क्तिरुत्तमा ॥१०५७॥सत्त्वस्य चोपरिष्टात्तु तृतीया पङ्क्तिरुच्यते ।देवोऽरुणो दीर्घबाहुरतिभूतिश्च स्थाणुकः ॥१०५८॥सद्योजातस्तथा झिण्ठि षण्मुखश्चतुराननः ।चक्रपाणिश्च कूर्माख्यस्त्वर्धनारीश्वरस्तथा ॥१०५९॥कपाली भूर्भुवश्चैव वषट्कारस्तथैव च ।वौषट्कारस्तथा स्वाहा स्वधा च परिकीर्तितः ॥१०६०॥संवर्तकश्च भस्मेशः कामनाशन एव च ।एकविंशतिरुद्रास्तु पङ्क्तिरेषा तृतीयका ॥१०६१॥ज्ञानयोगबलोपेताः क्रीडन्ते दैशिकोत्तमाः ।संसारपाशनिर्मुक्ताः महामोहविवर्जिताः ॥१०६२॥त्रिनेत्रा गुरवः सर्वे शुद्धस्फटिकनिर्मलाः ।सर्वज्ञाः सर्वगाश्चैव लोकानुग्रहकारकाः ॥१०६३॥गजाकाराणि दिव्यानि सर्वेषां भुवनानि तु ।बुद्धेः प्रकृतिपर्यन्ते ये रुद्रास्तान्निबोध मे ॥१०६४॥शतद्वयं सप्तकं च भुवनानां वरानने ।अन्तर्भूताः स्थिताश्चान्ये ये ते नोक्ता वरानने ॥१०६५॥गुणानामुपरिष्टात्तु प्रधानं परिकीर्तितं ।तत्र ये संस्थिता रुद्राः कथयामि समासतः ॥१०६६॥क्रोधेश्वरश्च संवर्तो ज्योतिः पिङ्गलक्रूरदृक् ।पञ्चान्तकैकवीरौ च शिखेदसहितेश्वराः ॥१०६७॥तत्त्वे तु प्राकृते रुद्र महावीर्याः प्रकीर्तिताः ।गुणानां या पराकाष्ठा तत्प्रधानमिहोच्यते ॥१०६८॥अतः पुरुषतत्त्वे तु भुवनानि निबोध मे ।अम्बा च सलिला ओघा वृष्टिः सार्धं च तारया ॥१०६९॥सुतारा च सुनेत्रा च कुमारी च ततः परं ।उत्तमाम्भसिका चैव तुष्टयो नव कीर्तिताः ॥१०७०॥तारा चैव सुतारा च तारयन्ती प्रमोदिका ।प्रमोदिता मोदमाना रम्यका च ततः परं ॥१०७१॥सदाप्रमुदिका चैव सिद्ध्यष्टकमुदाहृतं ।अणिमा लघिमा चैव महिमा प्राप्तिरेव च ॥१०७२॥प्राकाम्यं च तथेशित्वं वशित्वं यदुदाहृतं ।यत्रकामावसायित्वं अणिमाद्यष्टकं स्मृतं ॥१०७३॥अथोर्ध्वं गुरुशिष्याणां पङ्क्तित्रयमतः शृणु ।मस्करी पूरणः कृत्स्नः कपिलः काश एवच ॥१०७४॥सनत्कुमारगौतमवसिष्ठाद्यांशकास्तथा ।कश्यपो नासिकेतुश्च गालवो भौतिकस्तथा ॥१०७५॥शाकल्यश्च समाख्यातो दुर्वासाः परमस्त्वृषिः ।वाल्मीकिश्च गुरुश्रेष्ठः सपराशरगालवः ॥१०७६॥पिप्पलादाश्च स्ॐइत्रिर्वायुपुत्रो भदन्तकः ।मस्कर्यादिभदन्तान्ता दृष्टादृष्टस्य वादिनः ॥१०७७॥द्वाविंशतिर्गुरुवराः प्रथमा पङ्क्तिरिष्यते ।जह्नुश्च तृणबिन्दुश्च मुनिस्तार्क्ष्यस्तथैव च ॥१०७८॥ध्यानाश्रयोऽथ दीर्घश्च होता जागर एव च ।अगस्त्यो वसुभ्ॐअश्च उपाध्यायश्च कीर्तितः ॥१०७९॥शुक्रो भृग्वगिरा रामो जमदग्निसुतोऽध्वगः ।स्थूलशिरा बालखिल्यो मनुश्चेति प्रकीर्तितः ॥१०८०॥वज्रात्रेयो विशुद्धश्च शिवश्चारुरथानुगः ।जह्न्वादिचारुपर्यन्ता द्वितीया पङ्क्तिरिष्यते ॥१०८१॥हरो झिण्ठी प्रतोदश्च अमरेशश्चतुर्थकः ।कृष्णपिङ्गेशरुद्रश्च इन्द्रजिद्वृषकः शिवः ॥१०८२॥यमः क्रूरश्च विख्यातो गङ्गाधर उमापतिः ।भूतेश्वरः कपालीशः शङ्करश्च तथैव च ॥१०८३॥अर्धनारीश्वरश्चैव पिङ्गलश्च तथापरः ।महाकालश्च संवर्तो मण्डली त्वेकवीरकः ॥१०८४॥तथा चान्यश्च विख्यातो भारभूतेश्वरो ध्रुवः ।जह्न्वादिचारुपर्यन्ता ऋषयः पञ्चविंशतिः ॥१०८५॥हरादयो ध्रुवान्ताश्च गुरवो विंशतिः स्मृताः ।पङ्क्तित्रयं समाख्यातं ऋषीणां गुरुशिष्ययोः ॥१०८६॥नाडीविद्याष्टकं देवि कथयामि त्वतः परं ।इडा च चन्द्रिणी गौरी शान्तिः शान्तिकरी तथा ॥१०८७॥माला च मालिनी चैव स्वाहा चैव स्वधा तथा ।अथोपरिष्टाद्देवेशि विग्रहाष्टकमुच्यते ॥१०८८॥कार्यं च करणं चैव सुखदुःखकरं तथा ।ज्ञानं साध्यं च विख्यातं साधनं कारणं तथा ॥१०८९॥देहपाशानतो वक्ष्ये धर्मं च दशधोदितं ।अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता ॥१०९०॥अक्रोधो गुरुशुश्रूषा शौचं सन्तोष आर्जवं ।एवं दशविधो धर्मो येनोक्तो धर्मकृन्नरः ॥१०९१॥विकारान्षोडशाख्यास्ये परभावेन संस्थितान् ।रसो गन्धश्च रूपं च स्पर्शः शब्दस्तथैवच ॥१०९२॥तन्मात्रपञ्चकं ख्यातं इन्द्रियाणि निबोध मे ।वाक्पाणिपादं पायुश्च उपस्थः कर्मसंज्ञकं ॥१०९३॥श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका पञ्चमी स्मृता ।बुद्धीन्द्रियाणि देवेशि मनः षोडशकं स्मृतं ॥१०९४॥देहपाशाः समाख्याताः अतोबुद्धिगुणान्विदुः ।धर्मोज्ञानं च वैराग्यं ऐश्वर्यं च ततः परं ॥१०९५॥अधर्मश्च तथाज्ञानं अवैराग्यमनीशिता ।अहंकारं च त्रिविधं प्रवक्ष्याम्यनुपूर्वशः ॥१०९६॥वैकारिकं तैजसं च भूतादिं च यथाक्रमं ।दीक्षाकाले यथा शुद्धिस्तथा चैषां निबोध मे ॥१०९७॥तमो रजस्तथा सत्त्वं शोधयेदनुपूर्वशः ।शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः ॥१०९८॥विषयाश्च समाख्याताः शोधनीयाः प्रयत्नतः ।कामः क्रोधश्च लोभश्च मोहः पैशुन्यमेव च ॥१०९९॥जन्ममृत्युजराव्याधिक्- षुत्तृट्तृष्णास्तथैव च ।विषादश्च भयं चैव मदो हर्षणमेव च ॥११००॥ N/A References : N/A Last Updated : June 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP