संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|स्वच्छन्दभैरवतन्त्र| दशमः पटलः ८ स्वच्छन्दभैरवतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः १ दशमः पटलः २ दशमः पटलः ३ दशमः पटलः ४ दशमः पटलः ५ दशमः पटलः ६ दशमः पटलः ७ दशमः पटलः ८ दशमः पटलः ९ दशमः पटलः १० दशमः पटलः ११ दशमः पटलः १२ दशमः पटलः १३ एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः स्वच्छन्दभैरवतन्त्र - दशमः पटलः ८ स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात. Tags : shastratantraतंत्रशास्त्रस्वच्छन्दभैरवतन्त्र दशमः पटलः ८ Translation - भाषांतर शङ्खपाण्डुरवर्णानि कानिचिद्भुवनानि च ।नानावर्णानि चान्यानि नानारूपाकृतीनि च ॥७०१॥एतेषां परतो देवि व्यापकं परमं पदं ।अप्रमेयमसंख्येयं अगम्यं सर्ववादिनां ॥७०२॥विना प्रसादादीशस्य ज्ञानमेतन्न लभ्यते ।नचापि भावो भवति दीक्षामप्राप्य देहिनां ॥७०३॥यदा तु कारणाच्छक्तिर्भवेन्निर्वाणकारिका ।शिवेच्छया प्रपद्येत दीक्षां ज्ञानमयीं शुभां ॥७०४॥मन्त्रयोगात्मिका दिव्यां ततो मोक्षं व्रजेत्पशुः ।नान्यथा मोक्षमायाति अपि ज्ञानशतैरपि ॥७०५॥यस्य प्रकाशितं सर्वं शिवेनानन्तरूपिणा ।स एव मोक्षं व्रजति शिवः सर्वमहेश्वरः ॥७०६॥तेनेदं ज्ञानमुख्यं तु पुरा प्रोक्तं मया तव ।संसारार्णवमग्नानां नौरिवोत्तारणं परं ॥७०७॥महामायाञ्जनातीतं अज्ञातं पशुगोचरे ।अनन्तं पारमक्षोभ्यं सुबोधं परमेश्वरं ॥७०८॥परमेशमुखोद्गीर्णं यन्मया प्राप्तमद्भुतं ।वक्ष्ये ज्ञानामृतमिदं शृणुष्वैकमनाः प्रिये ॥७०९॥ऊर्ध्वं वै ब्रह्मणोऽण्डस्य पुरैकादशकं स्थितं ।एकादशानां रुद्राणां युगान्ताग्निसमत्विषां ॥७१०॥अथोर्ध्वे भुवनं देव्याः कथयामि वरानने ।इन्द्रनीलमयं दिव्यं समन्तात्परिमण्डलं ॥७११॥तस्मिन्भगवती देवी भद्रकाली व्यवस्थिता ।वसतीन्दीवरश्यामा स्निग्धकङ्कुष्टसप्रभा ॥७१२॥सूर्यमण्डलरूपाभ्यां कुण्डलाभ्यामलङ्कृता ।पौर्णमास्यां यथा सन्ध्या चन्द्रर्काभ्यां विराजते ॥७१३॥राजते च महाहारः स्तनाभ्यामन्तरे स्थितः ।असिताञ्जनशैलाभ्यां मध्ये स्रोतोवहा यथा ॥७१४॥चतुर्भिश्च धृतं पीठं सिंहैरमितविक्रमैः ।सर्ववज्रमये दिव्ये दिव्यरत्नविभूषिते ॥७१५॥आसने सुप्रभे देवी जात्यञ्जनसमप्रभा ।शुक्ले हिमवतः शृङ्गे नीलमेघ इव स्थिता ॥७१६॥सर्वरत्नमयी दिव्या रशनास्या विराजते ।पीतमाल्यांशुकवती शर्वरीवारुणोदये ॥७१७॥तृतीयं नयनं तस्या ललाटस्थं विराजते ।उदयस्थ इवादित्यो रश्मिजालविभूषितः ॥७१८॥उच्छ्रितेनातपत्रेण सा श्वेतेन विराजते ।कृष्णमेघोपरिस्थेन चन्द्रेणेव विभावरी ॥७१९॥कोटिकोटिसहस्रेण स्त्रीणां तु परिवारिता ।आवृता चन्द्रलेखेव नक्षत्रैस्तु नभस्तले ॥७२०॥कुमुदोत्पलवर्णाश्च हेमश्यामाश्च योषितः ।प्रियङ्गुकलिकाश्यामाश्चन्द्रगौर्यः सयौवनाः ॥७२१॥पद्मावदातरूपिण्यः पीनश्रोणिपयोधराः ।हावभावविधिज्ञास्तु नृत्तगीतविशारदाः ॥७२२॥वीणावेणुमृदङ्गाद्यैर्वंशवादित्रनिःस्वनैः ।उपासीनास्तु तां देवीं रमन्ते तत्र योषितः ॥७२३॥एवं विद्धि जयं नाम भुवनं तु वरानने ।या दुर्गेति स्मृता लोके ब्रह्माण्डोदरवर्तिनी ॥७२४॥विष्णुना तपसा पूर्वं आराध्य परमेश्वरं ।अवतारिता वधार्ताय महिषस्य महात्मनः ॥७२५॥येन चैकेन शृङ्गेण भगवान्हिमवान्गिरिः ।शुष्कपर्णमिव क्षिप्तः भगवत्या विनाशितः ॥७२६॥सा तं विनाशायेद्देवी तमः सूर्य इवोत्थितः ।सा देवी सर्वदेवीनां नामरूपैश्च तिष्ठति ॥७२७॥योगमायाप्रतिच्छन्ना कुमारी लोकभाविनी ।अचिन्त्या चाप्रमेया च अन्यत्र परिपठ्यते ॥७२८॥विष्णुना सहिता देवी कल्पे कल्पे पुनः पुनः ।भगिनीत्वेन चायाति नामरूपविपर्ययैः ॥७२९॥मन्वन्तरे मन्वन्तरे तथा चैव युगे युगे ।रक्षणार्थं हि लोकानां मातेव हितकारिणी ॥७३०॥इत्याख्यातं तु भुवनं जयं नाम वरानने ।तद्भक्तास्तत्र गच्छन्ति तस्या मण्डलदीक्षिताः ॥७३१॥नचैतत्तपसा प्राप्यं नयज्ञैर्भूरिदक्षिणैः ।न दानैर्विविधैश्चापि शक्यं प्राप्तुं वरानने ॥७३२॥प्रसादाद्देवदेवस्य शशाङ्काङ्कितमौलिनः ।दीक्षां प्राप्य प्राप्नुवन्ति मण्डलं चक्रवर्तिनां ॥७३३॥निर्बीजदीक्षया मोक्षं ददाति खलु देहिनां ।सा मुक्तिदीक्षा परमा विधिवत्परिकीर्तिता ॥७३४॥विद्येशावरणे दीक्षा यवती क्रियते नृणां ।तावतीं गतिमाप्नोति भुवनेऽत्र वरानने ॥७३५॥भुवनानि तदीशांश्च संस्थानानि यथाक्रमं ।कथयिष्यामि ते सर्वं शृणुष्वैकमनाः प्रिये ॥७३६॥भद्रकाल्यां परो देवो रुद्रक्रोधसमुद्भवः ।कोटिमात्रेण देवेशि युगान्ताग्निसमप्रभः ॥७३७॥युगान्ताम्बुदवृन्दोत्थ- गर्जितध्वनिनिःस्वनः ।शतबाहुर्महातेजा दिव्याभरणभूषितः ॥७३८॥शिरसीन्दुधरः श्यामो नीलाञ्जनसमद्युतिः ।शिखिकण्ठनिभः किञ्चित्किञ्चिदापाण्डुलोहितः ॥७३९॥चाषजीमूतवर्णश्च अतसीपुष्पसंनिभः ।इन्द्रनीलनिभः किञ्चित्किञ्चिद्भृङ्गनिभाकृतिः ॥७४०॥जात्यञ्जननिभाकारो रुद्रैकादशिकान्वितः ।युतं कोटिसहस्रेण रुद्राणां च महात्मनां ॥७४१॥भुवनं तस्य देवस्य विजयं नाम विश्रुतं ।इन्द्रनीलनिभं दिव्यं सर्ववज्रनिभं महथ् ॥७४२॥दशकोटिसहस्राणि रुद्राणां वरवर्णिनि ।अन्तर्भुवनसंघातैरन्यैश्च परिवारितं ॥७४३॥नीलोत्पलदलश्यामैः शिखिकण्ठनिभैस्तथा ।रुद्रैर्दिव्यैर्महावीर्यैः समन्तात्परिवारितं ॥७४४॥स्तुतिभिर्मङ्गलैर्गीतैर्नृत्तावादित्रवादितैः ।पणवैर्वेणुवीणाभिर्भेरीझल्लरि गोमुखैः ॥७४५॥पटहैः काहलैश्चैव शङ्खदुन्दुभिपीलुकैः ।मृद्दलैस्तट्टरीभिश्च तालकैर्मुरजैस्तथा ॥७४६॥मौन्दकाहलटङ्कैश्च तमिलद्रघटादिभिः ।वादित्रैर्वल्गितैस्तालै रोटनैर्मुखमृद्दलैः ॥७४७॥भूतैर्भूतगणै रुद्रैर्जल्पितैः पठितैस्तथा ।ध्यायाद्भिश्च जपद्भिश्च धावद्भिश्चेष्टितैस्तथा ॥७४८॥मयूरकोकिलारावान्मुञ्चद्भिश्च तथापरैः ।नानारुतविलासैश्च विकुर्वद्भिर्महात्मभिः ॥७४९॥आवृतस्तैर्महातेजा मयूखैरिव भास्करः ।गजवक्त्रैः सिंहवक्त्रैरश्ववक्त्रैः शुभाननैः ॥७५०॥गोकर्णैर्गोमुखैश्चान्यैर्द्वीपिऋक्षमुखैस्तथा ।व्याघ्रवानरवकैश्च भगवान्पर्युपास्यते ॥७५१॥वीरभद्रो महातेजा युगान्ताग्निसमप्रभः ।आसनं तस्य देवस्य सर्ववज्रमयं महथ् ॥७५२॥दशयोजनविस्तीर्णं चतुरस्रानलप्रभं ।राजतेऽत्राष्टभिः सिंहैर्वृतं भीमपराक्रमैः ॥७५३॥अत्र ते पुण्यकर्माणः ये स्मरन्ति महेश्वरं ।जले मरुत्स्वथाग्नौ वा शिरश्छेदेन वा मृताः ॥७५४॥ते यान्ति चैश्वरं बोधं वीरभद्रं महाद्युतिं ।भुवनस्यास्य देवेशि ह्युपर्यावरणं महथ् ॥७५५॥अम्मयं तु घनं चापि शक्रचापमिव स्थितं ।वितानमिव तद्भद्रं अन्तरे समवस्थितं ॥७५६॥तत्र चास्ते महात्मासावङ्गुष्ठाग्रप्रमाणकः ।तत्र योजनकोटिर्वै विष्कम्भादूर्ध्वमुच्यते ॥७५७॥तिर्यक्त्रिगुणविस्तारं आप्यमावरणं प्रिये ।आवृतं तेन तत्सर्वं महाम्भोधिविसारिणा ॥७५८॥रुद्राण्ड इति विख्यातं रुद्रालोक इति प्रिये ।वीरभद्रनिकेतश्च भद्रकाल्यालयस्तथा ॥७५९॥त्रयोदशभिरन्यैश्च भुवानैरुपशोभितं ।नानारुद्रगणैर्दिव्यैर्निरन्तरमलंकृतं ॥७६०॥अण्डं वै वीरभद्रस्य ब्रह्माण्डसदृशं प्रिये ।अतः परं प्रवक्ष्यामि धरित्र्या भुवनं महथ् ॥७६१॥धात्री यस्मिन्भगवती धरालोके सनातनी ।हैरण्यमतुलं प्राप्ता आधारं यत्र संस्थिता ॥७६२॥चक्रवर्तिविमानैश्च बहुभिः परिवारितं ।आवृतं भूतसंघातैराचार्यैस्तत्परायणैः ॥७६३॥दिव्यगीतनिनादाढ्यैर्वादित्रशतनिःस्वनैः ।अन्तर्भुवनसंघातै रुद्राणां परिवारितं ॥७६४॥भुवनस्यास्य मध्ये तु उदयादित्यसंनिभः ।रक्तोत्पलनिभो दिव्य अशोकस्तबकच्छविः ॥७६५॥पद्मरागमयो दिव्यः प्रासादो बहुभूमिकः ।तस्य मध्ये भगवती धरित्री लोकधारिणी ॥७६६॥मालया रक्तपुष्पस्य लम्बया नित्यभूषिता ।चन्द्रार्कमण्डलाकार- कपोलतलभूषिता ॥७६७॥पीतहेमांशुकवती महाहारविभूषिता ।शतयोजनविस्तीर्णे कूर्मपृष्ठे व्यवस्थिता ॥७६८॥चतुर्वक्त्रा चाष्टभुजा दिव्याभरणभूषिता ।रूपयौवनसंपन्ना नृत्तगीतविशारदाः ॥७६९॥परिवार्योपासते तां दिव्या वै मानसाः स्त्रियः ।त्रिंशत्कोट्यस्तु तासां वै दिव्याभरणभूषिताः ॥७७०॥उत्पादितास्तु शर्वेण तदर्थं हितमिच्छता ।तप्तजाम्बूनदनिभा दिव्याभरणशोभिताः ॥७७१॥उच्छ्रितेनातपत्रेण ध्रियमाणेन शोभिताः ।पुरःस्थितो महातेजा योऽसौ मेरुर्महागिरिः ॥७७२॥उपासीनस्तु तां देवीं तत्रास्ते स नगाधिपः ।नीलोत्पलदलश्यामो नीलजीमूतसंनिभः ॥७७३॥नीलो नाम महाशैलः पीतवासा महाद्युतिः ।अतिकान्तेन रूपेण कैटभारिरिवापरः ॥७७४॥उपास्यमानो दिव्याभिर्नगरीभिर्नगाधिपः ।तस्योत्तरे चन्द्रनिभो नानालंकारभूषितः ॥७७५॥श्वेतातपत्री तेजस्वी श्वेतो नाम महागिरिः ।तस्योत्तरेण सूर्याभो मुकुटादिविभूषितः ॥७७६॥पीताम्बरधरः श्रीमान्शृङ्गवानिति विश्रुतः ।अतिकान्तेन रूपेण कुसुमास्त्र इवापरः ॥७७७॥दक्षिणेनापि वक्ष्यामि शृणुष्वावहिता प्रिये ।चन्द्रावदातदीप्तौजा दिव्याभरणभूषितः ॥७७८॥शुक्लाम्बरधरः श्रीमान्निषधो नाम विश्रुतः ।तप्तहेमप्रतीकाशो दिव्याभरणभूषितः ॥७७९॥अतिशुभ्रेण देहेन पितामह इवापरः ।पीताम्बरधरः श्रीमान्पीतमाल्यानुलेपनः ॥७८०॥हेमकूटो महातेजास्तेजसामिव सङ्ग्रहः ।राजते भगवान्शैलः सन्ध्यावृत इवांशुमान् ॥७८१॥पाण्डुराभ्रप्रतीकाशः शङ्खगोक्षीरसंनिभः ।शुक्लाम्बरधरः श्रीमान्दिव्यकुण्डलभूषितः ॥७८२॥आतपत्रेण महता ध्रियमाणेन मूर्धनि ।हिमवानिति विख्यातो द्वितीय इव भास्करः ॥७८३॥इन्द्रगोपकसंकाशः पश्चिमे गन्धमादनः ।रक्ताम्बरधरः श्रीमानस्ताद्रिस्थ इवांशुमान् ॥७८४॥शुद्धस्फटिकसंकाशः शुक्लाम्बरधरः शुभः ।किरीटी कुण्डली श्रीमान्माल्यवान्नाम पर्वतः ॥७८५॥इत्येवमादिभिश्चान्यैः पर्वतैः परिवारिता ।लोकालोकावसानैश्च तथान्यैः कुलपर्वतैः ॥७८६॥दिव्यरूपधरा देवी तनुर्वै पारमेश्वरी ।धारणां गन्धतन्मात्रे प्राणांस्त्यक्त्वा तु योगिनः ॥७८७॥ते यान्ति तादृशीं मूर्तिं धरित्र्याः परमां तनुं ।अतः परतरं देवि सामुद्रं भुवनं महथ् ॥७८८॥सर्ववज्रमयं दिव्यं नानाश्चर्यशतान्वितं ।नीलोत्पलसमच्छायं सर्वतः परिमण्डलं ॥७८९॥मध्ये तु भुवनस्यास्य मण्डलं चन्द्रसंनिभं ।शतयोजनसाहस्रं समन्तात्परिमण्डलं ॥७९०॥तस्य मध्ये तु पुरुषो रुक्मवर्णो महाद्युतिः ।किरीटी कुण्डली स्रग्वी दिव्याभरणभूषितः ॥७९१॥अपां निधेर्भगवतो वरुणस्य परा तनुः ।तं तु देवं महात्मानं परिवार्य समन्ततः ॥७९२॥रूपयौवनसंपन्नाः सततं पर्युपासते ।शुक्लाम्बरधरा देवी शुक्लगन्धानुलेपना ॥७९३॥शुक्लयज्ञोपवीता च शुक्लहारोपशोभिता ।शुक्लैनैवातपत्रेण ध्रियमाणेन मूर्धनि ॥७९४॥गङ्गा ह्युत्तरतस्तस्य स्थिता वै परमा तनुः ।नीलाम्बरधरा देवी नीलगन्धानुलेपना ॥७९५॥नीलस्रग्दामकण्ठा च यमुना तस्य दक्षिणे ।एवमाद्या महानद्यः परिवार्य महाद्युतिं ॥७९६॥समुद्राष्टकं च देवेशि स्वनदीभिः समावृतं ।उपासते सदा भक्त्या वारुणीं परमां तनुं ॥७९७॥नानासरांसि तीर्थानि तद्भक्ताश्चापि संस्थिताः ।रसतन्मात्र अत्रैव कृत्वा सम्यक्तु धारणां ॥७९८॥अपां योनिं परां प्राप्ताः वारुणी सा परा तनुः ।अतः परं प्रवक्ष्यामि भुवनं वरवर्णिनि ॥७९९॥श्रीनिकेत इति ख्यातं पद्मगर्भ इति श्रुतं ।विमानशतसंघातैर्निरन्तरमवस्थितैः ॥८००॥ N/A References : N/A Last Updated : June 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP