संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|स्वच्छन्दभैरवतन्त्र| षष्ठः पटलः स्वच्छन्दभैरवतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः १ दशमः पटलः २ दशमः पटलः ३ दशमः पटलः ४ दशमः पटलः ५ दशमः पटलः ६ दशमः पटलः ७ दशमः पटलः ८ दशमः पटलः ९ दशमः पटलः १० दशमः पटलः ११ दशमः पटलः १२ दशमः पटलः १३ एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः स्वच्छन्दभैरवतन्त्र - षष्ठः पटलः स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात. Tags : shastratantraतंत्रशास्त्रस्वच्छन्दभैरवतन्त्र षष्ठः पटलः Translation - भाषांतर समयाचारयुक्तस्य साधकस्य वरानने ।जायते विविधा सिद्धिः गिरिगह्वरमाश्रिते ॥१॥सुशुद्धे भूप्रदेशे तु सर्वशल्यविवर्जिते ।प्रच्छन्ने विजने रम्ये भैरवं तत्र पूजयेथ् ॥२॥जपित्वाक्षरलक्षं तु बहुरूपस्य सुव्रते ।पञ्चप्रणवसंयोगाज्जपतः सिद्ध्यते ध्रुवं ॥३॥मुच्यते न तु सन्देहो भेदनात्प्रणवस्य तु ।ह्रस्वं दीर्घं प्लुतं सूक्ष्मं अतिसूक्ष्मं परं शिवं॥ ४॥प्रणवं पञ्चधा ज्ञात्वा भित्त्वा मोक्षो न संशयः ।प्रणवः पञ्चधावस्थः हंसेन सह संयुक्तः ॥५॥यत्किञ्चिद्वाङ्मयं लोके शिवज्ञाने प्रतिष्ठितं ।शिवज्ञानं च तत्रस्थं हंसः प्रणवसंयुतः ॥६॥विना प्रणवसंयोगाज्जीव एको व्यवस्थितः ।यथाप्रकृति संयुक्तो न च तिष्ठति चैकतः ॥७॥तथा षष्ठेन सम्भिन्नो देहे जीवः प्रवर्तते ।चोदितस्तु यदा तेन तदा चोर्ध्वं प्रवर्तते ॥८॥प्रत्यक्षमपि तत्तत्त्वं महामायाविमोहिताः ।कथितं नाभिजानन्ति विना शास्त्रेण चोदनां ॥९॥षष्ठश्चोर्ध्ववहो ज्ञेयः स्वभावमुखसंस्थितः ।अप्रकाशः स्वदेहस्थो गुणभूतः प्रवर्तते ॥१०॥निर्गुणस्तु यदा देव एकाकी कालवर्जितः ।विज्ञातव्यं न किञ्चित्स्यात्केवलो निष्कलस्तु सः ॥११॥तस्य रूपं शरीरं च नास्ति वर्णः क्रिया तथा ।स कथं गृह्यते सूक्ष्म अग्राह्यो नित्यमव्ययः ॥१२॥एतस्मात्कारणाद्देवि षष्ठं बीजं नियोजितं ।पञ्चपञ्चकसंयुक्तो देहे सकलनिष्कलः ॥१३॥ग्रहणं तु यदा तस्य योगी योगविचिन्तकः ।योगेनावाहितस्यापि भावमात्रं तु भावयेथ् ॥१४॥यदा करोति सृष्टिं च ऊर्ध्वं बिन्दुः प्रवर्तते ।बिन्दूपरि च यच्छान्तः शिवः परमकारणं ॥१५॥तत्र बिन्दुर्लयं याति तत्स्थानं दुर्लभं सुरैः ।षष्ठस्वरसमायोगादभ्यासादचिराल्लभेथ् ॥१६॥षष्ठश्च पञ्चमश्चैव तस्य देवि गुणाः स्मृताः ।सगुणः सकलो ज्ञेयो निर्गुणो निष्कलः शिवः ॥१७॥सकलो ग्रहसंयुक्तो निष्कलो भावमाश्रितः ।सकले जप्यमाने तु जप्तो भवति निष्कलः ॥१८॥सुरासुराणां देवेन यजनोपायहेतुना ।रूपं तु सकलं तस्य द्विधावस्थं प्रकाशितं ॥१९॥प्रथमं प्राकृतं रूपं विकृतं च द्वितीयकं ।प्रकृतिर्विकृतिश्चैव उभे षष्ठेन संयुते ॥२०॥ये पदार्थाः पुरा प्रोक्तास्तत्रासावुच्छ्वसन्मुहुः ।प्रवर्तते च एतेन पुनस्तेन निवर्तते ॥२१॥प्रणवः पञ्चधावस्थः त्रिवर्णश्च त्रिदैवतः ।बिन्दुनादसमायुक्तः प्रणवः परिपठ्यते ॥२२॥अकारश्च उकारश्च मकारश्च तृतीयकः ।वर्णत्रयमिदं प्रोक्तं ब्रह्माद्या देवतास्त्रयः ॥२३॥बिन्दुनादसमायोगादीश्वरश्च सदाशिवः ।एते वै प्रणवाः पञ्च हंसः प्राणयुतः सदा ॥२४॥परमात्मा शिवो हंसस्त्वपरेण समन्वितः ।परतः प्रणवान्पञ्च पुनरेव वदाम्यहं ॥२५॥शक्तिश्च व्यापिनी चैव समनात्मा च निष्कलः ।उन्मना च तथा देवि प्रणवाः पञ्च कीर्तितः ॥२६॥परतः परमो हंसः सर्वं व्याप्य व्यवस्थितः ।एते वै प्रणवाः पञ्च परापरविभागशः ॥२७॥परापरेण हंसेन नित्यमेव प्रणामिताः ।प्रवर्तन्ते हि सर्वत्र भुक्तिमुक्तिफलप्रदाः ॥२८॥पञ्चभिस्तु युतस्त्वेभिः स पञ्चप्रणवात्मकः ।तत्रस्थः एकरूपस्तु निष्कलस्तत्त्वतः स्मृतः ॥२९॥तद्योगादपि तद्बीजं सर्वबीजप्ररोहकं ।प्रवर्ततेऽयतो यस्माद्देवासुरनिकेतनं ॥३०॥तत्र मन्त्राश्च वर्णाश्च प्रतिष्ठां यान्ति नान्यथा ।तस्य बोद्धाद्विमुच्यन्ते अहिकञ्चुकवत्प्रिये ॥३१॥तावद्भ्रमति संसारे यावत्तत्त्वं न विन्दति ।विदिते तु पुरे तत्त्वे न भूयो जायते क्वचिथ् ॥३२॥अकृतार्थो नरस्तावद्यावद्धंसं न विन्दति ।प्रणवेन समायुक्तं कृतार्थ इति निर्दिशेथ् ॥३३॥उच्चारं च ततो ज्ञात्वा उच्चरेत्तं वरानने ।उच्चारस्त्रिविधो देवि हंसस्य समुदाहृतः ॥३४॥हकारोकारसंयुक्त- बिन्द्वन्ते तु तृतीयकः ।सृष्टिन्यासेन तूच्चारः संहारयोग उच्यते ॥३५॥एवमादिक्रमेणैव मन्त्रमुच्चारयेद्बुधः ।बिन्दुस्थं त्रितयं कृत्वा वक्त्रमुद्घाटयेत्ततः ॥३६॥ईषदुद्घाटिते वक्त्रे तदा नादं विजानत ।नादस्थं पञ्चधा चैव शक्तिस्थं पञ्चधा पुनः ॥३७॥व्यापिन्यां पञ्चधा चैव समनानिष्कलात्मनोः ।उन्मना च परं तत्त्वं सर्वं व्याप्य व्यवस्थितं ॥३८॥एवं ज्ञात्वा विमुच्यन्ते शिवतत्त्वविदो जनाः ।अन्यथा नैव मुच्यन्ते बिन्द्वन्ते ये व्यवस्थिताः ॥३९॥ज्योतीरूपं तु बिन्दुस्थं नादस्थं शब्दरूपकं ।शक्तिस्थं स्पर्शगं चैव तदूर्ध्वं शून्यरूपकं॥ ४०॥ब्रह्मादिपञ्चकं यच्च तेषां शून्यं च तत्पदं ।परापरविभागेन ते सर्वत्र व्यवस्थिताः ॥४१॥शून्यातीता तु समना शुद्धात्मा तून्मना तथा ।सर्वातीतं परं तत्त्वं सर्वं व्याप्य व्यवस्थितं॥ ४२॥मन्त्ररूपाश्च विज्ञेया बिन्दुधर्मात्तु देवताः ।तत्रस्था सर्वकर्माणि साधयन्ति न संशयः ॥४३॥तत्त्वं च उन्मनात्मा तु समना शून्यमेव च ।स्पर्शश्चैव तथा शब्दो रूपं च तदनन्तरं॥ ४४॥मन्त्रात्मनि स्थिताः सर्वे ज्ञातव्या दैशिकेन तु ।तत्रस्था ज्ञानयोगं च प्रयच्छन्ति वरानने ॥४५॥कर्मकाले तु सकलान्शिरः पाण्यादिभिर्युतान् ।जपेत्तु सकलान्देवि निष्कलेन समन्वितान्॥ ४६॥ध्यायेज्ज्योतिर्मयान्सर्वान्शब्दसिद्धिप्रदायकान् ।शक्तिस्थाः शक्तिदाः प्रोक्ताः शून्यस्था व्यापकाः स्मृताः ॥४७॥क्रमाज्ज्ञानप्रदास्ते वै समनास्था वरानने ।कैवल्यदास्ततश्चोर्ध्वे सर्वज्ञाश्चोन्मने पदे ॥४८॥तत्त्वेन वेधिताः सर्वे ये मया परिकीर्तिताः ।तज्ज्ञात्वा सिद्धिदाः सर्वे मुक्तिदाश्च न संशयः ॥४९॥पञ्चप्रणवसंयुक्तं तत्त्वं ते कथितं मया ।पञ्चप्रणवपूर्वेण ओंकाराद्ययुतेन तु ॥५०॥नमस्कारावसानेन बहुरूपेण सुव्रते ।जपतः सिद्धिमाप्नोति लक्षेनाक्षरसंख्यया ॥५१॥प्रणवाद्येन संयुक्तं मन्त्रमेवं जपेत्सदा ।जपान्ते तु पुनर्होमं दशमांशेन कारयेथ् ॥५२॥नृमांसं पुरसंयुक्तं घृतेन च परिप्लुतं ।ततः सिद्धिमवाप्नोति अधमां मध्यमोत्तमं ॥५३॥त्रिगुणेन तु जप्येन स्वच्छन्दसदृशो भवेथ् ।ब्रह्मविष्ण्विन्द्रदेवानां सिद्धदैत्योरगेशिनां ॥५४॥भयदाता च हर्ता च शापानुग्रहकृद्भवेथ् ।दर्पं हरति कालस्य पातयेद्भूधरानपि ॥५५॥स्फोटयेद्बिल्वयन्त्राणि दिग्गजानपि चालयेथ् ।ब्रह्मराक्षसवेतालान्क्रूरग्रहविनायकान् ॥५६॥स्मरणान्नाशयेद्देवि अवध्यस्त्रिदशैरपि ।प्राकृतान्यपि कर्माणि सिद्ध्यन्ति जपलक्षतः ॥५७॥तानि सम्यक्प्रवक्ष्यामि यथावदनुपूर्वशः ।मोहना सहदेवा च भूधात्री चक्रलाञ्छना ॥५८॥रामवल्ल्या सहैकत्र आत्मबीजेन पोषयेथ् ।भक्षे पाने च दातव्यं वशीकरणमुत्तमं ॥५९॥उत्तवारणिमूलं तु पुष्यर्क्षेण तु ग्राहयेथ् ।आत्मेन्द्रियेण संयुक्तं वशीकरणमुत्तमं ॥०॥श्रवणाक्षिमलं लाला रुधिरेन्द्रियसंयुतं ।भूकदम्बसमोपेतं दातव्यं पयसा निशि ॥६१॥अप्रवासे प्रदातव्यं म्रियते विरहेण सा ।षष्टिं कनकबीजानि षोडश मणिचन्द्रिकाः ॥६२॥नरगोदन्तसंयुक्ताः प्रदद्याद्यस्य भामिनी ।एष कापालिको योगो गच्छन्तमनुगच्छति ॥६३॥श्वेतार्कमूलं मञ्जिष्ठा चटकस्य शिरस्तथा ।गृहोद्भवस्य कुष्ठं च स्वरक्तेन्द्रियसंयुतं ॥४॥भक्ष्ये पाने प्रदातव्यं वशीकरणमुत्तमं ।मोहना चैव कान्तारी मयूरशिखया युता ॥६५॥आत्मलालेन्द्रियैर्युक्तं वशीकरणमुत्तमं ।लज्जालुका च गोरम्भा चण्डालीकर्मकं तथा ॥६६॥नागेन्द्रपदमिश्रं तदात्मबीजसमन्वितं ।एष योगवरो दिव्यो दीयते यस्य सुव्रते ॥६७॥मधुरेण समायुक्तो यावदायुर्वशी स तु ।चणका माषमुद्गाश्च अपानेन विनिर्गताः ॥६८॥वान्तं घृतं तथा रेतः स्त्रीरजो हृन्मलं तथा ।मूत्रं रक्तं तथा केशो लाला चैव वरानने ॥६९॥पुत्रजानिः कृताह्वा च नागेन्द्रपदसंयुता ।मोहना विष्णुक्रान्ता च धात्री चैवैकतः स्थिता ॥७०॥पुष्यर्क्षेण नियुञ्जीत गर्वितानां वरानने ।भक्ष्ये पाने प्रदातव्यो योगस्त्रिदशपूजितः ॥७१॥उच्चाटनं प्रवक्ष्यामि शत्रूणां गर्वितात्मनां ।काकोलूकस्य पक्षांश्च खरोष्ट्रमूत्रमृत्तिका ॥७२॥कृत्वा प्रतिकृतिं प्राज्ञः काकरक्तेन लेपयेथ् ।काकोलूकस्य पक्षांश्च गुदे तस्य विनिक्षिपेथ् ॥७३॥तां चतुष्पथे निखनेत्श्मशानाग्निमथोपरि ।प्रज्वाल्य होमयेत्तत्र काकपक्षांश्च सुव्रते ॥७४॥उद्भ्रान्तपत्रसहितान्खरमूत्रेण भावितान् ।यस्य नाम समुद्दिश्य यकाराद्यन्तरोधितं ॥७५॥मन्त्रावसाने विन्यस्तं विसर्गान्तं प्रचाटयेथ् ।भ्रमते काकवत्पृथ्वीं शत्रुर्व्याधिनिपीडितः ॥७६॥पिण्याकं निम्बपत्त्राणि मृत्किण्वं तु तुषाणि च ।शत्रोः प्रतिकृतिं कृत्वा अक्षपुष्पैस्तु वेष्टितां ॥७७॥श्मशाने निखनेत्तां तु वह्निं प्रज्वाल्य चोपरि ।पुष्पैर्विभीततरुजैर्यस्य नाम्ना तु होमयेथ् ॥७८॥विद्विष्टो वै भवेच्छत्रुः कामदेवसमोऽपि यः ।प्रियङ्गुलतिकामिश्रं गुग्गुलुं घृतवेधितं ॥७९॥हृत्वा त्वष्टशतं देवि सुभगः सम्प्रजायते ।जातिकुट्मलकैर्मिश्रैस्त्रिमध्वक्तैस्तिलैर्हुतैः ॥८०॥सुभगत्वमवाप्नोति रूपहीनोऽपि यो नरः ।तिलैर्लवणसम्मिश्रैस्त्रिमध्वक्तैर्हुतैः प्रियैः ॥८१॥सप्ताहाद्वशमायाति या स्त्री रूपेण गर्विता ।राजिका लवणं चैव मधुक्षीरघृतप्लुतं ॥८२॥होमयेन्नामसम्मिश्रं यस्याकर्षेत्तु तं द्रुतं ।नरस्य रोचनां गृह्य द्विरदस्य मदेन तु ॥८३॥भावयित्वाभिमन्त्र्यैतन्मन्त्रेणाष्टशतं जपेथ् ।स्नाने विलेपने मद्ये गन्धे वा यस्य दीयते ॥८४॥स वश्यो भवति क्षिप्रं धनदः प्राणदस्तथा ।अथवा मारयेत्क्षिप्रं शत्रुं निश्चितमात्मनः ॥८५॥अपकारशतैर्युक्तं कृतघ्नं दुष्टचेतसं ।कपालद्वयमादाय नाम शत्रोः समालिखेथ् ॥८६॥कपालसम्पुटस्थं तद्विषाङ्गारेण भावितं ।रुधिरेण समायुक्तं हुम्फट्कारविदर्भितं ॥८७॥महाप्रेतवनं गत्वा स्वच्छन्दं पूजयेत्ततः ।कृष्णमाल्योपहारैश्च ततः कर्म समारभेथ् ॥८८॥विज्ञाप्य भैरवं देवं शत्रुं मे विनिपातय ।अनुज्ञातस्तु देवेन गृहित्त्वा तच्छिरोद्वयं ॥८९॥तत्र गत्वा महादेवि कपालासनसंस्थितः ।तत्रस्थो रोषसम्पूर्णो दक्षिणाभिमुखः स्थितः ॥९०॥आत्मनो भैरवं रूपं ज्ञात्वा घोरं सुभीषणं ।क्रुद्धः समुच्चरेन्मन्त्री द्वात्रिंशाक्षरसम्मितं ॥९१॥विलोमेन महाभागे शत्रुनाम ततोऽन्तगं ।हुम्फड्द्वयं समुच्चार्य काद्ये चास्फालयेद्भृशं ॥९२॥खण्डशश्चूर्णिते यावत्तावच्छतुर्विनश्यति ।सप्तरात्रेण देवेशि प्रयोगस्त्वनिवर्तकः ॥९३॥एवं शतसहस्राणि अन्यकल्पोत्थितानि च ।प्रयोगाणां करोत्येष मन्त्रराजेश्वरेश्वरः ॥९४॥अनुलोमगतं देवं वौषत्कारान्तसंस्थितं ।क्षीरं तु होमयेद्देवि शान्त्यर्थे हितकारकं ॥९५॥वषदाप्यायने शस्तं स्वाहान्तं वशकर्मणि ।मन्त्राणां तर्पणार्थं च नत्यन्तं चार्चने स्मृतं ॥९६॥एतद्धि कथितं देवि साधकस्य सुमेधसः ।क्रियाकालांशयुक्तस्य अक्लेशात्तु सुखावहं ॥९७॥इति स्वच्छन्दतन्त्रे पञ्चप्रणवाधिकारः षष्ठः पटलः N/A References : N/A Last Updated : June 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP