संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|स्वच्छन्दभैरवतन्त्र| द्वादशः पटलः स्वच्छन्दभैरवतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः १ दशमः पटलः २ दशमः पटलः ३ दशमः पटलः ४ दशमः पटलः ५ दशमः पटलः ६ दशमः पटलः ७ दशमः पटलः ८ दशमः पटलः ९ दशमः पटलः १० दशमः पटलः ११ दशमः पटलः १२ दशमः पटलः १३ एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः स्वच्छन्दभैरवतन्त्र - द्वादशः पटलः स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात. Tags : shastratantraतंत्रशास्त्रस्वच्छन्दभैरवतन्त्र द्वादशः पटलः Translation - भाषांतर सृष्टिः स्थितिश्च संहारस्तत्त्वानां कथितस्त्वया ।जगत्संभवहेतुश्च त्वत्प्रसादाच्छ्रुतं मया ॥१॥तत्त्वविज्ञानमाख्याहि सिद्धिस्तेषु यथा भवेथ् ।पृथिव्यादि शिवान्तं च कथयामि समासतः ॥२॥पृथ्वी कठिनरूपेण शृणु देहे यथा स्थिता ।मांसेऽस्थिषु तथा चैव स्नायुलोमनखेषु च ॥३॥मज्जान्त्रेषु च विज्ञेया पृथ्वी पञ्चगुणोत्कटा ।कफासृगाममूत्रेषु रसस्वेदवसासु च ॥४॥शुक्रे च संग्रहे चैव स्थिता आपश्चतुर्गुणाः ।पचने दहने चैव तेजस्यूष्मणि संस्थितं ॥५॥तेजस्त्वेवं स्थितं देवि प्रकाशे च त्रिलक्षणं ।वायुरुच्छ्वासनिःश्वास- स्पर्शनव्यूहलक्षणः ॥६॥मूत्रोच्चारविसर्गेषु अन्नपानप्रवेशने ।वायुरेभिः स्थितो देहे विज्ञेयस्तु द्विलक्षणः ॥७॥एकलक्षणमाकाशं कथयामि यथा स्थितं ।सुषिरात्मकं तु विज्ञेयं नवधा च्छिद्रलक्षणं ॥८॥शब्दात्मकं गुणं ह्येतत्कथितं तव सुव्रते ।वागिन्द्रियं वदेद्वाणीं सा च वाणी चतुर्विधा ॥९॥संस्कृता प्राकृती चैव अपभ्रष्टानुनासिका ।छेदनं भेदनं दानं व्यधनं शिल्पयोजनं ॥१०॥ग्रहणं विजयश्चैव सर्वं हस्तेन्द्रिये स्थितं ।समनिम्नोन्नताश्चैव लोष्टकण्टकवालुकाः ॥११॥कर्दमो जलदुर्गाणि रथ्याट्टालकपर्वताः ।पादेन्द्रियेण गम्यन्ते देशान्तरगमागमे ॥१२॥उत्सर्गे पर्दिते चैव पायुर्वै चेष्टते सदा ।आनन्दकृदुपस्थश्च गम्यागम्यप्रवर्तकः ॥१३॥कर्मस्वेतानि वर्तन्ते तेन कर्मेन्द्रियाणि तु ।बुद्धीन्द्रियाणि देवेशि वर्तन्ते बुद्धियोगतः ॥१४॥षड्जाख्यर्षभगान्धार- मध्यमाः पञ्चमः प्रिये ।धैवतो निषधश्चैव स्वराः सप्त प्रकीर्तिताः ॥१५॥गान्धारो मध्यमः षड्जस्त्रयो ग्रामाश्च पार्वति ।सप्तस्वरास्त्रयो ग्रामा मूर्छनाश्चैकविंशतिः ॥१६॥तान एकोनपञ्चाशदित्येतत्सुरमण्डलं ।सूक्ष्मशब्दाः स्मृता ह्येते चराचररवस्थिताः ॥१७॥स्थूलांश्चैव प्रवक्ष्यामि यथावत्तान्निबोध मे ।भेरीपटहशङ्खोत्थो मृदङ्गपणवोत्थितः ॥१८॥वेणुगोमुखशब्दश्च मन्दलो दर्दुरो ध्वनिः ।तन्त्रीवाद्यानि चित्राणि करवाद्यानि यानि च ॥१९॥संयोगजवियोगोत्थाः काष्ठपाषाणवारिजाः ।अपभ्रंशोऽनुनासिक्यः संस्कृतः प्राकृतो रवः ॥२०॥सप्तस्वरप्रतिष्ठानि व्यक्ताव्यक्तानि चैव हि ।उक्तानुक्तानि गृह्णाति श्रवणेन्द्रिययोगतः ॥२१॥शब्दोऽस्य विषयो ह्येष येन बुध्येत पुद्गलः ।मृदुं च कठिनं चैव कर्कशं शीतलं तथा ॥२२॥उष्णं च पिच्छिलं लोष्टं कर्दमं वालुकास्तथा ।शरकुन्तासिघातादि ताडनं छेदनं तथा ॥२३॥एतानि वै विजानाति स्पर्शनं च त्वगिन्द्रियं ।स्पर्शोऽस्य विषयो ह्येष येन बुध्येत पुद्गलः ॥२४॥चक्षुरिन्द्रियकर्माणि कथ्यमानानि मे शृणु ।सितं रक्तं च पीतं च कृष्णं हरितधूम्रकं ॥२५॥कपिलं पिङ्गलं बभ्रु अन्यान्यपि विशेषतः ।नरनारीपशुमृगाञ्ज्योतिः स्थावरजङ्गमं ॥२६॥रूपाकृतिविविक्तानि चक्षुः पश्यति सर्वदा ।रूपाख्यो विषयो ह्यस्य येनात्मा प्रतिबुद्ध्यते ॥२७॥मधुराम्लरसं चैव लवणं कटु तिक्तकं ।कषायमिश्रं स्वादुं च जिह्वा वेदयते रसं ॥२८॥रसोऽस्य विषयो ह्येष येन बुद्ध्येत पुद्गलः ।सुरभिर्दिव्यगन्धश्च दुर्गन्धश्चाप्यनेकधा ॥२९॥उभौ जिघ्रति नासाग्रे विषयो गन्धसंज्ञितः ।येनासौ बुध्यते क्षेत्री अहङ्कारेण मोहितः ॥३०॥संकल्पे च विकल्पे च दशधाक्षेषु धावति ।अनिवारितसन्देहं अजय्यं सर्वदेहिनां ॥३१॥मनश्च कथितं ह्येतद्धर्माधर्मनिबन्धकं ।स्वरूपधर्मं वक्ष्यामि तन्मात्राणां यथार्थतः ॥३२॥गन्धं तु गन्धतन्मात्रं नासिकाग्रेण जिघ्रति ।जिह्वया रसतन्मात्रं रसं गृह्णाति संस्थितं ॥३३॥चक्षुषा रूपतन्मात्रं रूपं गृह्णात्युपागतं ।गृह्णाति स्पर्शतन्मात्रं त्वचा स्पर्शमुपागतं ॥३४॥शब्दं च शब्दतन्मात्रं गृह्णाति श्रवणेन तु ।सूक्ष्मस्तन्मात्रधर्मोऽयं भूतानां प्रकृतिक्रमाथ् ॥३५॥वैकारिकस्ततश्चोर्ध्वं बुध्यते येन पुद्गलः ।अहं विद्वानहं भोगी त्वहं जातो महाकुले ॥३६॥अहं दाता च भोक्ता च तेजस्वी बलवानहं ।अहं योद्धा च संग्रामे शत्रवश्च मया जिताः ॥३७॥धर्मशीलश्च गुणवान्श्रेयस्कर्ता ह्यहं परं ।अहं पापी दुराचारो मूर्खश्चाहं दुराकृतिः ॥३८॥न दत्तं न मया भुक्तं मत्समो नास्ति दुःखितः ।इत्यहङ्कारचित्तानां ममत्ववशवर्तिनां ॥३९॥अहङ्कारो निबध्नाति संसारे दृढबन्धनैः ।त्रिविधस्याप्ययं धर्मोऽहङ्कारस्य प्रकीर्तितः ॥४०॥बुद्धिधर्मांस्ततो वक्ष्ये धर्मादींस्तव सुव्रते ।धर्मो ज्ञानं च वैराग्यं ऐश्वर्यं च चतुष्टयं॥ ४१॥अधर्मश्च तथाज्ञानं अवैराग्यमनैश्वरं ।बध्नाति सप्तधा सा तु ज्ञानभावेन मोहयेथ् ॥४२॥बुद्धिश्चाध्यवसायं च करोति विविधेष्वपि ।धर्मादीनामथाष्टानां लक्षणानि शृणु प्रिये ॥४३॥उपवासो जपो मौनं अक्रोधोऽस्तेयमार्जवं ।सत्यं शौचं च दानं च दया क्षान्तिश्च सर्वदा ॥४४॥विद्याभ्यासश्च लज्ज च इन्द्रियाणां च निग्रहः ।इष्टापूर्तं तीर्थसेवा पितृणां चैव तर्पणं॥ ४५॥अभयं सर्वसत्त्वेभ्यो जीवितस्य च रक्षणं ।धीगुणः प्रथमो ह्येष धर्म इत्यभिधीयते ॥४६॥धर्मकर्मनिबद्धानां संसारमनुवर्तिनां ।पुनर्मार्त्यं पुनः स्वर्ग्यं तीर्यक्त्वं च पुनः पुनः ॥४७॥धर्मभावः समाख्यातः ज्ञानभावं च मे शृणु ।चतुर्विंशतिकः पिण्डः करणेन्द्रियसंयुतः ॥४८॥प्राकृतः स तु विज्ञेयो धर्माधर्मप्रवर्तकः ।अकर्ता निर्गुणश्चाहं न मे बन्धोऽस्ति प्राकृतः ॥४९॥प्रकृत्या कारितं मन्ये वासनादेव मुच्यते ।साङ्ख्यज्ञानं मया प्रोक्तं प्रकृतेर्येन मुच्यते ॥५०॥मुक्तं प्रकृतिबन्धात्तं पुनर्बध्नाति चेश्वरः ।बद्धः संसरते भूयो यावद्देवं न विन्दति ॥५१॥ईश्वरं सृष्टिकर्तारं सर्वजन्तुनिबन्धकं ।वैराग्यात्सन्त्यजेत्पुत्रान्दारानिष्टान्सुसंमतान् ॥५२॥हस्त्यश्वरथयानानि सुहृद्भोगधनानि च ।उपवासं जपं तीर्थं पञ्चाग्निं जलशायितां ॥५३॥उपास्यैतानि घोराणि देहं सन्त्यजति क्षणाथ् ।गिरिवृक्षजलाग्निभ्यः प्रहारोद्बन्धनाशनैः ॥५४॥वैराग्यं तु समाश्रित्य कुरुते साहसान्यपि ।ऐश्वर्यभावमापन्नो द्रव्यैस्तृप्तिं न गच्छति ॥५५॥न दारैर्न धनैर्भागैः परिवारैर्न वाहनैः ।तपो व्रतानि मन्त्रांश्च ऐश्वर्यार्थे तु साधयेथ् ॥५६॥युद्धं द्युतं तथा मायां चौर्यं चानृतहिंसनं ।अन्यान्यपि त्वयुक्तानि विस्रम्भच्छलघातितां ॥५७॥ऐश्वर्यभावमापन्नः करोति च बहून्यपि ।प्राणिहिंसारतो नित्यं चौरिकानृतदम्भवान् ॥५८॥याचको दुःखदाता च भवेच्चाधर्मचेष्टितं ।नास्तिधर्मो न चाधर्मः स्वर्गं मोक्षं च को गतः ॥५९॥अज्ञानभावमापन्नः सर्वं मिथ्येति भाषते ।नित्यं दुःखी परप्रेष्यो भारं यानं वहन्नपि ॥६०॥कृच्छ्रजीवी च सततं अवैराग्ये न खिद्यते ।राज्यं कृत्वा तु सामन्तः सामन्त्याद्ग्रामभुग्भवेथ् ॥६१॥ग्रामाद्भ्रष्टस्तदर्धेन वर्ततेऽसावनीश्वरः ।न शोचति न चोद्विग्नः क्रीडते पूर्वराज्यवथ् ॥६२॥अनैश्वर्यस्य भावोऽयं एवं ते समुदाहृतः ।अव्यक्तं त्रिगुणं वक्ष्ये संसारस्य प्रवर्तकं ॥३॥यस्माच्च जगदुत्पत्तिः प्रकृतिस्तेन चोच्यते ।अस्य धर्मं प्रवक्ष्यामि रजः सत्त्वतमोऽभिधं ॥४॥प्रकाशभावः सत्त्वं च धर्मः सत्त्वसमाश्रितः ।संविभागी च सततं नित्यं सत्त्वोपकारकः ॥६५॥क्षमादयासमायुक्तो ज्ञानविज्ञानपारगः ।प्रीतिर्दानं धृतिर्मेधा तपः शौचं दमस्तथा ॥६६॥ऋतवाक्समदृष्टिश्च दिव्यबुद्धिप्रबोधनं ।यस्मिन्नेते सदा धर्मा भवन्ति पुरुषोत्तमे ॥६७॥स सात्त्विकस्तु विज्ञेयः रजोधर्मांश्च मे शृणु ।निस्त्रिंशश्चातिलोभी च विद्वेषी क्रोधनस्तथा ॥६८॥कामी हर्षसमाविष्टो दुःखार्तः पर्यटेत्सदा ।मानी दम्भसमायुक्तोऽप्यहङ्कारे व्यवस्थितः ॥६९॥नित्यं युद्धरतः शूरः राजसं गुणलक्षणं ।कामक्रोधाभिभूतत्वं लोभेन च समन्वयः ॥७०॥ईर्श्या दम्भो विषादश्च मद उन्माद एव च ।निद्रालस्य मकर्मित्वं दौर्मेध्याज्ञानिते तथा ॥७१॥अधर्मताबुद्धिमत्त्वं नास्तिक्यं छलचित्तता ।तमः चिह्नानि चैतानि दृश्यन्ते यत्र मानवे ॥७२॥तामसः स तु विज्ञेयः पुरुषः कलुषाशयः ।एतत्रिगुणमव्यक्तं त्रिगुणं सामुदाहृतं ॥७३॥एतत्सम्यग्विदित्वा तु मुच्यते प्राकृतैर्गुणैः ।गुणधर्मा न चैवाहं बुद्ध्यहांकृद्गुणो नहि ॥७४॥करणेन्द्रियहीनश्च भूततन्मात्रवर्जितः ।अकर्ता निर्गुणश्चाहं चिन्मात्रः पुरुषः स्मृतः ॥७५॥मानसं वाचिकं चैव शारीरं कर्म यत्कृतं ।प्रकृत्या कारितां मन्ये अकर्ता पुरुषः स्मृतः ॥७६॥एवं संन्यस्य कर्माणि वर्तते नच नित्यशः ।नाहं कर्ता न मे बन्ध एवं बुध्येत यो नरः ॥७७॥प्रकृतेः स विमुच्येत यावन्न सृजतीश्वरः ।साङ्ख्यज्ञानेन संमूधो मुक्तिरित्यभिमन्यते ॥७८॥न हि मुक्तिर्भवेत्तस्य कंचित्कालं विदेहता ।तिष्ठेत्प्रकृतिनिर्मुक्तः सृष्टिसंहारवर्जितः ॥७९॥यावत्करोत्यसौ सृष्टिं ईश्वरः परमेश्वरः ।तावत्प्रकृतिबन्धेन संसारे क्षिप्यते पुनाः ॥८०॥क्षिप्तः संसरते भूयः संसारे घोरसागरे ।धर्माधार्मनिबद्धस्तु साङ्ख्यज्ञानेन मोहितः ॥८१॥अहं कर्ता च भोक्ता च ईश्वरोबलवानहं ।ममत्वेनैव संमूढो भ्राम्यते घटयन्त्रवथ् ॥८२॥साङ्ख्यज्ञानं मया प्रोक्तं शृणु ध्यानाधिदैवतं ।पृथ्वीं कठिनरूपेण चतुः सागरमेखलां ॥८३॥सपर्वतवनाकीर्णां मृगपक्षिसमाकुलां ।सुस्थितां पीतवर्णाभां ऊबीजेन समन्वितां ॥८४॥ध्यात्वा तत्सिद्धिमभ्येति विषसत्त्वान्निवारयेथ् ।अचाल्यः सर्वभूतानां यथैव वसुधा भवेथ् ॥८५॥जलापूरितसर्वाङ्गो जलध्यानेन पूरयेथ् ।एवमभ्यस्यमानस्तु विषसत्त्वान्विनाशयेथ् ॥८६॥तृष्णादाहविनिर्मुक्त ईतिभिश्च विवर्जितः ।जगदापूरयेत्सिद्धः पूर्वबीजसमन्वितः ॥८७॥कुर्यात्कर्मसहस्राणि स्वबीजेन तु बीजितः ।कृष्णरेण्वात्मको वायुर्ध्येयो बीजेन संयुतः ॥८८॥पूरयेद्वै जगद्देहान्सिद्धश्चाश्चर्यकारकः ।सुषिरात्मकं स्वदेहं तु जगच्च सुषिरात्मकं ॥८९॥ध्यायेत्प्रकृतिबीजेन चित्रकर्माणि कारयेथ् ।वागिन्द्रिये तथा वह्निर्ध्यातो वाक्सिद्धिदायकः ॥९०॥इन्द्रः पाणावभिध्यातः बाहुशाली त्वजेयकः ।पादयोर्दूरसंचारं ध्यातो विष्णुः प्रयच्छति ॥९१॥पायौ मित्रः सितो ध्यातः पायुव्याधिविनाशकः ।शिश्ने प्रजापतिं श्यामं ध्यायेद्युक्तेन चेतसा ॥९२॥जितेन्द्रियश्च भवति त्विच्छया रमते शतं ।श्रोत्रेन्द्रिये दिशश्चित्रा ध्यायेद्वीजेन संयुताः ॥९३॥सकृदुक्तं च गृह्णाति दिग्यात्रा चैव सिद्ध्यति ।मारुतं कृष्णरूपेण ध्यायेत्तु त्वचि संस्थितं ॥९४॥यः स दंष्ट्राद्यभेद्यः स्यात्न क्वचिञ्जायते व्यथा ।आदित्यं चक्षुषि ध्यायेज्जिह्वायां वरुणं तथा ॥९५॥नासायां पृथिवीं पीतां मनसीन्दुं तथैव च ।पीतकं गन्धतन्मात्रं रसतन्मात्रकं सितं ॥९६॥रक्तं तु रूपतन्मात्रं कृष्णं तु स्पर्शसंज्ञितं ।अरूपं शब्दतन्मात्रं ध्यातव्यं बिन्दुरूपि च ॥९७॥विषयेष्वीप्सितां सिद्धिं जानाति च विचिन्तितं ।वैकारिके तथा रुद्रो ध्यातव्यः सिद्धिमिच्छता ॥९८॥ध्यानात्सिद्धिमवाप्नोति मुक्ताहङ्कारबन्धनां ।ब्रह्माणं बुद्धिसंस्थं तु ध्यायेद्युक्तेन चेतसा ॥९९॥स्मरन्वै पूर्वबीजेन ज्ञानौघः संप्रवर्तते ।दिव्या च जायते बुद्धिः संशयोच्छित्तिकारिका ॥१००॥भूतं भव्यं भविष्यच्च प्रत्यक्षं संप्रजायते ।प्रकृतिः कृष्णवर्णा तु रक्तशुक्ला विराजते ॥१०१॥रक्तं च हृदयं तस्याः बहुपादभुजानना ।ध्यातव्या तत्त्वबीजेन यदीच्छेत्सिद्धिमात्मनः ॥१०२॥सिद्धश्चैव स्वतन्त्रश्च दिव्यदृष्टिश्च जायेते ।षण्मासाभ्यासयोगेन दिव्या दृष्टिः प्रवर्तते ॥१०३॥त्रैलोक्ये यत्प्रवर्तेत प्रत्यक्षं तस्य जायते ।एष ते प्राकृतो योग उक्तः मोक्षकरः परः ॥१०४॥अतः परं तु पुरुषः पद्ममध्ये व्यवस्थितः ।चित्स्वरूपश्च सर्वेषु देहमापूर्य संस्थितः ॥१०५॥स जीव इति विख्यातो येन जीवति तत्पुरं ।निर्गतेन मृता येन अचेताः शीर्यते तनुः ॥१०६॥बध्यते मुच्यतेऽसौ वै सुखदुःखानि वेत्ति च ।न तस्य रूपं वर्णो वा प्रमाणं दृश्यते क्वचिथ् ॥१०७॥न शक्यः कथितुं वापि सूक्ष्मश्चानन्तविग्रहः ।वालाग्रशतभागस्य शतधा कल्पितस्य तु ॥१०८॥तस्य सूक्ष्मतरो जीवः स चानन्त्याय कल्पते ।आदित्यवर्णं रुक्माभं अब्बिन्दुमिव पुष्करे ॥१०९॥पश्यन्ति तारकमिव योगिनो दिव्यचक्षुषा ।रागविद्याकलोपेतः कालबद्धो हि रूपवान् ॥११०॥श्यामवर्णेन विज्ञेया स्थिता जीवस्य देवता ।दक्षिणेन सिताङ्गी तु वामेनासितरूपिणी ॥१११॥तद्वर्णानि च वक्त्राणि मण्डलानि विशेषतः ।कर्मबन्धेन बध्नाति सुखदुःखं प्रयच्छति ॥११२॥नियतिं च विजानीयादनिवार्यां सुरासुरैः ।पूर्वबीजसहध्याना द्विरूपेण समन्विता ॥११३॥ध्यानात्सिद्धिमवाप्नोति नियतेश्च विमुच्यते ।त्रिनेत्रं च चतुर्वक्त्रं कृष्णवर्णं चतुर्भुजं ॥११४॥संहरन्तं दुराधर्षं अनन्तं कालमीश्वरं ।स्वबीजध्यानरूपज्ञः कालेन नहि कल्यते ॥११५॥चक्रवत्परिवर्तन्ते कालध्यानविवर्जिताः ।एवं कालं सदा ध्यायेत्ध्येयसिद्धिश्च जायते ॥११६॥रागं तु रक्तवर्णं वै विद्यां श्यामां सुलोचनां ।सितवर्णां कलां ध्यायेच्चेतन्योन्मीलिनीं तु तां ॥११७॥कृष्णवर्णा च रक्ताक्षी दीर्घदन्ता सुलोचना ।कचोर्ध्वपिङ्गकेशी च स्थूलकाया महोदरी ॥११८॥या पातयति भूतानि ब्रह्माद्यानि पुनः पुनः ।निर्वैरपरिपन्थित्वान्माया ग्रन्थिर्दुरुत्तरा ॥११९॥साङ्ख्यवेदपुराणज्ञा अन्यशास्त्रविदश्च ये ।न तां लङ्घयितुं शक्ता ये चान्ये मोक्षवादिनः ॥१२०॥क्लिश्यन्ति मायया भ्रान्ता अमोक्षे मोक्षलिप्सया ।स्वबीजध्यानयोगेन पूर्वध्यानस्वरूपतः ॥१२१॥दीक्षासिना च तां छित्त्वा विशन्ति शिवमव्ययं ।चतुर्वर्णा भवेद्विद्या सा वर्णव्यापिनी स्मृता ॥१२२॥सितरक्तपीतकृष्णा ध्यातव्या सुषिरात्मिका ।आकाशवायुमारूढा रूपयौवनशालिनी ॥१२३॥स्वबीजेन तु सा ध्येया तत्सिद्धिश्चैव जायते ।दिव्या सिद्धिरमोघा तु सिद्धविद्यश्च जायते ॥१२४॥वेद लोकांस्ततः सर्वान्कामरूपी स गच्छति ।कुङ्कुमाभं च नारेशं त्रिनेत्रं तु जटाधरं ॥१२५॥पूर्वाननमभिध्यायेत्वायुभक्षस्य यत्फलं ।तत्पुण्यफलमाप्नोति अश्वमेधायुतस्य च ॥१२६॥जगच्च वशमायाति क्रमते सिद्धिमेति च ।षड्भिर्मासैरसन्देहः दक्षिणं च तथैव हि ॥१२७॥नीलाम्बुदप्रतीकाशं पिङ्गभ्रूश्मश्रुलोचनं ।भ्रुकुटीकरालवक्त्रं च कपालाहि विभूषितं ॥१२८॥बहुरूपजटाधारं दक्षिणं तस्य चिन्तयेथ् ।सुखदुःखविनाशाय ईतिज्वरविनाशनं ॥१२९॥विषग्रहादि सर्वं तु ध्यानान्नाशयते क्षणाथ् ।अग्निवज्ज्वलते योगी जरामृत्युविवर्जितः ॥१३०॥क्रमते सर्वलोकान्वै सिद्धश्च समतां व्रजेथ् ।सितं त्रिनयनं देवि साक्षासूत्रकमण्डलु ॥१३१॥पश्चिमं वदनं ध्यायेद्दिव्यसिद्धिप्रदायकं ।हत्वा प्राणिसहस्राणि परदारशतानि च ॥१३२॥अलेपको विशुद्धात्मा सिद्धिं प्राप्य शिवो भवेथ् ।त्रिनेत्रमुत्तरं वक्त्रं रक्तोत्पलसमद्युति ॥१३३॥ध्यानात्तस्य जगत्सर्वं वशमेति न संशयः ।तपते वर्षते चैव सृजते संहरत्यपि ॥१३४॥ईप्सितां लभते सिद्धिं योऽब्दमेकं तु चिन्तयेथ् ।सितमूर्ध्वं सदा ध्यायेच्छूलहस्तं जटाधरं ॥१३५॥व्याघ्रचर्मपारीधानं साक्षासूत्रकमण्डलु ।वीणाडमरुहस्तं च नागयज्ञोपवीतकं ॥१३६॥चन्द्रमूर्धोर्ध्वलिङ्गं च ध्यायेन्नित्यं महेश्वरं ।अनेनैव तु देहेन सर्वज्ञः कामरूपवान् ॥१३७॥घण्टानादस्य वा ध्यानात्सिद्धिः षाण्मासिकी भवेथ् ।ईप्सिता मर्त्यलोके तु सिद्धिस्तस्य प्रजायते ॥१३८॥लिङ्गध्यानं तु यः कुर्यात्पूर्वबीजेन संयुतं ।मासेनैकेन पश्येत्स सूक्ष्मं लिङ्गं तनूपरि ॥१३९॥शुद्धस्फटिकसङ्काशं तद्दृष्ट्वा तु विमुच्यते ।सिद्धिस्तु मानुषे लोके षण्मासेन प्रजायते ॥१४०॥त्रैलोक्यदर्शने बुद्धिः प्रत्यक्षा तस्य जायते ।आक्रामेत्सर्वलोकांश्च ईश्वरेण समो भवेथ् ॥१४१॥सोमार्कौ चक्षुषी स्यातां चक्रे वै धी रथस्य तु ।तन्मात्राणि हयास्तस्य मनः सारथि चोदितः ॥१४२॥अहंकारो भवेद्योद्धा गुणश्चास्य महाधनुः ।इन्द्रियाणि शरास्तस्य मृगो धर्मः प्रकीर्तितः ॥१४३॥एवं स क्रीडते योगी परमात्मनि हृत्स्थिते ।पुण्यपापैर्वर्तमान इच्छया परमेश्वरि ॥१४४॥नाहं कर्ता न मे बन्धः सर्वमीश्वरकारणं ।मत्वा चेश्वरविज्ञानं सर्वकर्मणि सन्त्यजेथ् ॥१४५॥धर्माधर्मस्य कर्तृत्वे प्रेरको हृदि संस्थितः ।तमहं शरणं प्राप्तो न मे बन्धोऽस्ति कऋतृता ॥१४६॥सदाशिवोऽष्टभेदेन पूर्वबीजसमन्वितः ।ध्येयः पूर्वोक्तरूपेण तत्सिद्धिफलमिच्छता ॥१४७॥नादं वै व्यापकं ध्यायेदहोरात्रायनेषु च ।दक्षिणोत्तरसंक्रान्त्या विषुवज्ज्ञस्य मोक्षदः ॥१४८॥वंशध्वनिसमप्रख्यः शान्तनादस्तु स स्मृतः ।सदाशिवः स विज्ञेयः ध्यानात्सिद्धिफलं शृणु ॥१४९॥मासमात्रेण तेजस्वी वागीशस्तु द्वितीयके ।तृतीये पश्यते सिद्धान्दिव्यदृष्टिश्चतुर्थके ॥१५०॥सिद्धिस्तु मानुषे लोके वत्सरार्धे न संशयः ।दिव्यासिद्धिस्तथाब्देन सायुज्यं तु द्वितीयके ॥१५१॥षण्मुखीकरणं कृत्वा ध्यायेद्देवं सदाशिवं ।अङ्गुष्ठाभ्यां श्रुती नेत्रे तर्जनीमध्यमाक्रमाथ् ॥१५२॥शेषाभ्यां वृणुयाद्घ्राणे षण्मुखे किल बद्धधीः ।दशधा वर्णरूपेण दृश्यते च सदाशिवः ॥१५३॥सितं रक्तं च पीतं च कृष्णं हरितपिङ्गलं ।नीलं चित्रकवर्णं तु स्फटिकाभं मनोरमं ॥१५४॥दृष्ट्वा सर्वाणि रूपाणि त्यजेत्तनि विचक्षणः ।एकमेव तु गृह्णीयादन्ये तु गुणरूपकाः ॥१५५॥चन्द्रमण्डलसङ्काशं विद्युत्पुञ्जनिभेक्षणं ।तारकाचलिताकारं बिन्दुमेवं विलक्षयेथ् ॥१५६॥निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।आभिः कलाभिः संयुक्तो ध्यातव्यो बिन्दुरीश्वरः ॥१५७॥बिन्दुध्यानं समाख्यातं शक्तिलक्षं निबोध मे ।खं वीक्ष्य मीलिताक्षो यदुद्यद्भास्करसन्निभं ॥१५८॥ईक्षते च महत्तेजः शक्तिः प्रभ्वीति सा स्मृता ।पीता रक्ता तथा कृष्णा स्फटिकाभा मनोरमा ॥१५९॥द्रष्टव्या पारमा शक्तिः तां दृष्ट्वा शिवतां व्रजेथ् ।व्यापिनीं च ततश्चोर्ध्वे पञ्चरूपां विचिन्तयेथ् ॥१६०॥कारणैः स्वैः समोपेतां ध्यात्वा स्वच्छन्दतां व्रजेथ् ।समनामुन्मनां चोक्तां ध्यायेद्युक्तेन चेतसा ॥१६१॥ध्यानात्सिद्धिमवाप्नोति व्यापकः प्रभुरख्ययः ।ततश्चोर्ध्वे शिवः शान्तः पूर्वं वै कथितो मया ॥१६२॥चक्षुषा यश्च दृश्येत वाचो वा यश्च गोचरः ।मनश्चिन्तयते यानि बुद्धिर्यानि व्यवस्यति ॥१६३॥अहंकृतानि यान्येव यच्च वेद्यतया स्थितं ।यश्च नास्ति स तत्रैव त्वन्वेष्टव्यः प्रयत्नतः ॥१६४॥यत्र तत्र स्थितो देशे यत्र तत्राश्रमे रतः ।सुखासीनः संयतात्मा एकचित्तः समाहितः ॥१६५॥स्वच्छन्दं समनुस्मृत्य अभावं भावयेत्सदा ।भावनात्तस्य तत्त्वस्य तत्समश्चैव जायते ॥१६६॥ये धर्मास्तस्य चाख्याताः पूर्वं ते वरवर्णिनि ।तैस्तु धर्मैः समायुक्ति योगी वै भवति प्रिये ॥१६७॥स्वरूपरूपकध्यानं तत्त्वानां कथितं मया ।एवं ज्ञात्वा च ध्यात्वा च सिद्ध्यते मुच्यतेऽपि च ॥१६८॥इति स्वच्छन्दतन्त्रे द्वादशः पटलः N/A References : N/A Last Updated : June 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP