संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|स्वच्छन्दभैरवतन्त्र| चतुर्थः पटलः स्वच्छन्दभैरवतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः १ दशमः पटलः २ दशमः पटलः ३ दशमः पटलः ४ दशमः पटलः ५ दशमः पटलः ६ दशमः पटलः ७ दशमः पटलः ८ दशमः पटलः ९ दशमः पटलः १० दशमः पटलः ११ दशमः पटलः १२ दशमः पटलः १३ एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः स्वच्छन्दभैरवतन्त्र - चतुर्थः पटलः स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात. Tags : shastratantraतंत्रशास्त्रस्वच्छन्दभैरवतन्त्र चतुर्थः पटलः Translation - भाषांतर अधिवासानन्तरभाविनीं दीक्षां प्रस्तावयितुं श्रीभैरव उवाचप्रत्यूषे विमले कृत्वा शौचाद्यान्पुर्र्ववत्क्रमाथ् ।सकलीकरणं कृत्वा पूर्ववत्प्रविशेद्गृहं ॥१॥शिष्यश्च शुचिराचान्तः पुष्पहस्तः (...) गुरुं ततः ।प्रणम्य शिरसा (...) हृष्टो गुरोः स्वप्नान्निवेदयेथ् ॥२॥शुभान्स्वप्नान्प्रवक्ष्यामि अशुभांश्च वरानने ।स्वप्नेषु मदिरापानं आममांसस्य भक्षणं ॥३॥क्रिमिविष्ठानुलेपं च रुधिरेणाभिषेचनं ।भक्षणं दधिभक्तस्य श्वेतवस्त्रानुलेपनं॥४॥श्वेतातपत्रं मूर्धस्थं श्वेतस्रग्दाम भूषणं ।सिंहासनं रथं यानं ध्वजं राज्याभिषेचनं ॥५॥रत्नाङ्गाभरणादीनि ताम्बूलं फलमेव च ।दर्शनं श्रीसरस्वत्योः शुभनार्यवगूहनं ॥६॥नरेन्द्रैरृषिभिर्देवैः सिद्धविद्याधरैर्गणैः ।आचार्यैः सह संवादं कृत्वा स्वप्ने प्रसिद्ध्यति ॥७॥नदीसमुद्रतरणं आकाशगमनं तथा ।भास्करोदयनं चैव प्रज्वलन्तं हुताशनं ॥८॥ग्रहनक्षत्रताराणां चन्द्रबिम्बस्य दर्शनं ।हर्म्यस्यारोहणं चैव प्रासादशिखरेऽपि वा ॥९॥नराश्ववृषपोतेभ- तरुशैलाग्ररोहणं ।विमानगमनं चैव सिद्धमन्त्रस्य दर्शनं ॥१०॥लाभः सिद्धचरोश्चैव देवादीनां च दर्शनं ।गुटिकां दन्तकाष्ठं च खड्गपादुकरोचनाः ॥११॥उप्वीताञ्जनं चैव अमृतं पारतौषधीः ।शक्तिं कमण्डलुं पद्मं अक्षसूत्रं मनःशिलां ॥१२॥प्रज्वलत्सिद्धद्रव्याणि गैरिकान्तानि यानि च ।दृष्ट्वा सिद्ध्यति स्वप्नान्ते क्षितिलाभं व्रणं तथा ॥१३॥क्षतजार्णवसांग्राम- तरणं विजयं रणे ।ज्वलत्पितृवनं रम्यं वीरवीरेशिभिर्वृतं ॥१४॥वीरवेतालसिद्धैश्च महामांसस्य विक्रयं ।महापाशोः संविभागं लब्ध्वा देवेभ्य आदराथ् ॥१५॥आत्मना पूजयन्देवं जपन्ध्यायन्स्तुवन्नपि ।सुहुतं चानलं दीप्तं पूजितं वा प्रपश्यति ॥१६॥हंससारसचक्राह्व- मयूरशवरोहणं ।मातृभिर्भैरवश्चैव मातृरुद्रगणैः सह ॥१७॥भैरवं भैरवीं दृष्ट्वा सिद्ध्यत्यत्र न संशयः ।शुभाः स्वप्ना मयाख्याता अशुभांश्च निबोध मे ॥१८॥तैलाभ्यङ्गस्तथा पानं विशनं च रसातले ।अन्धकूपे च पतनं अथ पङ्के निमज्जनं ॥१९॥वृक्षवाहनयानेभ्यः पतनं हर्म्यपर्वताथ् ।कर्तनं कर्णनासाभ्यां अथ वा हस्तपादयोः ॥२०॥पतनं दन्तकोशानां ऋक्षवानरदर्शनं ।वेतालक्रूरसत्वानां तथैव कालपूरुषाः ॥२१॥कृष्णोर्ध्वकेशा मलिनाः कृष्णमाल्याम्बरच्छदाः ।रक्ताक्षी स्त्री च यं स्वप्ने पुरुषं त्ववगूहयेथ् ॥२२॥म्रियते नात्र संदेहो यदि शान्तिं न कारयेथ् ।गृहप्रसादभेदं च शय्यावस्त्रासनेषु च ॥२३॥आत्मनोऽभिभवं संख्य आत्मद्रव्यापहारणं ।खरोष्ट्रश्वसृगालेषु कङ्कगृध्रबकेषु च ॥२४॥महिषोलूककाकेषु रोहणं च प्रवर्तनं ।भक्षणं पक्वमांसस्य रक्तमाल्यानुलेपनं ॥२५॥कृष्णरक्तानि वस्त्राणि विकृतात्मा प्रपश्यति ।हसनं वल्गनं स्वप्ने म्लानस्रग्दामधारणं ॥२६॥स्वमांसोत्कर्तनं बन्धं कृष्णसर्पेण भक्षणं ।उद्वाहं च तथा स्वप्ने दृष्ट्वा नैव प्रसिध्यति ॥२७॥अशुभा ह्येवमाख्याता विज्ञेया देशिकोत्तमैः ।शुभास्तत्रानुमेद्यास्तु अशुभेषु तु होमयेथ् ॥२८॥अष्टोत्तरशतं धाम्ना प्रायश्चित्ताद्विशुद्ध्यति ।पूर्ववत्सकलीकृत्य विघ्नोच्चाटनरक्षणं ॥२९॥वेष्टनं पूर्ववत्कुर्याच्छिवम्भः शिवहस्तकं ।लोकपालांस्तु संपूज्य शिवकुम्भं च स्थण्डिलं ॥३०॥अग्निकार्यं यथापूर्वं पूर्णाहुतिप्रपातनं ।प्रायश्चित्तं ततः पश्चाद्दुस्वप्नार्थं यदुक्तवान् ॥३१॥एवं पूजादिकं कृत्वा विसृज्य स्थण्डिलच्छिवं ।निर्माल्यापनयं कृत्वा भूमिं संशोध्य पूर्ववथ् ॥३२॥नित्यकर्म ततः कुर्यात्पूजाहोमजपादिकं ।नित्याह्निके समाप्ते तु नैमित्तिकमथाचरेथ् ॥३३॥उपलिप्य शिवाम्भोभिर्ब्रम्ह्मस्थानं प्रपूजयेथ् ।भावेन गन्धपुष्.पाद्यैः ततो मण्डलमालिखेथ् ॥३४॥करणीं खटिकां चैव भैरवेण प्रपूजयेथ् ।धाम्ना तु रजसां पातः सिताद्यश्वागमोदितः ॥३५॥निष्पन्ने मण्डले स्नात्वा नित्यकर्म समाचरेथ् ।नित्यकर्मसमाप्तौ तु कुर्यान्नैमित्तिकं बुधः ॥३६॥स्नानादि पूर्वमन्त्रैः सकलीकरणादिकं ।आत्मरक्षास्त्रप्राकार- द्वारपालादिपूजनं ॥३७॥विघ्नोच्चाटनदिग्बन्धौ भूपातालखवासिनां ।अस्त्रप्राकारमारोप्य कवचेनावगुण्ठनं ॥३८॥उदङ्मुखं तूपविष्टः करशुद्ध्यादि पूर्ववथ् ।शिवाम्भः शिवहस्तं च अर्घत्रयप्रकल्पनं ॥३९॥लोकपालांस्तु संपूज्य शिवकुम्भं प्रपूजयेथ् ।मण्डलस्याग्रतो भूत्वा मण्डलं प्रोक्ष्य चासिना ॥४०॥वर्मणा वेष्टयेत्पश्चात्प्रणवेनाभिमन्त्रयेथ् ।अष्टोत्तरशतं धाम्ना रजोदोषैर्विशुद्ध्यति ॥४१॥चतुर्दिक्ष्वस्त्रं संपूज्य द्वारे गन्धादिभिः क्रमाथ् ।प्राकारं भावयेदस्त्रं मण्डलं प्रविशेत्ततः ॥४२॥गुरून्संपूज्य विघ्नेशं पुष्पाद्यैः प्रणवेन तु ।अनन्तमासनं प्राग्वच्छिवान्तं प्रणवेन तु ॥४३॥मूर्त्यादि पूर्वन्न्यस्येद्धृदाद्यावरणान्तगं ।पूर्वोक्तविधिना पूज्य नैवेद्यानि निवेदयेथ् ॥४४॥निरोधार्घेण चार्धं तु दत्वा चैव निरोधयेथ् ।जपध्यानादिकं कृत्वा अग्निष्ठं भैरवं यजेथ् ॥४५॥नाडीसंधानकं त्रिष्ठं कृत्वा संतर्पयेद्विभुं ।आत्मनो निष्कलोच्चारं कृत्वा कुम्भे निवेशयेथ् ॥४६॥कलशस्थस्य वामेन रोचयेत्पूरयेत्ततः ।मण्डलस्थस्य सव्येन पुनर्वामेन रोचयेथ् ॥४७॥अग्निष्ठस्य तु तत्तेजो दक्षिणेन विशन्स्मरेथ् ।एवं साधनकं कृत्वा ततस्तर्पणमारभेथ् ॥४८॥दशभागविभागेन हुत्वा पूर्णाहुतिं क्षिपेथ् ।प्रायश्चित्तविशुद्ध्यर्थं कुर्यादष्टोत्तरं शतं ॥४९॥विधेः पूर्णातिरिक्तस्य धाम्ना पूर्णाहुतिं ततः ।आचार्योठार्धहस्तस्तु मण्डलं प्रविशेत्ततः ॥५०॥संपूज्य परमेशानं पुष्पाद्यैरर्धपश्चिमं ।मुद्रां बद्ध्वा प्रणम्यादौ जानुभ्यामवनिं गतः ॥५१॥विज्ञापयेत पश्वर्थं प्रारब्ध्योयं मखोत्तमः ।स्नानाधिवासनाद्यं यन्मण्डलेऽग्नौ च यत्कृतं ॥५२॥विधानं पुष्कलं सम्यक्त्वत्प्रसादादिहास्तु तथ् ।इदानीं शिष्यदेहे तु सकलीकरणादिका ॥५३॥योजन्यन्ताध्वशुद्धिस्तु त्वत्प्रसादात्प्रसिद्ध्यतु ।एवमस्त्वित्यनुज्ञातः परमेशेन वीरराठ् ॥५४॥लब्धानुज्ञः प्रहृष्टात्मा निष्क्रामेन्मण्डलाद्बहिः ।पश्वर्थाय कृतं यत्तु तद्गृहीत्वार्धपात्रकं ॥५५॥धाम्नस्तु दक्षिणे भागे कारयेन्मण्डलं गुरुः ।प्रणवासनं कुशैर्न्यस्य शुचिं शिष्यं निवेशयेथ् ॥५६॥शिवाम्भोऽस्त्रेण संताड्य भस्मना च कुशैः क्रमाथ् ।मण्डले कल्पिते शिष्यं मूर्तिभूतं प्रकल्पयेथ् ॥५७॥उपविश्य करन्यासं निर्दाहाद्यस्त्रपूर्वकं ।सबाह्याभ्यन्तरं न्यासं मन्त्रसंधानमेव च ॥५८॥शिवहस्तः प्रदातव्यो ध्यात्वा देवं सुजाज्वलं ।मूर्ध्नि संपातयेत्तेजः पाशाङ्कुरविनाशनं ॥५९॥उत्थाप्य च ततो नीत्वा मण्डलं तु प्रवेशयेथ् ।वस्त्रं संप्रोक्ष्य तोयेन कवचेनावगुण्ठयेथ् ॥६०॥पूजयेद्गन्धपुष्पाद्यैर्भैरवेणाभिमन्त्रयेथ् ।नेत्रे बद्धा तु नेत्रेण पुष्पं पाणौ प्रदापयेथ् ॥६१॥अकामान्निक्षिपेत्पुष्पं देवस्याभिमुखं स्थितः ।पुष्पपातवशान्नाम कुर्याद्वै साधकस्य च ॥६२॥मुमुक्षोर्गुरुरिच्छातः नाम वै साधकस्य वा ।मुखमुद्घाट्य तं शिष्यं शिवाय प्रणिपातयेथ् ॥६३॥प्रदक्षिणमतः कृत्वा मण्डलेग्नौ प्रणम्य च ।अग्निकुण्डसमीपे तु आचार्यः पशुना सह ॥६४॥आत्मसव्येथ दिग्भागे मण्डलं प्रणवेन तु ।पूर्वन्नाडिसंधानं तदर्थं चाहुतित्रयं ॥६५॥संपाताभिहुतिं कृत्वा अणुतर्पणमेव च ।पूर्णाहुतिं ततो दत्त्वा प्रायश्चित्तानि होमयेथ् ॥६६॥धाम्ना चाष्टशतं पश्चात्पातयेदाहुतित्रयं ।जात्युद्धारे ध्रुवेणैव द्विजत्वापादने तथा ॥६७॥बीजाहारे तथा देश- भावशुद्धौ द्विजो भवेथ् ।प्रणवेनाहुतीस्तिस्रो रुद्रांशापादने तथा ॥६८॥अस्त्रेण प्रोक्षयेच्छिष्यं पुष्पयुक्तेन ताडयेथ् ।रेचकेन ततो गत्वा शिष्यदेहे विशेद्धृदि ॥६९॥ओंकारादि शिवं जप्त्वा अस्त्रमन्त्रं फडन्तगं ।विश्लेषकरणं कृत्वा चैतन्यस्य विधानतः ॥७०॥छेदयेदस्त्रमन्त्रेण कवचेनावगुण्ठयेथ् ।अङ्कुशेन समाकृष्य द्वादशान्ते तु कारयेथ् ॥७१॥तत्रस्थः पुद्गलो ग्राह्यः संपुट्यैव ध्रुवेण तु ।संहारमुद्रया सम्यक्पूरकेण विशेद्धृदि ॥७२॥संस्कुभ्य सरसीकृत्य रेचयेत्पुद्गलं पुनः ।त्यजन्तं देवताषट्कं ततश्चापि स्वकं पदं ॥७३॥तत्रस्थं पुद्गलं गृह्य संपुट्य च भवेन तु ।संहारमुद्रयोद्धृत्य शिष्यस्य हृदि योजयेथ् ॥७४॥भैरवेणाभिमन्त्र्य एवं उपवीतं शिशोर्ददेथ् ।आधानाद्यावदन्त्येष्टिं द्विजत्वे संस्कृतो भवेथ् ॥७५॥पिण्डस्यापादनं जातेः आहुतित्रितयेन तु ।चैतन्यस्यापि संस्कारं आधानान्त्येष्टितः परं ॥७६॥सूक्ष्मविज्ञानतः कृत्वा द्विजत्वे संस्कृतो भवेथ् ।शतहोमं सहस्रं वा हुत्वा पूर्णाहुतिं ततः ॥७७॥समयी संस्कृतो ह्येवं वचनेष्यार्हता भवेथ् ।श्रवणेऽध्ययने होमे पूजनादौ तथैव च ॥७८॥चर्याध्यानविशुद्धात्मा लभते पदमैश्वरं ।अथ दीक्षाध्वशुद्ध्यर्थं भुक्तिमुक्तिफलार्थिनां ॥७९॥विधानमुच्यते सूक्ष्मं पाशविच्छत्तिकारकं ।गुरुः संपृच्छते शिष्यं द्विविधं फलकाङ्क्षिणं ॥८०॥फलमाकाङ्क्षसे यादृक्तादृक्साधनमारभे ।वासनाभेदतः प्राप्तिः साध्यमन्त्रप्रचोदिता ॥८१॥मन्त्रमुद्राध्वद्रव्याणां होमः साधारणः स्मृतः ।वासनाभेदतो भिन्नः शिष्याणां च गुरोस्तथा ॥८२॥साधको द्विविधस्तत्र शिवधर्म्येकतः स्थितः ।शिवमन्त्रविशुद्धाध्वा साध्यमन्त्रनियोजितः ॥८३॥ज्ञानवांश्चाभिषिक्तश्च मन्त्राराधनतत्परः ।त्रिविधायास्तु सिद्धेर्वै सोऽत्रार्हः शिवसाधकः ॥८४॥द्वितीयो लोकमार्गस्थ इष्टापूर्तविधौ रतः ।कर्मकृत्फलमाकाङ्क्षञ्शुभैकस्थोऽशुभोज्झितः ॥८५॥तस्य कार्यं सदा मन्त्रैरशुभांशविनाशनं ।गृहस्थो वा यतिर्वासावाश्रमैकतमस्थितः ॥८६॥मुमुक्षुर्द्विविधः प्रोक्तो निर्बीजो बीजवान्पुनः ।बालबालिशवृद्धस्त्री- भोगभुग्व्याधितात्मनां ॥८७॥एषां निर्बीजिका दीक्षा समयदिविवर्जिता ।विद्वद्द्वन्द्वसहाना तु सबीजा कीर्तिता प्रिये ॥८८॥दीक्षानुग्राहिका तेषां समयाचारसंयुता ।विशेषसमयाचारा मन्त्राख्ये ये प्रकीर्तिताः ॥८९॥तेऽत्र पाल्याः प्रयत्नेन मोक्षसिद्धिमभीप्सता ।सबीजा सा तुविज्ञेया पुत्रकाचार्ययोः स्थिता ॥९०॥गृहस्थो वाश्रमी वाथ यतिः संकल्प्य दीक्षयेथ् ।पाशसूत्रकमादाय शिष्यदेहेऽवलम्बयेथ् ॥९१॥अध्वानं संधयेदग्नौ धाम्ना चैव विचक्षणः ।कुम्भमण्डलवह्निस्थश्चाध्वात्मस्थः शिशोश्च यः ॥९२॥सूत्रस्थश्चापि चैकत्र अध्वसंधिः प्रकीर्तितः ।षड्विधस्याध्वमार्गस्य साधारणगतस्य तु ॥९३॥कुण्डे संकल्प्य संशोध्य- मध्वसंधौ तु होमयेथ् ।मूलमन्त्राष्टशतिक- मध्वसंधानहेतुतः ॥९४॥अध्वावलोकनं पश्चाद्व्याप्यव्यापकभेदतः ।भुवनव्याप्तिता तत्त्वेष्वनन्तादिशिवान्तके ॥९५॥व्यापकानि च षट्त्रिंशत्मन्त्रवर्णपदात्मकाः ।तत्त्वान्तर्भाविनः सर्वे वाच्यवाचकयोगतः ॥९६॥कलान्तर्भाविनस्ते वै निवृत्त्याद्याश्च ताः स्मृताः ।हृदाद्या वाचकास्तासां बीजामन्त्राः प्रकीर्तिताः ॥९७॥एकिकस्याः कलायाश्च पृथग्व्याप्तिं विभावयेथ् ।पृथिव्यादिकला ज्ञेया ब्रह्माद्याः कारणाश्च ते ॥९८॥एवं व्याप्तिं भावयित्वा अध्वोपस्थापनं भवेथ् ।त्रिराहुतिं ध्रुवेणैव अध्वशुद्धिरतो भवेथ् ॥९९॥अग्नौ तु पूजिते देवे अध्वन्यासे कृते सति ।तदेव पादादारभ्य पृथिव्यादिक्रमान्न्यसेथ् ॥१००॥धामाधिः प्रणवादिश्च निवृत्त्यै च नमः पुनः ।उपस्थापनमन्त्रोऽयं व्याप्तिं ध्यात्वाध्वसंस्थितां ॥१०१॥निवृत्त्यभ्यन्तरे पृथ्वी शतकोटिप्रविस्तरा ।तस्यां च भुवनानां च शतमष्टोत्तरावधि ॥१०२॥अष्टाविंशतिः पदानि वर्ण एकोऽत्र संस्थितः ।मन्त्रौ द्वावेव विज्ञेयौ अध्वषट्कं विभावयेथ् ॥१०३॥पुष्पगन्धादिना पूज्य संनिधावाहुतित्रयं ।मायीया भुवनाकारा मलाः कर्म च संस्थिताः ॥१०४॥शरीरभुवनाकारा मायीयाः परिकीर्तिताः ।भोगहेतुश्च कर्म स्यादभिलाषो मलोऽत्र तु ॥१०५॥एवं पाशत्रयं भाव्यं दीक्षायामध्वसंस्थितं ।तद्विशुद्ध्यै च दीक्षा च क्रियते सा यथाविधि ॥१०६॥आदौ शक्तिं न्यसेद्देवि कलातत्त्वसमन्वितां ।हृदा संकल्प्य वागीशीं व्यापिकां सर्वयोनिषु ॥१०७॥शतरुद्राद्यनन्तान्तं योनयो विविधाः स्थिताः ।समकालमृतुत्वेन वागीशीं संनिधापयेथ् ॥१०८॥ध्रुवेण पूजयेत्पुष्पैर्गन्धधूपैरनुक्रमाथ् ।ओंकारेणाहुतिस्तिस्रो वागीशीसंनिधापने ॥१०९॥शिष्यं संप्रोक्ष्य चास्त्रेण ताडयेदस्त्रमुच्चरन् ।रेचकेनात्मनो गत्वा छिन्द्यात्तस्यासिना हृदः ॥११०॥धाम्नाकृष्य तदात्मानं द्वादशान्ते निधापयेथ् ।ध्रुवेण तत्स्थं संपुट्य चैतन्यं मुद्रयात्मनि ॥१११॥पूरयेद्भैरवेणैव कुम्भयेद्रेचयेत्ततः ।द्वादशान्तात्तु संगृह्य योजयेद्भवमुद्रया ॥११२॥आत्मानमीश्वरं ध्यात्वा मायां वागीश्वरीमपि ।संयोज्य तस्यां चैतन्यं शरीराण्यध्वनि सृजेथ् ॥११३॥प्राक्कर्मवासनाशेष- फलभोगत्वहेतवे ।युगपद्भिन्नभोगानि देशकालशरीरतः ॥११४॥मन्त्रशक्त्या विपच्यन्ते पुद्गलाश्च तथाविधाः ।भिनादेहा विसृज्यन्ते गर्भे वागीशियोनिषु ॥११५॥धाम्ना च योजयित्वा च जुहुयादाहुतित्रयं ।युगपत्सर्वगर्भेषु देहा विविधरूपकाः ॥११६॥भैरवेच्छासुसंपन्नः शतरुद्राद्यनन्तगाः ।गर्भेषु गर्भनिष्पत्ति भैरवेणाहुतित्रयं ॥११७॥हुत्वा तु जननं कार्यं पुनस्तेनाहुतित्रयाथ् ।सर्वयोनिषु देहास्ते युगपद्वृद्धिमागताः ॥११८॥भोगनिष्पत्तये कर्म व्यापरसहकारणं ।तदभावान्न भोगः स्यात्तदर्थं मार्जनं स्मृतं ॥११९॥अर्जिते [आर्जिते] सति भोक्तव्यो भोगो दुःखसुखात्मकः ।लयः परमया प्रीत्या सुखदुःखादिकेऽप्यलं ॥१२०॥तिसृभिस्तिसृभिर्होमं धाम्नैव त्रिषु कारयेथ् ।आहुतीनां शतं होम्यं धाम्ना निष्कृतये पुनः ॥१२१॥यत्कर्मभोग्यरूपं तु जात्यायुर्भोगलक्षणं ।निष्कृत्यन्ते विशुद्ध्येत्तद्भूलोकसमवस्थितं ॥१२२॥संसारा दशचत्वारः संस्कारा अष्टभिः सह ।चत्वारिंशद्द्विजत्वाय वक्ष्यन्ते भुवनाध्वनि ॥१२३॥योनिर्बीजं तथा भाव आहारो देश एव च ।एतेषां शोधनं देवि रुद्रांशापादनं तथा ॥१२४॥अत्रावलोकनं कृत्वा निष्.कृत्यामेव शुद्ध्यति ।विषया भुवनाकारा ये केचिद्भोग्यरूपिणः ॥१२५॥भुक्तकर्मफलाशेषा निष्कृतिस्तेन सा स्मृता ।विश्लेषो निष्कृतेर्भोगात्भोगाभावे स हि स्मृतः ॥१२६॥भोक्तृत्वं विषयासक्तिर्मलकार्यं प्रकीर्तितं ।भोक्तृत्वाभावस्तत्रैव शरीरेण तु यत्कृतं ॥१२७॥विश्लेषः क्रियते तस्य पशोर्मन्त्रैः शिवाज्ञया ।धाम्ना चाहुतयस्तिस्रो विश्लेषकरणाय च ॥१२८॥आहुतित्रितयं धाम्ना पाशच्छेदेऽपि दापयेथ् ।पाशा देहे तु मायीयाः कलाद्या भूतकावधि ॥१२९॥शरीरकरणाकाराः पुरुषार्थप्रसिद्धये ।भोगाभावाद्विपद्यन्ते शरीराणि सहस्रधा ॥१३०॥पाशच्छेदे विधिस्तस्य मन्त्रैश्च विधिचोदितैः ।एवं पाशत्रयस्यापि विश्लेषो दीक्षयोच्यते ॥१३१॥शरीरशेषभङ्गेन एकचैतन्यभावना ।पूर्णाहुतिं शिवेनैव वौषड्जातियुतेन च ॥१३२॥शुद्धतत्त्वाग्रसंस्थं तच्चैतन्यं कनकप्रभं ।उद्धारायाहुतीस्तिस्रः पुनर्धाम्ना तु दापयेथ् ॥१३३॥तस्मात्तत्त्वाद्गृहीत्वा तु चैतन्यं मलसंयुतं ।मुद्रया प्राग्विधानेन आत्मस्थं पूरयेद्द्धृदि ॥१३४॥कुम्भित्वा रेच्य संगृह्य द्वादशान्ताद्ध्रुवेण तु ।शिष्यदेहे निवेश्यैतन्नाडीरन्ध्रेण पूर्ववथ् ॥१३५॥तत्स्थीकरणहेत्वर्थं धाम्ना चैवाहुतित्रयं ।कलाशुद्ध्यवसाने तु ब्रह्माणं कारणाधिपं ॥१३६॥स्वनामप्रणवाह्वान- पूर्वं संतर्प्य चार्पयेथ् ।शब्दस्पर्शो त्यजेत्तस्मिन्ध्रुवाद्यौ नामसंयुतौ ॥१३७॥स्वाहाकारप्रयोगेन तौ ब्रह्मणि निवेदयेथ् ।तिसृभिस्तिसृभिर्होमात्पुर्यष्टांशं निवेदयेथ् ॥१३८॥आमन्त्रणविभक्त्या तु श्रावणां तस्य कारयेथ् ।ब्रह्माणं पूजयित्वा तु होमं कृत्वा विसर्जयेथ् ॥१३९॥ध्रुवेणाभ्यर्च्य वागीशीं संतर्प्य च विसर्जयेथ् ।हुत्वावलोकयेत्तत्र विशुद्धं पाशजालकं ॥१४०॥प्राक्कर्मभाविकस्याथ अभावं भावयेत्तदा ।मुमुक्षोर्निरपेक्षत्वात्प्रारब्ध्रेकं न शोधयेथ् ॥१४१॥साधकस्य तु भूत्यर्थं प्राक्कर्मैकं तु शोधयेथ् ।प्राक्कर्मागामि चैकस्थं भावयित्वा च दीक्षयेथ् ॥१४२॥शिवधर्मिण्यसौ दीक्षा लोकधर्मिण्यतोऽन्यथा ।प्राक्तनागमिकस्यापि अधर्मक्षयकारिणी ॥१४३॥लोकधर्मिण्यसौ ज्ञेया मन्त्राराधनवर्जिता ।प्रारब्धदेहभेदे तु भुङ्क्ते स ह्यणिमादिकान् ॥१४४॥भुक्त्वा व्रजेदूर्ध्वं गुरुणा यत्र योजितः ।सकले निष्कले वापि शिष्याचार्यवशाद्भवेद् ॥१४५॥निर्वाणेऽपि सबीजायां कर्माभावाद्विपद्यते ।समयाचारपाशं हि दीक्षितः पालयेत्तु यः ॥१४६॥तं पाशं नैव शुद्ध्येत सा सबीजा प्रकीर्तिता ।समयाचारपाशं तु निर्बीजायां विशोधयेथ् ॥१४७॥दीक्षामात्रेण मुक्तिः स्याद्भक्रिमात्राद्गुरोः सदा ।सद्योनिर्वाणदा दीक्षा निर्बीजा सा द्वितीयका ॥१४८॥अतीतनागतारब्ध- पाशत्रयवियोजिका ।दीक्षावसाने शुद्धिः स्याद्देहत्यागे परं पदं ॥१४९॥एवं भावानुसारेण शिष्याणां गुरुणा सदा ।फलं तु विविधाकारं निष्पाद्येत सुदीक्षया ॥१५०॥अचिन्त्या मन्त्रशक्तिर्वै परमेशमुखोद्भवा ।क्रिया काले प्रयोक्तव्या गुरुणा भक्तिपूर्विका ॥१५१॥विषाणमिव पाशानां मन्त्रैः कवलनं ध्रुवं ।करोति मन्त्रतत्त्वज्ञः शिवावेशी गुरुः क्षणाथ् ॥१५२॥कलासंधानकं कुर्याच्छुद्धाशुद्धद्विरूपगं ।शुद्धमुच्चारयेध्रस्वं अशुद्धं दीर्घमेव च ॥१५३॥एकत्वं भावयित्वा तु लीनं शुद्धं विभावयेथ् ।प्रणवादिनिवृत्तिस्तु प्रतिष्ठा तदनन्तरं ॥१५४॥नमस्कारस्तदन्ते तु कलासंधानकं स्मृतं ।आवाह्य स्थाप्य संपूज्या- हुतीस्तिस्रः प्रपातयेथ् ॥१५५॥कलासंधानमेतद्धि व्याप्तिं तस्यावलोकयेथ् ।गुल्फादारभ्य नाभ्यन्तं शिष्यदेहेऽध्वकल्पनं ॥१५६॥प्रतिष्ठाया भवेद्व्याप्तिश्चतुर्विंशतितत्त्विका ।षट्पञ्चाशद्भुवनिका त्रयोविंशतिवर्णिका ॥१५७॥ज्ञेयैकविंशतिपदा त्रिमन्त्रा च विधीयते ।मुख्या ह्येते स्मृताः पाशाः सूक्ष्मानन्तर्विभावयेथ् ॥१५८॥अन्यत्तन्त्रप्रसिद्धिं तु तन्मात्रेन्द्रियशोधनं ।षट्कोशान्विषयान्पञ्च तदन्तर्भावयेत्सदा ॥१५९॥विशेषस्थापनं कृत्वा पूज्या गन्धादिभिस्ततः ।भैरवेणाहुतीस्तिस्रः तस्या वागीशिकल्पना ॥१६०॥स्वनामावाहनाद्यस्य अर्धहोमादि पूर्ववथ् ।प्रोक्षणं ताडनं छेद आकर्षग्रहणे तथा ॥१६१॥धाम्नापूर्य कुम्भयित्वा छित्त्वाथ ग्राहयेत्पुनः ।योजनं गर्भधारित्वं जननं पूर्ववत्क्रमाथ् ॥१६२॥ऐश्वरीं मूर्तिमास्थाय ताडनादीनि कारयेथ् ।अधिकारस्थथा भोगो लयो निष्कृतिरेव च ॥१६३॥शिवरूपेण कर्तव्याः निष्कृतिः शिरसा पुनः ।विश्लेषश्च हृदा होम्यः पाशच्छेदस्तथासिना ॥१६४॥पूर्णाहुतिसमुद्धारं पूर्ववद्भैरवेण तु ।सदाशिवतनौ स्थित्वा विश्लेषादीनि कारयेथ् ॥१६५॥आत्मस्थं पूरकेणैव तत्स्थं रेचकवृत्तितः ।स्वनाम्नोच्चारयेद्विष्णुं ध्यात्वावाह्य तु स्थापयेथ् ॥१६६॥पूजयेत्पुष्पगन्धाद्यैः तर्पणाहुतित्रयं ।रसं पुर्यष्टकांशं तु अर्पयेद्विष्णवे सदा ॥१६७॥विसर्जयेत्ततो विष्णुं वागीशीं च विसर्जयेथ् ।कलासंधिर्यथापूर्वं ह्रस्वदीर्घप्रयोगतः ॥१६८॥अभावं भावयेत्तस्मिन्पाशजाले त्वनन्तके ।कलाद्वयविनिर्मुक्तः पशुरूर्ध्वगमोत्सुकः ॥१६९॥तस्येदानीं तृतीयस्यां विद्यायां योज्य शोधयेथ् ।स्थापयित्वा संपूज्य जुहुयादाहुतित्रयं ॥१७०॥एवं तु संमुखीकृत्य प्रागिवाध्वावलोकनं ।पुंस्तत्त्वाद्यावन्मायान्तं विद्याया व्याप्तिरिष्यते ॥१७१॥सप्त तत्त्वानि भुवन- सप्तविंशतिरेव च ।पदविंशतिराख्याता वर्णाः सप्त प्रकीर्तिताः ॥१७२॥मन्त्रौ द्वौ षड्विधाध्वानं ज्ञात्वा वागीशिकल्पनं ।प्रणवेन समावाह्य व्यापिनीं सर्वयोनिषु ॥१७३॥समकालमृतुत्वेन ध्यात्वा संपूज्य तर्पयेथ् ।ततः शिवाम्भसा शिष्यं प्रोक्ष्य चास्त्रेण ताडयेथ् ॥१७४॥तेनैव चास्त्रभूतेन हुंफट्कारयुतेन तु ।आत्मनो रेवकेनैव शिष्यदेहे विशेद्धृदि ॥१७५॥अस्त्रमन्त्रेण संछेद्य विशेषाश्लेष्यास्त्रेण कर्षयेथ् ।द्वादशान्तात्तु संगृह्य आत्मस्थं पूर्ववत्कुरु ॥१७६॥पूरकेणाथ संकुम्भ्य रेचयित्वा तु योजयेथ् ।पूर्ववद्द्व्यापकं तस्य चैतन्यं सर्वयोनिषु ॥१७७॥योगाद्यं लयपर्यन्तं धाम्ना चैवात्र पूर्ववथ् ।शिखया शतहोमात्तु विद्याया निष्कृतिर्भवेथ् ॥१७८॥प्रणवादि ततो रुद्रं आवाह्य स्थाप्य पूजयेथ् ।ततोऽस्य विन्यसेद्देवि गन्धरूपे ध्रुवाहुती ॥१७९॥पुर्यषकांशं विन्यस्य विसर्ज्य रुद्रदेवतां ।वागीशीं च विसर्ज्यैवं कलासंधिश्च पूर्ववथ् ॥१८०॥ह्रस्वदीर्घविभागेन विद्यां शान्तौ नियोजयेथ् ।संधानार्थं तु मूलेन जुहुयादाहुतित्रयं ॥१८१॥स्वनाम्नावाहनं शान्तेर्विधिपूर्वं निवेदनं ।प्रमेयभावनां कृत्वा पूजयेत्कुसुमादिभिः ॥१८२॥त्रिराहुतिं तु मूलेन विद्यातत्त्वात्सदाशिवं ।तत्त्वानां त्रितये व्याप्तिर्वर्णानां त्रय एव च ॥१८३॥पदैकादशिका ज्ञेया पुराणि दश सप्त च ।मन्त्रौ द्वौ षड्विधोऽध्वैवं मुख्याः पाशा इमे स्मृताः ॥१८४॥सूक्ष्मपाशाननेकांश्च तदन्तर्भावयेत्सदा ।वगीशीं कल्पयेत्तत्र पूर्वेण विधिनाहुतिः ॥१८५॥पूजनं मूलमन्त्रेण ततः प्रोक्षणताडनं ।छेदाकर्षग्रहं चैव योगधारित्वजन्म च ॥१८६॥अधिकारस्तथा भोगो लयो वै पूर्ववद्भवेथ् ।सर्वे ते मूलमन्त्रेण आहुतित्रितयेन तु ॥१८७॥निष्कृतौ शतहोमं तु कवचेन तु कारयेथ् ।विश्लेषं पाशछेदं तु कुर्यादस्त्रेण दैशिकः ॥१८८॥उद्धारकरणात्मस्थ- तत्स्थीकारान्भवेन तु ।स्वनाम्ना प्रणवाद्येन ईशमावाह्य पूजयेथ् ॥१८९॥संपूज्य हुत्वा संतर्प्य बुद्ध्यहंकृतिद्यंशकं ।स्वनाम्ना प्रणवाद्यं तु स्वाहान्ते बुद्धिमर्पयेथ् ॥१९०॥अहंकारं तथाप्येवं हुत्वेदं क्षमयेत्ततः ।वागीशीं पूजयित्वा तु तर्पयित्वा विसर्जयेथ् ॥१९१॥कलासंधानकं पूर्वं शान्त्यतीते तु योजयेथ् ।ह्रस्वदीर्घविभागेन जुहुयादाहुतित्रयं ॥१९२॥ध्रुवेण तत्त्वसंधानं कर्तव्यं विधिवेदिना ।कलोपस्थापनं पश्चाद्ध्रुवेण जुहुयात्प्रिये ॥१९३॥त्रिराहुतिप्रयोगेण स्वनामपदमुच्चरन् ।शान्त्यतीतां समावाह्य स्थापयेत्पूजयेत्पुनः ॥१९४॥व्याप्तिमालोक्य चाध्वस्थां शिवतत्त्वगताश्च ये ।बिन्दुर्नादस्तथा शक्तिः शिवतत्त्वे व्यवस्थिताः ॥१९५॥पदमेकं मन्त्र एको वर्णाः षोडश कीर्तिताः ।भुवनानि तु सूक्ष्माणि शान्त्यतीते तु भावयेथ् ॥१९६॥शोधनीया वरारोहे यावत्ते शिवरश्मयः ।शिवस्योर्ध्वे शिवो ज्ञेयो यत्र युक्तो न जायते ॥१९७॥षडध्वा चैकतो ज्ञेयः तस्य संख्यां पुनः शृणु ।कलाश्च पञ्च विज्ञेयास्तत्त्वषट्त्रिशदेव तु ॥१९८॥सचतुर्विंशति ज्ञेयं भुवनानां शतद्वयं ।एकाशीतिपदान्यत्र वर्णार्धशतिका स्मृता ॥१९९॥मन्त्रा एकादशा ज्ञेया इत्येतच्चाध्वमण्डलं ।एतस्मिञ्शुद्धिमापने मुक्तिमाप्नोति दीक्षितः ॥२००॥ध्रुवेणावाह्य वागीशीं विन्यसेत्पूर्ववद्धुतिः ।संपूज्य कुसुमादयिस्तु तद्योनौ पूर्ववत्पशुं ॥२०१॥ध्रुवेण सर्वं कर्तव्यं जननादिलयान्तकं ।निष्.कृतौ शतहोमं तु मूलमन्त्रेण कल्पयेथ् ॥२०२॥विश्लेषपाशच्छेदाभ्यां प्राग्वत्कुर्याद्ध्रुवेण तु ।ग्रहेणात्मस्थतत्स्थत्वं प्रणवेन पशोः स्मृतं ॥२०३॥सदाशिवमथावाह्य मूलमन्त्रं समुच्चरन् ।नमस्कारेण संस्थाप्य पुष्पैः संपूज्य तर्पयेथ् ॥२०४॥मनः पुर्यष्टकांशं तु विन्यसेत्कारणेश्वरे ।प्रणवादि समुच्चार्य मनःसंज्ञां नमस्तथा ॥२०५॥विन्यस्य पूजयेत्पश्चात्संज्ञास्वाहान्तमेव च ।आहुतित्रितयं हुत्वा पुर्यष्टांशाद्विशुद्ध्यति ॥२०६॥ततो विसर्जयेद्देवं कारणं च सदाशिवं ।पुष्पादिभिः समभ्यर्च्य वागीशीं तदनन्तरं ॥२०७॥ता तु संपूज्य संतर्प्य विज्ञाप्या भक्तिभाविता ।क्षमस्व देवदेवेशि पश्वर्थं खेदिता मया ॥२०८॥इदानीं नोपरोद्धव्यं गच्छ देवि स्वविष्टपं ।विसर्ज्यैवं कला भाव्या शान्त्यतीता लयं गता ॥२०९॥स्वशक्त्याधारपर्यन्ते सुसूक्ष्माभावसंस्थिते ।आत्मतत्त्वविभागेन धाम्ना वै जुहुयाच्छतं ॥२१०॥सशबोच्चारयोगेन आत्मतत्त्वे तु होमयेथ् ।मायातत्त्वावधि ज्ञेयं दैशिकेन महाध्वरे ॥२११॥विधिवैकल्यकर्मार्थं प्रायश्चित्तविशुद्धये ।विद्यातत्वे तु होतव्यं शतमष्टोत्तरं प्रिये ॥२१२॥उपांशूच्चरयोगेन विद्यातत्त्वे तु होमयेथ् ।सदाशिवान्तमध्वानं विद्यातत्त्वं विनिर्दिशेथ् ॥२१३॥मन्त्रोच्चरवोलोमेन प्रायश्चित्तं तु यद्भवेथ् ।तद्विशुद्ध्यै स होमः स्याद्विद्यातत्त्वे तु यः कृतः ॥२१४॥मनोविज्ञानवैकल्यात्प्रायश्चित्तं तु यद्भवेथ् ।तच्छुद्ध्यर्थं शिवे तत्त्वे मूलमन्त्रेण होमयेथ् ॥२१५॥मानसेन प्रयोगेन शक्त्यन्तेऽध्वनि संस्थितं ।तत्त्वत्रयविशुद्ध्यन्ते शिखाच्छेदं तु कल्पयेथ् ॥२१६॥अध्वान्तस्थां परां शान्तां अनौपम्यामनामयां ।व्यापिनीं सर्वतत्त्वानां सर्वकारणकारणं ॥२१७॥ध्यात्वा शिशोः शिखाग्रे तु पुष्पाग्रे जलबिन्दुवथ् ।कर्तरीं शिखयामन्त्र्य शिखया च्छेदयेच्छिखां ॥२१८॥शिखां समर्प्य चान्यस्य निर्गच्छेत्स सशिष्यकः ।स्नानं समाचरेच्छिष्यः गुरोराचमनं भवेथ् ॥२१९॥स्नानमुद्धूलनं वाथ आचरेत्स्वेच्छया गुरुः ।प्रविश्य सकलीकृत्य पूर्णया जुहुयाच्छिखां ॥२२०॥हुत्वा निर्गम्य चाचम्या- क्षाल्य स्रुक्स्रुवकर्तरीः ।प्रविश्य सकलीकृत्य शिवहस्तानुपूजनं ॥२२१॥ततस्तु मण्डले पश्चात्पूजयेत्परमेश्वरं ।पुष्पादिभिरशेषैस्तु ततो विज्ञापयेच्छिवं ॥२२२॥भगवंस्त्वत्प्रसादेन अध्वष्टकव्यवस्थितं ।पशुं संगृह्य संशोध्य शिखाच्छेदावसानकं ॥२२३॥त्वन्मुखोक्तविधानं तु लेशतो वर्तितं मया ।त्वच्छक्त्यैव तु गन्तव्यं आशु ध्रुवपदं शिवं ॥२२४॥इदानीं योजने कर्म तवाज्ञानुविधायिनः ।आज्ञा मे दीयतां नाथ शिष्यं संयोजयाम्यहं ॥२२५॥लब्धानुज्ञातमात्मानं प्रहृष्टो निर्गतः पुराथ् ।अर्धहस्तो व्रजेदग्निं शिष्यमाहूय प्रोक्षयेथ् ॥२२६॥पूर्ववच्चासनस्थस्य सकलीकरणादिकं ।अन्तःकरणविन्यासं नाडीसंधानपूर्वकं ॥२२७॥पूजनं तर्पणं चाग्नौ मन्त्राणां च शिवस्य च ।दशभागविभागेन यथा द्रव्यानुसारतः ॥२२८॥मन्त्रान्संशोधयेत्पश्चात्सकलीकरणे स्थितान् ।सकृदाहुतियोगेन अधिकारो विवर्ज्यतां ॥२२९॥सकलीकरणत्वेन न कदाचित्पशोः पुनः ।योजनीयं प्रयोगं तु अधुना कथयामि ते ॥२३०॥ज्ञात्वा चारप्रमाणं तु प्राणसंचारमेव च ।षड्विधाध्वविभागं तु प्राणैकत्र यथास्थितं ॥२३१॥हंसोच्चारं तु वर्णैश्च कारणत्यागमेव च ।शून्यं समरसं ज्ञेयं त्यागं संयोगमुद्भवं ॥२३२॥भेदनं च पदार्थानां भावप्राप्तिवशात्पुनः ।आत्मविद्याशिवव्याप्तिं एवं ज्ञात्वा तु योजयेथ् ॥२३३॥तद्विभागं प्रवक्ष्यामि यथा ज्ञायेत तत्त्वतः ।षट्त्रिंशदङ्गुलश्चारो हृत्पद्माद्यावशक्तितः ॥२३४॥तुटिषोडशमानेन कालेन कलितः प्रिये ।संचरन्तं विभागेन यथावत्तं शृणुष्व मे ॥२३५॥हृत्पद्माद्यावदयनं भागमेकं त्यजेत्तु सः ।नासिकाग्रे द्वितीयं तु शक्त्यन्ते तु तृतीयकं ॥२३६॥तत्रस्थो विनिवर्तेत यावत्तत्त्वं न विन्दति ।विदिते तु परे तत्त्वे तत्रस्थोऽपि न बाध्यते ॥२३७॥शक्त्या चाधो यदा गच्छेदबुधस्तु तदा भवेथ् ।हृद्गतः पुनरुत्तिष्ठेद्बुध्यमानः स उच्यते ॥२३८॥शक्तिं प्राप्य बुधो ज्ञेयः व्यापिन्यंशे प्रबुद्धता ।अतीतः सुप्रबुद्धस्तु उन्मनस्त्वं तदा भवेथ् ॥२३९॥न कालो न कला चारो न तत्त्वं नच कारणं ।सुनिर्वाणं परं शुद्धं गुरुपारम्परागतं ॥२४०॥तद्वोदित्वा विमुच्येत गत्वा भूयो न जायते ।अध्वष्ट्कं यथा प्राणे संस्थितं कथयामि ते ॥२४१॥आपादान्मूर्धपर्यन्तं चितेः संवेदनं हि यथ् ।भुवनाध्वा स विज्ञेयस्तत्त्वाध्वा च तथैव हि ॥२४२॥कलाकलितसंतानः प्राणः संचरते सदा ।निवृत्तिश्च प्रतिष्ठा च अधोभागे प्रवर्तिके ॥२४३॥विद्या शान्तिस्तथा चोर्ध्वे शान्त्यतीता त्वधिष्ठिका ।तदतीतः परो भावः तदूर्ध्वम्. पदमव्ययं ॥२४४॥एवं बिन्दुकला ज्ञेया नादशक्त्यात्मिकाश्च याः ।व्यापिन्याद्यात्मिका याश्च व्याप्यव्यापकभेदतः ॥२४५॥प्राणैकसंस्थिताः सर्वाः षट्त्यागात्सप्तमे लयः ।कलाध्वैवं समाख्यातो वर्णाध्वानं निबोध मे ॥२४६॥वर्णाः शब्दात्मकाः सर्वे जगत्यस्मिंश्चराचरे ।स्थिताः पञ्चशता भेदैः शास्त्रेष्वानन्त्यकोटिषु ॥२४७॥शब्दात्प्राणः समाख्यातस्तस्माद्वर्णास्तु प्राणतः ।उत्पद्यन्ते लयं यान्ति यत्र शब्दो लयं गतः ॥२४८॥शब्दातीतो वरारोहे तत्त्वेन सह युज्यते ।युक्तः सर्वगतो देवि धर्माधर्मविवर्जितः ॥२४९॥नाधो निरीक्षते भूयः शिवतत्त्वं गतो यदा ।अधो वै यात्यधर्मेण धर्मेणोर्ध्वं व्रजेत्पुनः ॥२५०॥विज्ञानेन द्वयं त्यक्त्वा सर्वगस्तु भवेदिह ।वर्णाध्वैवं समाख्यातः पदाध्वा प्रोच्यतेऽधुना ॥२५१॥एकाशीतिपदान्येव विद्याराजस्थितान्यपि ।वर्णात्मकानि तान्यत्र वर्णाः प्राणात्मकाः स्थिताः ॥२५२॥तस्मादेवं पदान्यत्र तानि प्राणक्रमेण तु ।पदाध्वैवं समाख्यातः मन्त्राध्वानं निबोध मे ॥२५३॥मन्त्रिकादशिका या तु सा च हंसे व्यवस्थिता ।पदिकादशिका सा च प्राणे चरति नित्यशः ॥२५४॥अकारश्च उकारश्च मकारो बिन्दुरेव च ।अर्धचन्द्रो निरोधी च नादो नादान्त एव च ॥२५५॥शक्तिश्च व्यापिनी चैव समनैकादशी स्मृता ।उन्मना च ततोऽतीता तदतीतं निरामयं ॥२५६॥मन्त्रा एवं स्थिताः प्राणे हंसोच्चारस्तथोच्यते ।हकारस्तु स्मृतः प्राणः स्वप्रवृत्तो हलाकृतिः ॥२५७॥अकारेण यदा युक्त उकारचरणेन तु ।मकारमात्रया युक्तो वर्णोच्चारो भवेत्स्फुटः ॥२५८॥बिन्दुः शिरःसमायोगात्सुस्वरत्वं प्रपद्यते ।नादोऽस्य वदनं प्रोक्तः वदनं शब्दमीरयेथ् ॥२५९॥अनेनैव च योगेन हंसः पुरुष उच्यते ।ब्रह्मविष्ण्वीशमार्गेण चरन्वै सर्वजन्तुषु ॥२६०॥शक्तितत्त्वे लयं याति विज्ञानेनोर्ध्वतां व्रजेथ् ।व्यापिनीं समनां त्यक्त्वा व्रजेदुन्मनया शिवं ॥२६१॥शिवतत्त्वगतो हंसो न चरेत्व्यापको भवेथ् ।हंसोच्चारः समाख्यातः कारणैश्च समन्वितः ॥२६२॥हकारः प्राणशक्त्यात्मा अकारो ब्रह्मवाचकः ।हृदि त्यागो भवेत्तस्य उकारो विष्णुवाचकः ॥२६३॥कण्ठे त्यागो भवेत्तस्य मकारो रुद्रवाचकः ।तालुमध्ये त्यजेत्तं तु बिन्दुश्चैवेश्वरः स्वयं ॥२६४॥त्यागस्तत्र भ्रुवोर्मध्ये नादे वाच्यः सदाशिवः ।ललाटान्मूर्धपर्यन्तं त्यागस्तस्य विधीयते ॥२६५॥शक्तिव्यापिनीसमनास्तासां वाच्यः शिवोऽव्ययः ।मूर्धमध्ये त्यजेच्छक्तिं तदूर्ध्वे व्यापिनीं त्यजेथ् ॥२६६॥समनां उन्मनां त्यक्त्वा षट्त्यागात्सप्तमे लयः ।सूक्ष्मसूक्ष्मतरैर्भावैरेवमेवं त्यजेत्प्रिये ॥२६७॥स्थूलस्थूलतरैर्भावैर्नानासिद्धिफलप्रदैः ।सूक्ष्मोऽत्यन्तं परो भावस्त्वभावः स विधीयते ॥२६८॥उन्मना त्वपरो भावः स्थूलस्तस्यापरो मतः ।तस्यापरं पुनः शून्यं संस्पर्शं च ततोऽपरं ॥२६९॥शब्दो ज्योतिः ततो मन्त्राः कारणा भुवनानि च ।पञ्चभूतात्मभुवनं कारणैः समधिष्ठितं ॥२७०॥भुवनं चिन्तयेद्यस्तु वक्ष्यमाणैकरूपकं ।भुवनेशत्वमाप्नोति शिवं ध्यात्वा तु तन्मयः ॥२७१॥ब्रह्मादिकारणानां च साधने विग्रहं स्मरन् ।पूर्वोक्तलक्षणं यश्च तन्मयत्वमवाप्नुयाथ् ॥२७२॥मन्त्रिश्च मन्त्रसिद्धिस्तु जपहोमार्चनाद्भवेथ् ।पूर्वोक्तरूपकध्यानात्सिद्ध्यन्त्यत्र न संशयः ॥२७३॥ज्योतिर्ध्यानात्तु योगीन्द्रो योगसिद्धिमवाप्नुयाथ् ।तन्मयत्वं यदाप्नोति योगिनामधिपो भवेथ् ॥२७४॥शब्दध्यानाच्च शब्दात्मा वाङ्मयापूरको भवेथ् ।स्पर्शध्यानाच्च स्पर्शात्मा जगतः कारणं भवेथ् ॥२७५॥शून्यध्यानाच्च शून्यात्मा व्यापी सर्वगतो भवेथ् ।समनध्यानयोगेन योगी सर्वज्ञतां व्रजेथ् ॥२७६॥उन्मन्या तु परं सूक्ष्मं अभावं भावयेत्सदा ।सर्वेन्द्रियमनोतीतस्त्वलक्ष्योऽभाव उच्यते ॥२७७॥अभावं भाव्यं भावेन भावं कृत्वा निराश्रयं ।सर्वोपाधिविनिर्मुक्तं अभावं लभते पदं ॥२७८॥एष ते कारणत्यागः कालत्यागं निबोध मे ।तुटिषोडशसंयुक्तः प्राणस्तु समुदाहृतः ॥२७९॥तुटद्वयं समाश्रित्य एकैको भैरवः स्थितः ।अहोरात्रविभागेन कुर्वन्त्युदयमेव ते ॥२८०॥नवमस्तु परो देवः तेजसस्तूदयन्ति ते ।सर्वं कालं त्यजेत्प्राणे यथावत्कथयामि ते ॥२८१॥तुटयः षोडशैवोक्ताः कालस्य करणं तु ताः ।तदादिः संस्थितः कालः सर्वं चरति वाङ्मयं ॥२८२॥तुटिर्लवो निमेषश्च काष्ठा चैव कला तथा ।मुहूर्तश्चाप्यहोरात्रः पक्षो मास ऋतुस्तथा ॥२८३॥अयनं वत्सरश्चैव युगं मन्वन्तरं तथा ।कल्पश्चैव महाकल्पः शक्त्यन्ते तं परित्यजेथ् ॥२८४॥व्यापिन्यन्ते परः कालः स तदङ्गी त्यजेत्तु तं ।स च सप्तदशो ज्ञेयः परार्धपरतः स्थितः ॥२८५ ॥सोऽपि चाष्टादशो देवि समनान्ते तु तं त्यजेथ् ।सर्वकालं तु कालस्य व्यापकः परमोऽव्ययः ॥२८६॥उन्मन्यन्ते परे योज्यो न कालस्तत्र विद्यते ।नित्यो नित्योदितो व्यापी आदिरूपं न संत्यजेथ् ॥२८७॥तं च नित्योदितं प्राप्य तन्मयो जायते सदा ।कालत्यागो भवेदेवं शून्यभावस्त्वथोच्यते ॥२८८॥ऊर्ध्वशून्यमधःशून्यं मध्यशून्यं तृतीयकं ।शून्यत्रयं चलं ह्येतत्तदधो मध्य ऊर्ध्वतः ॥२८९॥चतुर्थं व्यापिनीशून्यं समनायां च पञ्चमं ।उन्मनायां तथा षष्ठं षडेते सामयाः स्थिताः ॥२९०॥तत्त्वेनाधिष्ठिताः सर्वे सामया अपि सिद्धिदाः ।षट्शून्यानि परित्यज्य सप्तमे तु लयं कुरु ॥२९१॥तच्छून्यं तु परं सूक्ष्मं सर्वावस्थाविवर्जितं ।अशून्यं शून्यमित्युक्तं शून्यं चाभाव उच्यते ॥२९२॥अभावः स समुद्दिष्टो यत्र भावाः क्षयं गताः ।सत्तामात्रं परं शान्तं तत्पदं किमपि स्थितं ॥२९३॥यत्र यत्र च नादादि- स्थूला अन्येऽपि संस्थिताः ।तत्र तत्र परं शून्यं सर्वं व्याप्य व्यवस्थितं ॥२९४॥तदेव भवति स्थूलं स्थूलोपाधिवशात्प्रिये ।स्थूलसूक्ष्मप्रभेदेन तदेकं संव्यवस्थितं ॥२९५॥तत्प्राप्य तन्मयत्वं च लभते नात्र संशयः ।शून्यभावः समाख्यातः सामरस्यं निबोध मे ॥२९६॥आत्मन्येकः समरसो मन्त्रे ज्ञेयो द्वितीयकः ।तृतीयं नाडिगं कुर्याच्छक्तौ कुर्याच्चतुर्थकं ॥२९७॥व्यापिन्यां पञ्चमं प्रोक्तं समनायां तु षष्ठकं ।तात्वः समरसो देवि सप्तमस्तु विधीयते ॥२९८॥शिष्यात्मानं तु संगृह्य पूर्वोक्तविधिना क्रमाथ् ।पश्चादात्मनि संयोज्य लोलीभूतं विचिन्तयेथ् ॥२९९॥पूरकं कुम्भकं कृत्वा समानेन निरोधयेथ् ।यावत्यो नाडयो देवि तिर्यगूर्ध्वमधःस्थिताः ॥३००॥समानेन समाकृष्टा एकीभूता भवन्ति ताः ।तासु ये वायवस्तेऽपि प्राणे समरसीगताः ॥३०१॥नाडयस्तु सुषुम्नायां एकीभूता व्यवस्थिताः ।ततो वै उच्चरेन्मन्त्रः नादे लीनं विचिन्तयेथ् ॥३०२॥मन्त्र आत्मा तथा नाडी एवं समरसीभवेथ् ।वामदक्षिणमध्ये तु ततो नादं प्रमोचयेथ् ॥३०३॥सेतुबन्धं च तं मार्गं यत्र गत्वा न जायते ।ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरः शिव एव च ॥३०४॥एतेऽत्र समतां यान्ति अन्यथा तु पृथक्पृथक् ।तस्मिन्समुच्चरेन्नादं यावच्छक्तौ लयं गतः ॥३०५॥शक्तिमध्यगतो नादः शक्त्यात्मा तु विधीयते ।सर्वं शक्तिमयं तत्र सर्वं समरसीभवेथ् ॥३०६॥तदूर्ध्वं व्यापिनीं प्राप्य सर्वं तन्मयतां व्रजेथ् ।समन्ताद्व्याप्नुयाद्यस्माद्व्यापिनीत्यभिधीयते ॥३०७॥तदूर्ध्वं समनां व्याप्य तन्मयत्वं व्रजेत्पुनः ।सा च सर्वगता ज्ञेया सामरस्येन संस्थिता ॥३०८॥षष्ठं समरसं त्यक्त्वा सप्तमं तु ततो व्रजेथ् ।तं प्राप्य तन्मयत्वं हि नात्र कार्या विचारणा ॥३०९॥स च सर्वेषु भूतेषु भावतत्वेन्द्रियेषु च ।स्थावरं जङ्गमं चैव चेतनाचेतनस्थितं ॥३१०॥अध्वानं व्याप्य सर्वं तु सामरस्येन संस्थितः ।प्रसह्य चञ्चलीत्येव योगिनामपि यन्मनः ॥३११॥यस्य ज्ञेयमयो भावः स्थिरः पूर्णः समन्ततः ।मनो न चलते तस्य सर्वावस्थागतस्य तु ॥३१२॥यत्र यत्र मनो याति ज्ञेयं तत्रैव चिन्तयेथ् ।चलित्वा यास्यते कुत्र सर्वं शिवमयं यतः ॥३१३॥विषयेषु च सर्वेषु इन्द्रियार्थेषु च स्थितः ।यत्र यत्र निरूप्येत नाशिवं विद्यते क्वचिथ् ॥३१४॥एवां समरसं ज्ञात्वा नासौ मुह्येत्कदाचन ।यस्यैवं सर्वतो भावः सोऽपि सर्वगतो भवेथ् ॥३१५॥एवं समरसः प्रोक्तो विषुवत्तु निबोध मे ।प्रथमं प्राणविषुवन्मात्रं ज्ञेयं द्वितीयकं ॥३१६॥तृतीयं नाडिविषुवत्प्रशान्तं च चतुर्थकं ।पञ्चमं शक्तिविषुवत्षष्ठं वै काल उच्यते ॥३१७॥सप्तम तत्त्वविषुवत्प्रविभागस्त्वथोच्यते ।आत्मानं च मनः प्राणे संयोज्य विषुवद्भवेथ् ॥३१८॥प्राणे विषुवदाख्यातं मान्त्रं विषुवदुच्यते ।मन्त्रमुच्चारयेत्तावद्यावन्नान्यमना भवेथ् ॥३१९॥परापरविभागेन मन्त्रात्मा तु तदुच्यते ।मान्त्रं विषुवदित्युक्तं नाडिस्थं तन्निबोध मे ॥३२०॥सर्वासामेव नाडीनां मध्ये या संव्यवस्थिता ।सुषुम्ना नाम सा ज्ञेया नाभेः शक्त्या शिवं गता ॥३२१॥तत्र प्रवाहयेन्नादं नाडीविषुवदुच्यते ।प्रशान्तं विषुवच्चैवं अधुना कथयामि ते ॥३२२॥अयने षडङ्गुलश्चारः कारणान्यङ्गुलेऽङ्गुले ।तान्यधस्तात्परित्यज्य कारणानि षडेव तु ॥३२३॥सप्तमे तु प्रशान्तं वै प्रशान्तेन्द्रियगोचरं ।प्रशान्तः स्तिमितो ज्ञेयः स्तिमितो निश्चलः स्मृतः ॥३२४॥निश्चलो निस्तरङ्गश्च स्थिरः पूर्णः समन्ततः ।एवंभावं समास्थाय दीक्षा कार्या तु दैशिकैः ॥३२५॥एतत्प्रशान्तविषुवत्शक्त्युपाधिं निबोध मे ।शक्तिमध्यगतो नादो नादोर्ध्वं च चरेद्यदा ॥३२६॥तावत्तु शक्तिविषुवत्कालाख्यं तु निबोध मे ।तुटिः षोडशका या तु प्राणान्ते संव्यवस्थिता ॥३२७॥कालो भ्रूक्षेपमात्रस्तु तत्रान्ते कीर्तितो मया ।तं परापरभागेन पुनरेव त्रिधा कुरु ॥३२८॥अपरः षोडशो यावत्कालः सप्तदशः परः ।परापरस्तु यः कालः स प्रियेऽष्टादशः प्रभुः ॥३२९॥प्राण एवं त्रिधा कालं कृत्वा चैव त्यजेत्पुनः ।अपरः शक्तिमूर्धस्थो व्यापिन्यां च द्वितीयकः ॥३३०॥तृतीयः समनास्थाने तत्कालविषुवत्स्मृतं ।एतत्षष्ठं समाख्यातं सप्तमं तात्व्वमुच्यते ॥३३१॥उन्मना परतो देवि तत्रात्मानं नियोजयेथ् ।तस्मिन्युक्तस्ततो ह्यात्मा तन्मयश्च प्रजायते ॥३३२॥तत्त्वाख्यं विषुवद्देवि सर्वेषां परतः स्थितं ।विषुवदेवंविधं ज्ञात्वा को न मुच्येत बन्धनाथ् ॥३३३॥विषुवत्ते समाख्यातं पदार्थभेदनं शृणु ।त्यागं चानुभवं चैव योजनं च परे पदे ॥३३४॥पदार्थैकादशी ज्ञेया उन्मनान्तः परो भवेथ् ।भेदयेज्ज्ञानशूलेन ज्ञानं ज्ञेयस्य ज्ञापकं ॥३३५॥ज्ञापकं बोधमतुलं दीपवद्योतनं यतः ।दीपहस्तो यथा कश्चिद्द्रव्यमालोक्य चाहरेथ् ॥३३६॥एवं ज्ञानेन च ज्ञेयं तस्मिन्कुर्यात्तु संस्थितं ।ज्ञानं वै लक्षणं प्रोक्तं ज्ञेयतत्वस्य सुव्रते ॥३३७॥लक्षणं गुण आख्यातः कला तत्त्वस्य सर्वदा ।न गुणेन विना तत्त्वं न तत्त्वेन विना गुणः ॥३३८॥गुणं गृह्णन्ति सर्वत्र न तत्त्वं गृह्यते क्वचिथ् ।गृह्यते ह्यनुमानेन प्रत्यक्.आनुभवेन च ॥३३९॥अर्थिप्रत्यर्थिभावेन आगमेन तु लभ्यते ।आगमो ज्ञानमियुक्तं अनन्ताः शास्त्रकोटयः ॥३४०॥शास्त्रं शब्दात्मकं सर्वं शब्दो हंसः प्रकीर्तितः ।हंसयोगः पुराख्यातः मात्रासंख्या त्वथोच्यते ॥३४१॥मात्रायोगो यथा चास्य प्रमाणं हृदयादिस्.उ ।नाभेरूर्ध्वं वितस्त्यन्ते कण्ठाधस्तात्षडङ्गुले ॥३४२॥हृदयं मध्यदेशे तु चतुरङ्गुलसंमितं ।चतुर्विंशतितत्त्वैस्तु ब्रह्मा तत्र व्यवस्थितः ॥३४३॥कण्ठमष्टाङ्गुलं विद्धि विष्णुस्तत्र व्यवस्थितः ।तत्त्वाष्टकेन संयुक्तः तदूर्ध्वं चतुरङ्गुलं ॥३४४॥मायातत्त्वं समाश्रित्य रुद्रस्तालुतले स्थितः ।अङ्गुलद्वयमानं तु भ्रुवोर्मध्यं प्रकीर्तितं ॥३४५॥तत्रेश्वरः स्थितो देवि तत्त्वद्वयसमन्वितः ।एकादशाङ्गुले चैव मूर्ध्वं देवः सदाशिवः ॥३४६॥तत्त्वद्वयसमायुक्तो यावद्ब्रह्मबिलं गतः ।तदूर्ध्वैकाङ्गुला शक्तिः शिवस्तत्र व्यवस्थितः ॥३४७॥त्वक्छेषे व्यापिनी प्रोक्ता समना चोन्मना ततः ।तत्परं तु परं तत्त्वं प्रमाणपरिवर्जितं ॥३४८॥मात्रासंख्या च योगश्चा- धुना हंसस्य कथ्यते ।अकारश्च हकारश्च द्वावेतावेकतः स्थितौ ॥३४९॥विभक्तिर्नानयोरस्ति मारुताम्बरयोरिव ।एकमात्रः स विज्ञेयो हृदयात्संप्रवर्तते ॥३५०॥उकारस्तु द्विमात्रो वै कण्ठस्थाने समुच्चरेथ् ।त्रिमात्रस्तु मकारो वै तालुमध्यगतश्चरेथ् ॥३५१॥बिन्दुश्चैवार्धमात्रस्तु मात्रार्धं हि स उच्यते ।भ्रुवोर्मध्ये स उच्चारस्तस्य देवि विधीयते ॥३५२॥तच्छेषाच्चार्धचन्द्रस्तु पादमात्रस्त्वसौ भवेथ् ।निरोधी चार्धपादस्तु ललाटान्ते समुच्चरेथ् ॥३५३॥नादः षोडशकांशस्तु मूर्धान्तं यावदुच्चरेथ् ।द्वात्रिंशदंशा शक्तिस्तु षट्त्रिंशान्ते समुच्चरेथ् ॥३५४॥व्यापिनी चतुःषष्ट्यंशा शक्तेस्तु परतःस्थिता ।समना चोन्मना चोर्ध्वं अमात्रः परमोऽव्ययः ॥३५५॥मात्रासंख्या च योगश्च प्रमाणं परिकीर्तितं ।एवं ज्ञात्वा वरारोहे पदार्थान्भेदयेत्ततः ॥३५६॥भेदयेन्मत्रशूलेन मुद्राभावयुतेन च ।मन्त्रो वै ज्ञानशक्तिश्च मुद्रा चैव क्रियात्मिका ॥३५७॥भावश्च मन इत्युक्तं तन्मनो बुद्धिपूर्वकं ।परश्च मनसा गम्य इच्छाशक्त्या त्वधिष्ठितः ॥३५८॥यत्र यत्र भवेदिच्छा ज्ञानं तत्र प्रवर्तते ।क्रियाकरणसंबन्धात्तत्त्वस्योच्चारणं भवेथ् ॥३५९॥क्रियाकरणहीनस्य न चैवोच्चारणं भवेथ् ।क्रिया करणभेदेन सा चैव त्रिविधा स्मृता ॥३६०॥एकेनोच्चारयेत्तत्त्वं करणेन विचक्षणः ।नाडीश्चाथ द्वितीयेन द्वाराणि च निरोधयेथ् ॥३६१॥तृतीयं करणं दिव्यं कृत्वा वै तत्त्वमुच्चरेथ् ।पूरकं कुम्भकं कृत्वा सर्वद्वाराणि रोधयेथ् ॥३६२॥गुदद्वारेण रुद्धेन रुद्धान्यत्र भवन्ति हि ।द्वारमेकं ततश्चोर्ध्वे प्रवहत्तद्विचिन्तयेथ् ॥३६३॥नाडयो ग्रन्थिपद्माश्च येऽधोमुखगताः प्रिये ।ते कुम्भकेन संरुद्धा विकसन्ति समन्ततः ॥३६४॥करणं तु ततः कृत्वा लक्षणं तस्य वै शृणु ।जिह्वा तु तालुके योज्या किंचिदूर्ध्वं न संस्पृशेथ् ॥३६५॥ईषत्प्रसार्य वक्त्रं तु किंचिदोष्ठौ न संस्पृशेथ् ।दन्तपङ्क्ती तथैवेह दृष्टिश्चाधोर्ध्ववर्जिता ॥३६६॥कायं समुन्नतं कृत्वा करणं दिव्यमुच्यते ।दिव्यं च करणं कृत्वा तत्त्वस्योच्चारणं कुरु ॥३६७॥कुम्भितश्चैव यः प्राणो रेचयेत्तं शनैः शनैः ।नाडयो ग्रन्थिपद्माश्च देहे याःसंव्यवस्थिताः ॥३६८॥रेचकेन समाक्षिप्ता ऊर्ध्वस्रोतो भवन्ति ते ।ततो वै ज्ञानशूलेन ग्रन्थीन्भिन्दन्समुच्चरेथ् ॥३६९॥भित्वा हृत्पद्मग्रन्थिं तु ततः शब्दः प्रजायते ।यदाकाशसमायोगात्घोषशब्दोपमो भवेथ् ॥३७०॥कण्ठस्थो विरमेच्छब्दः कण्ठं प्राप्य वरानने ।भिन्दतः कण्ठदेशं तु शब्दो धुगधुगायते ॥३७१॥तालुमध्यगतः प्राणो यदा भवति सुव्रते ।बिन्दतस्तालुग्रन्थिं तु शब्दो घुमघुमायते ॥३७२॥एवं तेऽनुभवाः प्रोक्ताः प्राणे चरति सुव्रते ।त्रयस्तेऽष्टकलाः प्रोक्ता उपर्युपरितः क्रमाथ् ॥३७३॥तिष्ठेत्स यत्र वै प्राण आत्मा तद्गतिमाप्नुयाथ् ।तत्तद्रूपं भवेत्तस्य स्थानभावानुरूपतः ॥३७४॥भ्रुवोर्मध्यं यदा गच्छेत्स्फोटशब्दस्तु जायते ।बिन्दुं भेदयतो देवि शब्दो धुमधुमायते ॥३७५॥कपिर्वै नारिकीलेन आचार्यः सह बिन्दुना ।अभिन्नेन कुतो मोक्षं सबाह्याभ्यन्तरं प्रिये ॥३७६॥भित्वा बिन्दुं ततो देवि अर्धचन्द्रं विभेदयेथ् ।भिद्यतश्चार्धचन्द्रस्य ललाटे झिमिझिमायते ॥३७७॥अर्धचन्द्रं तु भित्त्वा वै भेदयेत्तु निरोधिनीं ।तस्यास्तु भिद्यमानायाः शब्दः सिमिसिमायते ॥३७८॥स्थनत्रयमिदं देवि पञ्चपञ्चकलान्वितं ।प्राणस्य चरतस्तत्र यस्मिन्स्थाने स तिष्ठति ॥३७९॥तत्तद्रूपो भवेदात्मा तां तां गतिमवाप्नुयाथ् ।निरोधिनीं भेदयित्वा ततो नादं व्रजेद्बुधः ॥३८०॥वंशशब्दसमः शब्दस्तत्र सूक्ष्मः प्रजायते ।भेदयेन्नादसंस्थानं ब्रह्मरन्ध्रं सुदुर्भिदं ॥३८१॥भिद्यतो ब्रह्मरन्ध्रस्य शब्दः शुमशुमायते ।शक्तिमध्यगतः प्राणो वंशनादान्तसंनिभः ॥३८२॥तां वै तु भेदयेच्छक्तिं दुर्भेद्यां सर्वयोगिनां ।भिद्यते च यदा शक्तिः शान्तः शुमशुमस्ततः ॥३८३॥शक्तिं भित्वा ततो देवि यच्छेषं व्यापिनी भवेथ् ।अनुभावो बवेत्तत्र स्पर्शो यद्वत्पिपीलिका ॥३८४॥स्थानत्रयमिदं देवि पञ्चपञ्चकलान्वितं ।यत्र यत्र चरेत्प्राणस्तत्तद्रूपमवाप्नुयाथ् ॥३८५॥यत्र यत्रावतिष्ठेत तां तां गतिमवाप्नुयाथ् ।तस्माद्वै सुप्रयत्नेन भित्वा याति परां गतिं ॥३८६॥भित्वा वै व्यापिनीं देवि समनायां मनस्त्यजेथ् ।मनसा तु मनस्त्यक्त्वा जीवः केवलतां व्रजेथ् ॥३८७॥जीवो वै केवलस्तत्र आत्मज्ञानक्रियान्वितः ।बन्धनाशेषनिर्मुक्तः सत्तामात्रस्वरूपकः ॥३८८॥समस्ताध्वपदातीतः शुद्धविज्ञानकेवलः ।गृहाणाति नापरं भावं न परं च शिवात्मकं ॥३८९॥परापरविनिर्मुक्तः स्वात्मन्यात्मा व्यवस्थितः ।आत्मव्याप्तिर्भवेदेषा शिवव्याप्तिरतः परं ॥३९०॥बन्धनाशेषभावेन सर्वाध्वोपाधिवर्जिता ।अविदित्वा परं तत्त्वं शिवत्वं कल्पितं तु यैः ॥३९१॥त आत्मोपासकाः शैवे न गच्छन्ति परं शिवं ।आत्मतत्त्वगतिं यान्ति आत्मतत्त्वानुरञ्जिताः ॥३९२॥तस्मादात्मा परित्याज्यो यदीच्छेच्छिवमात्मनः ।आत्मतत्त्वं ततस्त्याज्यं विद्यातत्वे नियोजयेथ् ॥३९३॥उन्मना सा तु विज्ञेया मनः संकल्प उच्यते ।संकल्पः क्रमतो ज्ञानं उन्मानं युगपत्स्थितं ॥३९४॥तस्मात्सा तु परा विद्या यस्मादन्या न विद्यते ।विन्दते ह्यत्र युगपत्सार्वज्ञ्यादिगुणान्परान् ॥३९५॥वेदनानादिधर्मस्य परमात्मत्वबोधना ।वर्जना परमात्मत्वे तस्माद्विद्येति सोच्यते ॥३९६॥तत्रस्थो व्यञ्जयेत्तेजः परं परमकारणं ।परस्मिंस्तेजसि व्यक्ते तत्रस्थः शिवतां व्रजेथ् ॥३९७॥सुप्रदीप्ते यथा वह्नौ शिखा दृश्येत चाम्बरे ।देहप्राणस्थितो ह्यात्मा तद्वल्लीयेत तत्पदे ॥३९८॥तद्वदेवाभिमानस्तु कर्तव्यो दैशिकोत्तमैः ।अहमेव परो हंसः शिवः परमकारणं ॥३९९॥मत्प्राणे स तु पश्वात्मा लीनः समरसीगतः ।मन्त्रकरणक्रियायोगाद्योजयामि परे शिवे ॥४००॥एवं यो वेत्ति तत्त्वेन अग्निवद्देहमध्यतः ।यद्वद्वह्निशिखातीता तद्वद्योजयते परे ॥४०१॥तस्मिन्युक्तः परे तत्त्वे सार्वज्ञ्यादिगुणान्वितः ।शिव एको भवेद्देवि अविभागेन सर्वतः ॥४०२॥तत्त्वत्रयं परं ख्यातं अपरं चाध्वमध्यगं ।भेदनं तु पदार्थानां त्यागानुभवयोजनं॥ ४०३॥पूर्वोक्तं च इदं सर्वं ज्ञात्वा तत्त्वे नियोजयेथ् ।संक्षेपेण तु तत्त्वस्य व्याप्तिं शृणु सुरेश्वरि ॥४०४॥विद्यातत्त्वास्पदं बद्ध्वा बिन्दुतत्त्वासने स्थितः ।नादशक्तितनुश्चैव व्यापिनीकरणान्वितः ॥४०५॥सर्वज्ञत्वावबोधेन समनान्तश्चरा तु सा ।त्रितत्वं यत्परं प्रोक्तं तेन चापूरिता तनुः ॥४०६॥अपरा सा तनुः स्थूला षट्विंशत्तत्त्वकल्पिता ।तत्त्वत्रयं परं यच्च सर्वतत्त्वाध्ववर्जितं॥ ४०७॥तेन चापूरिताशेषं सा तत्त्वाध्वपरा तनुः ।एवमाचरते यस्तु आचारं तु शिवात्मकं॥ ४०८॥शिवेन सहचारित्वादाचार्यस्तेन चोच्यते ।तस्य दर्शनसंभाषा- स्पर्शनात्स्मरणादपि ॥४०९॥भवत्येवैश्वरी व्याप्तिर्न भवेत्तदधोगतिः ।तेन संयोजितो जन्तुः ब्रह्महापि शिवो भवेथ् ॥४१०॥ततस्तेन समो नास्ति जगत्यस्मिंश्चराचरे ।शिव आचार्यरूपेण लोकानुग्रहकारकः ॥४११॥तस्मान्न मानवीं बुद्धिं कारयेद्देशकं प्रति ।आचार्यस्य च मन्त्रस्य शिवज्ञाने शिवस्य च ॥४१२॥नानात्वं नैव कुर्वन्ति विद्येशाश्चक्रनायकाः ।ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वै वीरवन्दिते ॥४१३॥आचार्यत्वे नियुक्ता ये ते सर्वे तु शिवाः स्मृताः ।अन्यथा प्राक्स्वरूपेण ये पश्यन्ति नराधमाः ॥४१४॥नरके ते प्रपच्यन्ते सादाख्यं वत्सरत्रयं ।न तेन सह संभाषा कर्तव्या तु शिवार्थिना ॥४१५॥कृत्वा संभाषणं तेन नरकं सोऽपि गच्छति ।तस्माच्छिवसमाः सर्वे द्रष्टव्या मुक्तिमिच्छता ॥४१६॥भुक्तिमुक्तिफलावाप्तिर्भवत्येव तदाज्ञया ।आचार्यः स्वजानानां च कुलकोटिसहस्रशः ॥४१७॥ज्ञानज्ञेयपरिज्ञानात्समस्तास्तारयिष्यति ।एवमुक्तविधानज्ञो भावज्ञश्चापि दैशिकः ॥४१८॥पूर्णाहुत्यैकयैवासौ पशून्योजयते परे ।पूर्णाहुतिप्रयोगं तु कथयाम्यधुना तव ॥४१९॥ऊर्ध्वकाय ऋजुग्रीवः समपादो व्यवस्थितः ।नाभिस्थाने स्रुचो मूलं उत्तानाग्रमुखं समं॥ ४२०॥स्रुच्युपरि स्रुवं देवि कृत्वा चैवमधोमुखं ।पुष्पं दत्त्वा स्रुगग्रे तु दर्भेण सहितौ करौ ॥४२१॥मुष्टिना चैव हस्ताभ्यां गृहीत्वा यत्नतोऽपि च ।अग्रतो दक्षिणं हस्तं वामं वै पृष्टतः प्रिये ॥४२२॥मुष्टिभ्यां संगृहीत्वा वै उत्तानकरयोगतः ।ततो घृतेन संप्लाव्य अभिमानं तु कारयेथ् ॥४२३॥अहमेव परं तत्त्वं परापरविभागतः ।तत्त्वमेकं हि सर्वत्र नान्यं भावं तु कारयेथ् ॥४२४॥यत्कुम्भेऽध्वात्र विन्यस्तः षट्प्रकारो वरानने ।मण्डलेऽग्नौ शिशोरन्तः साधारणविकल्पितः ॥४२५॥स्रुच्यध्वानं तमारोप्य प्राणस्थं नाडिमध्यगं ।प्राणधारे समीकृत्य स्रुचा धारां विनिक्षिपेथ् ॥४२६॥वसुधारप्रयोगेण प्रक्षिपेज्जातवेदसि ।नाभिस्थाने स्रुचो मूलं नयन्नासान्तगोचरं॥ ४२७॥यथा यथा त्यजेद्धारां तथा प्राणं समुच्चरेथ् ।प्राणोऽपि वर्णतां याति षड्विधाध्वमयस्तु सः ॥४२८॥षड्विधेध्वनि नातोऽन्यः प्रमेयो विद्यते क्वचिथ् ।तस्मान्मान्त्रे परामर्शे हेयोपादेयतः स्थिताः ॥४२९॥वर्णैः कारणषट्कं तु षट्त्यागात्सप्तमे लयः ।अकारश्च उकारश्च मकारो बिन्दुरेव च ॥४३०॥अर्धचन्द्रो निरोधी च नादश्चैवोर्ध्वगामिनी ।शक्तिश्च व्यापिनी ह्येताः समना च ततः परं॥ ४३१॥समनान्तं वरारोहे पाशजालमनन्तकं ।कारणैः षड्भिराक्रान्तं मन्त्रस्थं हेयलक्षणं॥ ४३२॥अत्र पाशोपरि ह्यात्मा व्योमवद्बिन्दु[च्चित्सु]निर्मलः ।शिवतत्त्वगुणामोदाच्छिवधर्मावलोककः ॥४३३॥पाशावलोकनं त्यक्त्वा स्वरूपालोकनं हि यथ् ।आत्मव्याप्तिर्भवेदेषा शिवव्याप्तिस्ततोऽन्यथा ॥४३४॥सर्वज्ञ्यादिगुणा येऽर्था व्यापकान्भावयेद्यदा ।शिवव्याप्तिर्भवेदेषा चैतन्ये हेतुरूपिणी ॥४३५॥अतो धर्मिस्वभावो हि शिवः शान्तश्च पठ्यते ।उन्मनाश्च मनोग्राह्यः आत्मबोधे स्थितोन्मनाः ॥४३६॥व्यापारं मानसं त्यक्त्वा बोधरूपेण योजयेथ् ।तदा शिवत्वमायाति पशुर्मुक्तो भवार्णवाथ् ॥४३७॥परे चैव नियुक्तस्य स्रुवमापूरयेत्पुनः ।स्रुचो रन्ध्रेण तद्द्रव्यं यावद्वह्नौ प्रयुज्यते ॥४३८॥बहिस्थां कुम्भकं तावत्परे तत्त्वे तु भावयेथ् ।बहिर्निरोधभावेन सामरस्यं शिवेन च ॥४३९॥अन्यथा न भवेद्देवि नदीवेग इवार्णवे ।स्थितः स सागरेद्भिस्तु सिन्धुः समरसीभवेथ् ॥४४०॥पुनर्विभागं नाप्नोति तथात्मा तु शिवार्णवे ।स्रुचस्तु पूरणं यावत्तावत्कालं समादिशेथ् ॥४४१॥अनेनैव तु कालेन बहिः कुम्भकवृत्तिना ।आत्मा समरसत्वेन शिवीभवति सर्वगः ॥४४२॥गुणानापादयेत्पश्चात्षटङ्गपरिमाहुतीन् ।यथा नृपत्वे संप्राप्ते कलशैश्चाभिषिच्यते ॥४४३॥वन्दिभिश्च गुणास्तेऽपि ख्याप्यन्ते वसुधातले ।तथा शिवत्वे संप्राप्ते गुणानापादयेद्बुधः ॥४४४॥सर्वज्ञो वै भव स्वाहा परितृप्तस्तथैव च ।अनादिबोधो भव च ततः स्वातन्त्र्यशक्तिकः ॥४४५॥तथा त्वलुप्तशक्तिश्चा- नन्तशक्तिस्ततः पुनः ।गुणानापाद्य सर्वांस्तान्मूलमन्त्रमनुस्मरेथ् ॥४४६॥ओंहूमात्मपदोपेतं सर्वज्ञायेत्यपश्चिमं ।स्वाहाकारप्रयोगेण आहुतीः प्रतिपादयेथ् ॥४४७॥तिस्रः पञ्च दशैका वा तिलैर्वाथ घृतेन वा ।दद्यात्ततोऽभिषेकं तु मूलमन्त्रेण सुव्रते ॥४४८॥परं शक्त्यमृतं क्षोभ्य शिष्यमूर्ध्नि निपातयेथ् ।तुर्यद्वारं विशेत्तद्धि सबाह्याभ्यन्तरं स्मरेथ् ॥४४९॥मन्त्रशक्तिभिरुग्राभिः शेषनिर्दहनादिभिः ।शरीरं शोष्यते ताभिस्तदर्थमभिषेचनं॥ ४५०॥दीक्षानिर्वर्तनात्पूर्वं पुष्पं पाणौ प्रदापयेथ् ।दर्भं विमोचयित्वा च शिवाग्नौ कलशे गुरौ ॥४५१॥प्रदक्षिणत्रयं कृत्वा दण्डवन्निपतेद्भुवि ।कृतकृत्यः प्रहृष्टात्मा भवोत्तीर्णः सुनिर्मलः ॥४५२॥प्रोत्फुल्लनयनः शान्तस्तृप्तात्मानं तु भावयेथ् ।इयं नैर्वाणकी दीक्षा निर्बीजा वा सबीजिका ॥४५३॥येषां सबीजिका दीक्षा कुर्यात्तेष्वभिषेचनं ।श्रुतशीलसमाचारान्देशकत्वे नियोजयेथ् ॥४५४॥अथाभिषेक आचार्ये शिवयोगादनन्तरं ।पञ्चभिः कलशैर्भद्रे सितचन्दनलेपितैः ॥४५५॥शिवकुम्भवदभ्यर्च्य रत्नगर्भाम्बुपूरितैः ।ऋद्धिवृद्ध्यादिभिः पूतैरोषध्यक्षतपूरितैः ॥४५६॥सितपद्ममुखोद्गारैश्चूतपल्लवसंयुतैः ।पृथिव्यादीनि तत्त्वानि पञ्च पञ्चसु विन्यसेथ् ॥४५७॥कलशेषु महादेवि पुनश्चैव कला न्यसेथ् ।निवृत्त्याद्याः कलाः पञ्च तेषु चैवात्र विन्यसेथ् ॥४५८॥एकैककलशो व्याप्यो ह्यनन्तादिशिवान्तकः ।पूजयेद्भैरवं देवं सर्वसंभारकैः क्रमाथ् ॥४५९॥षडङ्गावरणोपेतं मन्त्रसंधानसंयुतं ।भैरवेणाभिमन्त्रेत एकैकं कलशं प्रिये ॥४६०॥अष्टोत्तरशतेनैव परतत्त्वमनुस्मरन् ।वारुण्यां स्ॐययम्यायं एन्द्र्यामैश्यां तथैव च ॥४६१॥संपूज्यैवं विधानेन अभिषेकं समाचरेथ् ।यागहर्म्यस्य ऐशान्यां पीठं संकल्प्ययेबुधः ॥४६२॥तत्र मण्डलकं कृत्वा स्वस्तिकादिविभूषितं ।वितानोपरिसंछन्नं ध्वजैश्च परिशोभितं॥ ४६३॥तत्रासनं न्यसेद्देवि श्रीपर्णीचन्दनोद्भवं ।तत्रानन्तासनं न्यस्य मूर्तिभूतं शिशुं न्यसेथ् ॥४६४॥पूर्ववत्सकलीकृत्य ऐशान्यभिमुखं स्थितं ।गन्धपुष्पादिनाभ्यर्च्य निर्भर्त्स्यः काञ्चिकौदनैः ॥४६५॥मृद्भस्मगोमयैः पिण्डैर्दूर्वाङ्कुरसमाश्रितैः ।सिद्धार्थदधितोयैश्च निराजनसमन्वितैः ॥४६६॥निर्भर्त्स्यैवं विधानेन अभिषेकं प्रदापयेथ् ।पृथिव्यादिघटासयिर्वा धामानुस्मृत्य सेचयेथ् ॥४६७॥क्रमाद्ध्यात्वा कलशेषु आचार्यः सुसमाहितः ।अभिषिक्तोऽन्यवासस्तु परिधाप्याचनेत्ततः ॥४६८॥प्रविश्य दक्षिणां मूर्तिं योगपीठं प्रकल्पयेथ् ।संस्थाप्य सकलीकृत्य अधिकारं प्रकल्पयेथ् ॥४६९॥उष्णीषं मुकुटाद्यांश्च छत्रं पादुकमासनं ।हस्त्यश्वशिविकाद्यांश्च राजाङ्गानि ह्यशेषतः ॥४७०॥करणीं कर्तरीं खटिकां स्रुक्स्रुवौ दर्भपुस्तकं ।अक्षसूत्रादिकं दत्त्वा चतुराश्रमसंस्थिताः ॥४७१॥दीक्ष्यानुग्रहमार्गेण दीक्षा व्याख्या त्वया सदा ।अद्यप्रभृति कर्तव्येत्यधिकारः शिवाज्ञया ॥४७२॥उत्थाप्य हस्तौ संगृह्य मण्डले तु प्रवेशयेथ् ।जानुभ्यां धरणीं गत्वा संपूज्य भैरवं ततः ॥४७३॥विज्ञाप्य भगवन्नेवं अभिषिक्तस्त्वदाज्ञया ।आचार्यपदसंस्थेन तवानुज्ञाविधायिना ॥४७४॥कर्तव्यं यत्तदायातं अधिकारं तु देशके ।शिवतत्त्वार्थकथनं शिवस्य पुरतः शितः ॥४७५॥निर्गत्य भवनादगनौ कलाध्वानं तु होमयेथ् ।मन्त्रतर्पणकं कृत्वा कलानां पञ्च चाहुतीः ॥४७६॥पञ्च पञ्चसु सर्वासु हुत्वा पूर्णाहुतिं गुरुः ।अर्घपूजादिकं कृत्वा प्रणम्य ख्यापयेत्प्रभोः ॥४७७॥अभिषिक्तो मयाचार्यस्तदर्थं मन्त्रतर्पणं ।हृदाद्यैः पञ्चभिश्चाङ्गैर्दक्षिणं लाञ्छयेत्करं॥ ४७८॥दर्भोल्मुकं शिवाग्नौ तु कानीयस्यादि लाञ्छयेथ् ।पुष्पं पाणौ प्रदद्यात्तु मण्डलाग्नौ प्रपातयेथ् ॥४७९॥भैरवं कलशं चाग्निं नमस्कृत्य तु दण्डवथ् ।लब्धाधिकारो हृष्टात्मा दृष्टादृष्टफलान्वितः ॥४८०॥स गुरुः शिवतुल्यस्तु शिवधामफलप्रदः ।शान्त्यन्ते भूतिदीक्षा च सदाशिवपदात्मिका ॥४८१॥शिवधर्मिण्यसौ ज्ञेया लोकधर्मिण्यतोण्यथा ।शिवधर्मिण्यसौ येषां साधकानां प्रकीर्तिता ॥४८२॥तेषां कृत्वाभिषेकं तु साधकत्वे नियोजयेथ् ।साधकस्याभिषेकोऽयं विद्यादीक्षात उत्तरः ॥४८३॥विद्यादीक्षा भवेत्सा तु वासनाभेदतः स्थिता ।कर्मभेदो न विद्येत सर्वत्राध्वनि संस्थितः ॥४८४॥कृतानि यानि कर्माणि सर्वाण्यध्वगतानि तु ।तानि संशोध्य विधिवत्कलापञ्चस्थितानि तु ॥४८५॥योजन्यवसरे भेदो विमर्शः साधकस्य तु ।प्रारब्दं कर्म पाश्चात्यं न चैकस्थं तु भावयेथ् ॥४८६॥साधकस्य तु भूत्यर्थं प्राक्कर्मैकं तु शोधयेथ् ।धाम प्रोच्चार्य सकलं सदाशिवतनौ न्यसेथ् ॥४८७॥विद्यादेहस्वरूपेण ध्यात्वा देवं सदाशिवं ।पूर्णाहुतिप्रयोगेन अणिमादिगुणैर्युतं॥ ४८८॥अणिमादिगुणावाप्तौ मूलमन्त्रस्वसंज्ञया ।अष्टावेवाहुतीर्दत्त्वा अभिषिञ्चेत्तु साधकं॥ ४८९॥कलशैः पञ्चभिः कुर्यात्निवृत्याद्यास्त्रिषु न्यसेथ् ।शान्त्यतीतां पञ्चमे च शान्तिं पश्चाच्चतुर्थके ॥४९०॥शान्त्या तु संपुटीकृत्य पृथिव्याद्यैश्च पञ्चभिः ।एकैककलशे पश्चात्साध्यमन्त्रं तु विन्यसेथ् ॥४९१॥विद्याङ्गैः सकलीकृत्य विद्याङ्गावरणं न्यसेथ् ।संमन्त्र्याष्टशतेनैव एकैकं कलशं ततः ॥४९२॥बहिर्मण्डलके न्यस्य आसनं प्रणवेन तु ।साधकं तत्र संस्थाप्य सकलीकरणं ततः ॥४९३॥निर्भत्स्य पूर्ववत्सर्वैः साध्यमन्त्रेण सेचयेथ् ।निवृत्यादित्रिभिः कुम्भैः स्नापयेत्पूर्वदिङ्मुखं॥ ४९४॥शान्त्यतीतं घटं पश्चाद्गृहीत्वा सेचयेच्छिशुं ।शान्तिं पश्चात्तु गृह्णीयात्संपुटेनाभिषेचयेथ् ॥४९५॥साधकस्याभिषेकोऽयं अनुलोमविलोमतः ।अभिषिच्य प्रवेश्यैनं दक्षिणां मूर्तिमास्थितं॥ ४९६॥प्रणवेनासनं दत्त्वा सकलीकरणं भवेथ् ।साधकस्याधिकारार्थं अक्षमालादि कल्पयेथ् ॥४९७॥मन्त्रकल्पाक्षसूत्रं च खटिकां छत्रपादुके ।उष्णीषरहितं दत्वा प्रविश्य शिवसंनिधौ ॥४९८॥विज्ञाप्य परमेशानं साधकोऽयं मया कृतः ।भूयात्सिद्धिस्त्वदाज्ञातस्त्रिप्रकारस्य भक्तितः ॥४९९॥साध्यमन्त्रं ददेत्पश्चात्पुष्पोदकसमन्वितं ।तस्य हस्ते समर्प्येत सिद्ध्यर्थं साधकस्य तु ॥५००॥प्रणम्योभौ गृहीत्वा तु मन्त्रं हृदि निवेशयेथ् ।प्रहृष्टवदनः शिष्यो गुरुश्चापि प्रहर्षवान् ॥५०१॥अग्न्यागारे सावधानौ तर्पयेन्मन्त्रसंहितां ।सहस्रं वा शतं वापि साध्यमन्त्रस्य तर्पणं ॥५०२॥एवं संतर्पयित्वा तु पुष्पं पाणौ प्रदापयेथ् ।त्रिस्थं संपूज्य देवं तु ततोऽपि त्रिःप्रदक्षिणं ॥५०३॥प्रणम्य भक्तियुक्तात्मा अणिमादिफलं लभेथ् ।उत्थाप्य साधकं ब्रूयात्समयान्पाहि यत्नतः ॥५०४॥दीक्षावसाने ते देवि श्रावणीया विपश्चिता ।एवं दीक्षां तु निर्वर्त्य सर्वदैव वरानने ॥५०५॥आत्मत्यागः प्रकर्तव्यो यथा भवति तच्छ्रुणु ।वैज्ञानकी प्राकृती वा आचार्यस्य यदृच्छया ॥५०६॥वैज्ञानिकीं सुसूक्ष्मां तु विधिनानेन कारयेथ् ।तिलाज्यादिसमायुक्ता अध्ववागीशिकल्पना ॥५०७॥कलाभिः पञ्चभिर्व्याप्तं अध्वानं युगपन्न्यसेथ् ।पूजाहोमोपचाराद्यान्कृत्वात्मानं नियोजयेथ् ॥५०८॥शिष्यचैतन्यवत्योगादध्वानं युगपन्न्यसेथ् ।पुष्पाद्यैः पूजयित्वा तं योगार्थमाहुतित्रयं ॥५०९॥गर्भधारित्वजनने अर्जने भोगतल्लये ।युगपद्धोमयेद्देवि मूलमन्त्रेण सुव्रतः ॥५१०॥आहुतीनां त्रयं होम्यं प्रतिकर्म वरानने ।होतव्या निष्कृतिर्भिन्ना पञ्चस्थानकलात्मसु ॥५११॥शतमेकं तदर्थं वा निष्कृतिः परिकीर्तिता ।विश्लेषपाशच्छेदाद्ये धाम्नैव युगपद्धुतिः ॥५१२॥उद्धारे चात्मतत्त्वस्थे पूर्णाहुतिं तु पातयेथ् ।आत्मानं योजयेत्तत्त्वे शिवे परमकारणे ॥५१३॥गुणान्पूर्ववदापाद्य अमृतान्पूर्ववत्कुरु ।आत्मदीक्षा समाप्तौ तु प्रायश्चित्तनिवृत्तये ॥५१४॥अथ विज्ञानरूपेण सकृदुच्चारलक्षणा ।हेयोपादेयपाशानां युगपद्भैरवेण तु ॥५१५॥शाश्वती संस्थितिः पश्चात्सूक्ष्मदीक्षा प्रकीर्तिता ।विशेषपूजनं होमं यथाशक्ति प्रकल्पयेथ् ॥५१६॥वाद्यगीतसुनृत्याद्यैः स्तुतिभिः पूजयेद्धरं ।त्रिः प्रदक्षिणमावर्त्य कलशाग्निसमण्डलं ॥५१७॥अष्टाङ्गपतनं कृत्वा विज्ञपेत्परमेश्वरं ।भगवन्पशुहेत्वर्थं येन्मयावाहितो भवान् ॥५१८॥तत्क्षन्तव्यं सदा देव विधिस्थस्य मम प्रभो ।विधिन्यूनमकामस्य पूजा शास्तोदिता यथा ॥५१९॥न भवेदतिभूयिष्ठा प्राकृतैर्द्रव्यसंचयैः ।अवलम्ब्य भक्तिमात्रं विधानं यत्कृतं मया ॥५२०॥तत्सर्वं सफलं मेऽस्तु सुप्रसन्ने विभो त्वयि ।प्रसन्नवदनो हृष्टो वरं दत्तं विभावयेथ् ॥५२१॥उपविश्य ततो यागं संहरेत क्रमात्प्रिये ।अग्रं संप्रार्थ्य गृह्णीयात्स्थापयेच्चास्त्ररक्षितं ॥५२२॥विशेषपूजनं चार्धं प्रणिपातं ततः पुनः ।निरोधार्धं ततो गृह्य अर्धं सव्यापसव्यतः ॥५२३॥दत्वा विसर्जयेद्देवं धाममन्त्रमनुस्मरन् ।आत्मनो रेचकं कृत्वा पुष्पं देवाय नि.क्षिपेथ् ॥५२४॥संहारिण्या च संगृह्य मन्त्रान्पार्श्वव्यवस्थितान् ।विद्युद्वच्चलितान्ध्यात्वा धामदेहे तु विन्यसेथ् ॥५२५॥विद्यादेहं भैरवस्य तल्लीनं बिन्दुविग्रहे ।बिन्दुं तु नादशक्तिस्थं शक्तिरूपं तु ग्राहयेथ् ॥५२६॥शक्तिरूपं व्यपकेन प्रणवोभयसंपुटं ।संहारिण्या तु संगृह्य द्वादशाते तु योजयेथ् ॥५२७॥पूरकेण हृदि न्यस्य स्वस्थानस्थं तु भावयेथ् ।सकलं निष्कलं रूपं तथा सकलनिष्कलं ॥५२८॥भिन्नावस्थं तु मन्त्रेषु हृत्स्थं तत्संस्मरेत्प्रिये ।विसर्जनविधिर्ह्येवं अग्नावेवं प्रपूजयेथ् ॥५२९॥अष्टोत्तरशतं हुत्वा पूर्णाहुतिं प्रपातयेथ् ।अर्धामाचमनं दत्वा प्रणिपत्य क्षमापयेथ् ॥५३०॥मण्डलस्थप्रयोगेन रेचकापूरकेण तु ।संगृह्य मन्त्रसंघातं यथास्थानं प्रकल्पयेथ् ॥५३१॥जागरयेत्तदाग्निं तु नित्यकर्मनिमित्ततः ।निर्माल्यनयनं कुर्याद्रजांस्यपहरेत्प्रिये ॥५३२॥ततः प्रविश्य वसुधां प्रोक्षयेत्तं शिवाम्भसा ।बहिर्निर्गत्य भूतानां बलिकर्म तु पूर्ववथ् ॥५३३॥आचम्य सकलीकृत्य लिङ्गिनस्तर्पयेत्ततः ।गुरुं संपूजयेच्छिष्यो यथाविभवविस्तरैः ॥५३४॥देशाध्यक्षो ग्रामशतं मण्डलेशस्तदर्धकं ।शतभुक्पञ्च वै दद्याद्ग्रामं विंशतिभुक्तथा ॥५३५॥दद्यात्तु ग्रामभुक्क्षेत्रं क्षेत्रभोक्ता तु विंशतिं ।येन येन गुरुस्तुष्येत्तत्सर्वं विनिवेदयेथ् ॥५३६॥ततस्त्वनृणतां याति वित्तशाठ्यविवर्जितः ।ततस्तु समयाञ्श्राव्यस्तन्त्रे भैरवनिर्गते ॥५३७॥चरुकं प्राशयेत्पश्चाच्चुम्बकः साधकैः सह ।वाङ्निरुद्धः प्रसन्नात्मा पृथक्पात्रव्यवस्थितः ॥५३८॥अनुक्रमेण दातव्यः ततः सिद्धिमवाप्नुयाथ् ।अनेनैव विधानेन दीक्षिता ये वरानन्ते ॥५३९॥ब्राह्मणाः क्षत्रिया वैश्याः शूद्रश्चान्येऽथवा प्रिये ।सर्वे ते समधर्माणः शिवधर्मे नियोजिताः ॥५४०॥सर्वे जटाधराः प्रोक्ता भस्मोद्धूलितविग्रहाः ।एकपङ्क्तिभुजः सर्वे समयिनस्तु वरानने ॥५४१॥पुत्रकाणां भवेदेका साधकानां तथा भवेथ् ।चुम्बकानां भवेदेका न प्राग्जातिविभेदतः ॥५४२॥एकैव सा स्मृता जातिर्भैरवीया शिवाव्यया ।तन्त्रमेतत्समाश्रित्य प्राग्जातिं न ह्युदीरयेथ् ॥५४३॥पुत्रकाणां साधकानां तथा समयिनामपि ।प्राग्जात्युदीरणाद्देवि प्रायश्चित्ती भवेन्नरः ॥५४४॥दिनत्रयं तु रुद्रस्य पञ्चाहं केशवस्य च ।पितामहस्य पक्षैकं नरके पच्यते तु सः ॥५४५॥अविवेकी भवेत्तस्माद्यदीच्छेदुत्तमां गतिं ।अविवेकेन देवेशि सिद्धिर्मुक्तिर्ध्रुवं भवेथ् ॥५४६॥स्वच्छन्दतन्त्रे चतुर्थः पटलः N/A References : N/A Last Updated : June 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP