संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|स्वच्छन्दभैरवतन्त्र| तृतीयः पटलः स्वच्छन्दभैरवतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः १ दशमः पटलः २ दशमः पटलः ३ दशमः पटलः ४ दशमः पटलः ५ दशमः पटलः ६ दशमः पटलः ७ दशमः पटलः ८ दशमः पटलः ९ दशमः पटलः १० दशमः पटलः ११ दशमः पटलः १२ दशमः पटलः १३ एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः स्वच्छन्दभैरवतन्त्र - तृतीयः पटलः स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात. Tags : shastratantraतंत्रशास्त्रस्वच्छन्दभैरवतन्त्र तृतीयः पटलः Translation - भाषांतर अधिवासं प्रवक्ष्यामि यथावदनुपूर्वशः ।वारिणा सुविशुद्धात्मा कृतकृत्यः प्रसन्नधीः ॥१॥भस्मोद्धूलितदेहस्तु मुद्रालङ्कारभूषितः ।जिह्मजेनोपवीतेन सवासा वा दिगम्बरः ॥२॥सुगन्धिगन्धलिप्ताङ्गः पुष्पस्रग्दामभूषितः ।दिव्याभरणसम्पन्नः सुप्रसन्नः सुभावितः ॥३॥सुधूपितः सुताम्बूलश्चन्दनागुरुचर्चितः ।महद्वारप्रदेशे तु स्थित्वा प्रागिव भावितः ॥४॥द्वाराध्यक्षान्पूजयित्वा पुष्पप्रक्षेपणं ततः ।हुम्फट्कारप्रयोगेण तालाशब्दं विधाय च ॥५॥पार्ष्ण्यधोहस्तसंयोगाद्विघ्नप्रोच्चाटनाय वै ।पार्ष्ण्या भूमिगतान्हन्यात्तालया चान्तरिक्षगान् ॥॥मन्त्रैर्दिव्यान्विशोध्यैवं यागहर्म्यं विशेत्ततः ।रक्षां पूर्ववदस्त्रेण परितः परिकल्पयेथ् ॥७॥वर्मणा मायारूपेणाच्छाद्यैव तु मखालयं ।ततो दक्षिणदिग्भागे उपविश्य वरानने ॥८॥करन्यासं यथापूर्वं दहनोत्पूयने तथा ।प्लावनाप्यायने चैव सकलीकरणं तथा ॥९॥पूर्ववन्मानसं यागं अन्तर्देहे समाचरेथ् ।शक्त्याधारमनन्तं च धर्मादिचरणावधि ॥१०॥गात्रकाणि त्वधर्माद्यस्तथा सन्धानकीलकान् ।अधश्छादनमूर्ध्वं च पद्मकेसरकर्णिकाः ॥११॥पुष्कराणि च शक्तीश्च मण्डलान्मण्डलाधिपान् ।शिवान्तमासनं दद्यात्पूर्वरूपं ध्रुवेण तु ॥१२॥मूर्तिब्रह्मकलाव्यूहं नवतत्त्वं त्रितत्त्वकं ।द्वात्रिंशदक्षरं देवं भैरवाष्टकमेव च ॥१३॥विद्याङ्गानि तथा देवीं क्षुरिकां लोचनत्रयं ।शक्तित्रयं परं देवं अङ्गषट्कसमन्वितं ॥१४॥मुद्रामन्त्रांश्च द्रव्याणि यथास्थानं प्रकल्पयेथ् ।संकल्प्य च यथान्यायं यथायोगं प्रकल्पयेथ् ॥१५॥सद्योजातं च वामं च अघोरं च यदुक्तवान् ।पुरुषेशौ च देवस्य दलस्थांश्चोपकल्पयेथ् ॥१६॥हृदयादींस्ततः पञ्च दिशासु विदिशासु च ।पूर्वतो यावदीशान्तं भैरवावरणं बहिः ॥१७॥लोकपालांस्तदस्त्राणि पूर्वादीशान्तकावधि ।अस्त्राणि लोकपालांश्च भैरवाष्टकमेव च ॥१८॥पञ्चब्रह्माण्यथाङ्गानि एतान्यावरणानि हि ।क्रमेणोच्चारयेत्सर्वान्यावत्तद्गर्भमैश्वरं ॥१९॥मन्त्रसन्धानमेतद्धि परमीकरणं शृणु ।उच्चारयेत्ततो देवं ह्रस्वदीर्घप्लुतान्वितं ॥२०॥तावदुच्चारयेन्मन्त्रं यावन्निर्वाणगोचरं ।अधःशक्तेर्यावदूर्ध्वं सोमसूर्यपथान्तरा ॥२१॥पिङ्गलामध्यमार्गेण वर्णोच्चारक्रमेण तु ।देवतापञ्चकं शक्तिं व्यापिनीं समनोन्मने ॥२२॥भेदयित्वा क्रमात्सर्वं यावद्वै निधनान्तिकं ।निस्तरङ्गं निरध्वाख्यं सकलव्यापि चोन्मनं ॥२३॥तदध्यास्यानुलोम्येन हृत्पद्मे विनिवेशयेथ् ।सर्वेष्वावरणेष्वेवं देवि तद्व्यापकं न्यसेथ् ॥२४॥तेन चाधिष्ठिताः सर्वे सर्वकामफलप्रदाः ।यथा स्वरूपसंस्थान- वर्णा ये कथिता मया ॥२५॥तथा ते विनियोक्तव्या मानसे मानसेन तु ।कर्णिकायां तु संस्थाप्य द्विधावस्थं च भैरवं ॥२६॥शुद्धस्फटिकसंकाशं सर्वमन्त्रैरलंकृतं ।तत्रापि परितो ज्ञेयं अनिर्देश्यमनामयं ॥२७॥यत्र नास्ति द्विधाभावो न मन्त्रादिप्रकल्पना ।ओंकारबिन्दुनादानां विलयं तं विनिर्दिशेथ् ॥२८॥तत्स्थानं दुर्लभं मत्वा सम्भवेन्न कदाचन ।यस्य नाग्रं च मूलं च दिशो विदिशस्तथा ॥२९॥न शब्दो नापि चाकाशं ध्यात्वा तत्तु विमुच्यते ।प्रथमं मानसं यागं पश्चाद्द्रव्यसमन्वितं ॥३०॥य एवं सततं कुर्याद्दैशिको यागतत्परः ।स्वहस्ते स्थण्डिले लिङ्गे मण्डले चरुके तथा ॥३१॥जले चाग्नौ च सम्पूज्य सम्यग्दीक्षाफलं लभेथ् ।अकृत्वा मानसं यागं योऽन्यं यागं समारभेथ् ॥३२॥अशिवः स तु विज्ञेयो न मोक्षाय विधीयते ।आत्मयागे कृते चैव देहशुद्धिः प्रजायते ॥३३॥अधिष्ठितं शिवेनैव तमाचार्यं विनिर्दिशेथ् ।आत्मनिर्दहनं चैव मानसं च यदुक्तवान् ॥३४॥विदित्वा सम्यगाचार्यः पाशहा स शिवः स्मृतः ।यत्र यत्र स्थितो देशे यश्चैवं तु विधिं यजेथ् ॥३५॥ब्रह्महापि स मुच्येत किं पुनः शिवतत्परः ।सर्वावस्थागतश्चैव विषयैरनुरञ्जितः ॥३६॥सकृत्सम्पूज्य मुच्येत किं पुनर्यो दिने दिने ।एतत्तन्त्रोक्तविधिना यदुक्तं विधिपूर्वकं ॥३७॥इज्यादि चान्यतन्त्रेऽपि तद्वैतत्कामिकं भवेथ् ।नानासिद्धिगुणैर्युक्तं नानाकामफलप्रदं ॥३८॥योगसिद्धिश्च जायेत मुक्तिं च लभते ध्रुवं ।सदाशिवोऽपि जानाति देवाश्चैवासुरादयः ॥३९॥एवं तु मानसं यागं कृत्वा बाह्यं समाचरेथ् ।परां वृत्तिमनुध्यायन्द्रव्याण्यादौ विलोकयेथ् ॥४०॥सितचन्दनकर्पूरं सुधूपं सितवाससी ।पुष्पाणि दिव्यगन्धीनि तिलव्रीहिघृतादिकं॥ ४१॥चूतपल्लवदर्भांस्तु सिद्धार्थान्खटिकां तथा ।करणीं कर्तरीं चैव पाशबन्धनसूत्रकं॥ ४२॥वार्धानीं शिवकुम्भं च तथेध्मान्परिधीनपि ।समिधो दन्तकाष्ठं च चरुस्थालीं स्रुचं स्रुवं॥ ४३॥तण्डुलांश्च तथा क्षीरं एवमादीन्यनेकशः ।ततोऽर्घपात्रमादाय क्षालयेदस्त्रवारिणा ॥४४॥कवचेनावगुण्ठ्यैव प्रणवेन तु पूजयेथ् ।उदकादिभिरष्टाङ्गः पूरयेत्तु वरानने ॥४५॥उदकं क्षीरकुसुमं कुशसर्षपतण्डुलाः ।प्रणवेनासनं सर्वं ततो मूर्तिं न्यसेत्प्रिये ॥४६॥भैरवावरणैर्युक्तां पूजयेत्तां यथाक्रमं ।गन्धैः पुष्पैस्तथा धूपैर्मन्त्रसन्धानपूर्वकं॥ ४७॥मन्तव्यं परमं तत्त्वं ततश्चैवामृतीभवेथ् ।पात्राणां त्रितयं कल्प्यं निरोधार्थे विधौ तथा ॥४८॥पश्वर्घे च प्रकल्प्यैवं शिवहस्तं प्रकल्पयेथ् ।मन्त्रसन्धानकं प्राग्वन्नाडीसन्धानमेव च ॥४९॥मूलमन्त्रमनुस्मृत्य हृत्कण्ठतालुमध्यगं ।भ्रूमध्यं शब्दकूटं तत्तुर्यस्थानं विभेदयेथ् ॥५०॥वामदक्षिणमध्ये तु विषुवत्स्थेन भेदयेथ् ।द्वादशान्तं परं नीत्वा करस्थो मन्त्रविग्रहः ॥५१॥तस्याप्यनेन न्यायेन विलोमेन विशेद्धृदि ।आत्मनो रेचकेनैव पूरकेण विशेद्धृदि ॥५२॥नाडीसन्धानमेतद्धि शिवेन परिकीर्तितं ।व्यापकं तु शिवं ध्यायेन्मन्त्रमूर्तिमधिष्ठितं ॥५३॥दर्भं संगृह्य चास्त्रेण सप्तवाराभिमन्त्रितं ।पञ्चगव्याय पात्रं तु शोधयेत्तु शिवाम्भसा ॥५४॥अस्त्रेण क्षालयेत्तच्च कवचेनावगुण्ठयेथ् ।दर्भासनं ध्रुवेणैव मण्डलं तु प्रकल्पयेथ् ॥५५॥तस्योपरि न्यसेत्पात्रं गोमयादीनि चाहरेथ् ।पृथक्पात्रस्थितान्येव प्रोक्ष्यास्त्रेण शिवाम्भसा ॥५६॥गोमयं तु हृदामन्त्र्य गोमूत्रं शिरसा दधि ।शिखया वर्मणा क्षीरं अस्त्रेणाज्यं कुशोदकं ॥५७॥धाम्ना च मन्त्रयेत्पश्चाद्गोमयादीनि योजयेथ् ।पूर्वसंस्कृतपात्रे तु स्वमन्त्रैर्गोमयादिकं ॥५८॥संयोज्य मन्त्रयेत्पश्चात्तैरेव हृदयादिभिः ।प्रणवेन तु संकल्प्य अनन्तं मूर्तिविग्रहं ॥५९॥धामाङ्गानि च बाह्ये तु सम्पूज्यावरणस्थितिं ।मन्त्रसन्धानकं कृत्वा अमृतीकरणं तथा ॥६०॥शिवामृतं तत्संचिन्त्य सम्पूज्य स्थापयेत्ततः ।अस्त्राभिमन्त्रितं दर्भं गृहीत्वोल्लेखनं कुरु ॥६१॥यावद्भूमौ समन्तात्तु स्ॐयास्यो दक्षिणे स्थितः ।ततश्चैवोद्धरेच्छल्यं आजलान्तं व्यवस्थितं ॥६२॥रेचितं भावयेच्छुद्धं मौक्तिकाद्यैः प्रपूरयेथ् ।समीकरणमस्त्रेण कवचेन तु सेचनं ॥६३॥आकोटनमथास्त्रेण ततो मार्जनलेपने ।अस्त्रेण पञ्चगव्येन गन्धतोयेन चोपरि ॥६४॥शिवाम्भसास्त्रयुक्तेन विकिराण्यभिमन्त्रयेथ् ।सप्तकृत्वोऽस्त्रमन्त्रेण स्थित्वा मन्त्रे तु प्राग्दिशः ॥६५॥ऊर्ध्वाधो विकिरेद्धान्यान्यस्त्रभूतानि चिन्तयेथ् ।चामरेण सुशुभ्रेण अस्त्रमन्त्रेण संहरेथ् ॥६६॥ऐशान्यभिमुखान्येव नैरृत्या यावदैश्वरं ।पञ्चगव्येन सम्प्रोक्ष्य गन्धाम्भोभिः शिवाम्भसा ॥६७॥ध्रुवेण श्रियमावाह्य पद्महस्तां सुलोचनां ।शुक्लपुष्पाणि मुञ्चन्तीं सर्वलक्षणसंयुतां ॥६८॥नीलोत्पलदलश्यामां यागहर्म्यावलोकिनीं ।ब्रह्मस्थानोपविष्टां तु द्वाराभिमुखभद्रदां ॥६९॥गन्धपुष्पादिभिः पूज्य शिवकुम्भं प्रकल्पयेथ् ।ऐशानीं दिशमाश्रित्य पञ्चगव्येन मण्डलं ॥७०॥गन्धोदकेन संलिप्य शिवाम्भोऽस्त्रेण प्रोक्षयेथ् ।अनन्ताद्यासनं दत्त्वा ध्रुवेणामण्डलावधि ॥७१॥सर्वदोषविनिर्मुक्तं कुम्भं चन्दनलेपितं ।स्वस्तिकाद्यैश्चार्चयित्वा यवसिद्धार्थदूर्वभिः ॥७२॥सितसूत्रेण संवेष्ट्य वस्त्रपूतेन चाम्भसा ।सम्पूर्य सर्वतश्छन्नं चूताश्वत्थादिपल्लवैः ॥७३॥रत्नगर्भौषधीयुक्तं सहदेवादिभिर्गणैः ।प्रोक्ष्य चास्त्रेण संगृह्य कवचेनावगुण्ठितं ॥७४॥आसनस्योपरि न्यस्येन्मूलमन्त्रमनुस्मरन् ।कलाध्वभैरवादीनि न्यस्यार्घादीन्प्रकल्पयेथ् ॥७५॥मुद्रां बद्ध्वा हृदादीनि पूज्यान्यग्निदलादिषु ।गन्धपुष्पपवित्राद्यैः सितवस्त्रेण भूषयेथ् ॥७६॥वामभागे तु कुम्भस्य पञ्चगव्येन मण्डलं ।शिवाम्भसा तु सम्प्रोक्ष्य प्रणवेनासनं न्यसेथ् ॥७७॥सम्प्रोक्ष्य च शिवाम्भोभिर्वार्धानीं मङ्गलान्वितां ।कुम्भवच्चार्चयित्वा तां आसनस्योपरि न्यसेथ् ॥७८॥गन्धपुष्पपवित्राद्यैः पूजयित्वा तु वार्धनीं ।उच्चार्यास्त्रं क्रमेणाग्रे द्रव्याणां वार्धनीं नयेथ् ॥७९॥अच्छिन्नामनुलोमेन जलधारां तु पातयन् ।तत्स्थानात्तु समुद्धृत्य यावत्कोणं तु शाङ्करं ॥८०॥आचार्यः कलशं पश्चाद्भैरवेण समुद्धरेथ् ।नयेद्वार्धानिमार्गेण तस्मिन्संस्थापयेत्पुनः ॥८१॥वार्धानीं स्थापयेत्पश्चादस्त्रमन्त्रमनुस्मरन् ।विशेषपूजामुभयोर्गन्धपुष्पपवित्रकैः ॥८२॥मन्त्रसन्धानकं कुर्यान्नाडीसन्धिमथोभयोः ।विकिरान्संहितान्पूर्वं वार्धान्याः कल्पयेदधः ॥८३॥अक्षतास्त्राण्यनेकानि शरकुन्तासिमुद्गराः ।चक्रपट्टिसवज्रादि- त्रिशूलान्तान्यनेकशः ॥८४॥योगौको व्याप्य सर्वं तु तिर्यगूर्ध्वमधः स्थिताः ।वार्धान्यस्त्रस्य सर्वे ते रश्मिभूता व्यवस्थिताः ॥८५॥शिष्यस्य दक्षिणे हस्ते वार्धान्यस्त्रं तु संहितं ।तेनैतं यज्ञरक्षार्थं यागादौ कलशं न्यसेथ् ॥८६॥नैवेद्यं विविधं दत्त्वा नुत्वा विज्ञापयेद्विभुं ।भगवंस्त्वत्प्रसादेन यागं निर्वर्तयाम्यहं ॥८७॥सन्निधानं सदा तुभ्यं अविघ्नार्थं सदा भव ।अनुज्ञातोत्थितो यायादर्घहस्तो दिगीश्वरान् ॥८८॥स्वनामपदविन्यासानोंकारादिनमोन्तगान् ।गन्धपुष्पपवित्राद्यैः पूजयेत्तान्प्रयत्नतः ॥८९॥इन्द्राद्यनन्तपर्यन्तांल्लोकपालान्प्रपूजयेथ् ।ततो मण्डलकं मध्ये यागभूमौ प्रकल्पयेथ् ॥९०॥पञ्चगव्येन लिप्त्वादौ गन्धतोयेन चोपरि ।शिवाम्भसास्त्रमन्त्रेण सम्प्रोक्ष्य त्ववगुण्ठयेथ् ॥९१॥ब्रह्मस्थानस्य पूर्वेण गुरून्पूज्य विनायकं ।वायव्ये पूजयेद्देवि गन्धपुष्पैरनुक्रमाथ् ॥९२॥अथैतांस्तु नमस्कृत्य आज्ञां दत्तां विभावयेथ् ।ततस्तु मध्यदेशस्थं योगपीठं प्रकल्पयेथ् ॥९३॥पूर्वोक्तेन विधानेन भैरवेशं वरानने ।पूजयित्वा पवित्राद्यैस्त्रिरावरणसंयुतं ॥९४॥स्वध्यानगुणसंयुक्तं मुद्रालङ्कारभूषितं ।मन्त्रसन्धानकं पूर्वं नाडीसन्धानमेव च ॥९५॥परमीकरणं कुर्याद्व्यापकेन परेण तु ।नैवेद्यान्विविधाकारान्दत्त्वा मुद्रां प्रदर्शयेथ् ॥९६॥प्रणिपातं जपं कृत्वा निवेद्य विधिपूर्वकं ।पश्चाद्बलिः प्रदातव्यो मातृणां भूतसंहते ॥९७॥भूतेश्वराणां देवेशि क्षेत्रपालस्य सर्वतः ।ततः स्नायादथोद्धूल्य अथवाचम्य सुव्रते ॥९८॥ततोऽग्निकुण्डं गत्वा तु पूर्ववच्छोधनं तथा ।भैरवं पूजयेत्तत्र विधिदृष्टेन कर्मणा ॥९९॥अग्नेः सन्तर्पणं कुर्यात्सहस्रेण शतेन वा ।ततश्चरुं च श्रपयेत्स्थालीं संगृह्य निर्व्रणां ॥१००॥शिवाम्भसा तु प्रक्षाल्य कवचेनावगुण्ठयेथ् ।चन्दनाद्यैर्विलिम्पेत्तां मृष्टधूपेन धूपयेथ् ॥१०१॥सूत्रेण वेष्टयेत्कण्ठे वर्मभूतेन सुव्रते ।दर्भेणास्त्रस्वरूपेण कल्पयेन्मण्डलं प्रिये ॥१०२॥प्रोक्ष्य चैव शिवाम्भोभिः कवचेनावगुण्ठयेथ् ।आसनं तत्र विन्यस्येदनन्तादिशिवान्तकं ॥१०३॥मूर्तिभूतां न्यसेत्स्थालीं तत्रस्थं भैरवं यजेथ् ।त्रिरावरणसंयुक्तं गन्धपुष्पैरनुक्रमाथ् ॥१०४॥मानसेन प्रयोगेण भावपुष्पैर्वरानने ।चुल्लीं सम्प्रोक्ष्य चास्त्रेण कुण्डवच्चार्चयेत्ततः ॥१०५॥तत्र स्थालीं समारोप्य पश्चादग्निं न्यसेदधः ।क्षीरं प्रोक्ष्य शिवाम्भोभिस्तण्डुलांश्च समासतः ॥१०६॥मन्त्रेणाष्टशतेनैव प्रक्षिप्य पाचयेच्छनैः ।मूलमन्त्रेण देवेशि एकचित्तः समाहितः ॥१०७॥चालनोद्घाटनादीनि अस्त्रमन्त्रेण कारयेथ् ।तप्ताभिधारं सुस्विन्ने अङ्गैश्चैव प्रकल्पयेथ् ॥१०८॥त्रिभिस्त्रिभिर्घृतेनैव स्रुवेण जुहुयात्प्रिये ।भूमौ मण्डलकं कृत्वा प्रणवेनावतारयेथ् ॥१०९॥स्थालीमाज्योपलिप्तां तु शीताघारं च होमयेथ् ।भैरवेण षडङ्गेन वषड्जातियुतेन च ॥११०॥मण्डलं कुण्डसामीप्ये कृत्वा दर्भासनं न्यसेथ् ।स्थाल्यां तस्योपरि न्यस्य सम्पातं मन्त्रसंहितां ॥१११॥ढ्wइवेदि प्रिन्त्स्स्था(ल्यां लीं) तस्योपरिजपन्नेकैकयाहुत्या पातयेद्भैरवेण तु ।अष्टोत्कृष्टशतेनैव परामृतमनुस्मरन् ॥११२॥रजस्यादौ ततो देवि कर्तर्यां करणौ तथा ।खटिकातिलाज्यसम्पातं मूलमन्त्रेण कारयेथ् ॥११३॥त्रिभागं कल्पयित्वा तं चरुं स्थाल्यां तु संस्थितं ।शिवाग्निसाधकेभ्यश्च शिवायाग्रं निवेदयेथ् ॥११४॥द्वितीयं होमयेदग्नौ साधकेभ्यस्तृतीयकं ।चरुं पात्रे तु संगृह्य पूजयेद्भैरवेण तु ॥११५॥पुष्पधूपादिभिर्नीत्वा धाम्नैतं विनिवेदयेथ् ।हृदाद्यावरणस्थानां दशमांशं निवेदयेथ् ॥११६॥कलशेऽप्येवमेवं तु अग्नौ होम्यश्चरुः स्रुचा ।भैरवस्य शतं होम्यं अङ्गानां तु दशांशकं ॥११७॥साधकेभ्यस्तु यच्छेषं पिधाय स्थापयेत्प्रिये ।विनायके शतं होम्यं भूपरिग्रहणे तथा ॥११८॥अधिवासे तथैवेह अष्टोत्तरशतं हुतिः ।प्रायश्चित्तनिमित्तं तु अनुलोमविलोमके ॥११९॥न्यूनातिरिक्ते देवेशि अष्टोत्तरशतं हुतिः ।भैरवं पूजयित्वाथ प्रार्थ्यानुज्ञां वरानने ॥१२०॥शिशोः कर्म प्रकर्तव्यं यथा भवति तच्छृणु ।द्वारे मण्डलकं कृत्वा दर्भं तस्योपरि न्यसेथ् ॥१२१॥प्रणवेनासनं कल्प्यं शिष्यं तस्मिन्निवेशयेथ् ।समपादं स्तब्धकायं स्ॐयाननकृताञ्जलिं ॥१२२॥गुरुः पूर्वमुखोऽस्त्रेण प्रोक्षयेत्तं शिवाम्भसा ।भस्मना ताडयेन्मूर्ध्नि अस्त्रमन्त्रेण चालभेथ् ॥१२३॥नाभ्यूर्ध्वं त्रींस्तथा वारान्नभ्यधस्त्रीन्प्रकल्पयेथ् ।शिवं न्यासाङ्गसहितं पूजयेद्भैरवेण तु ॥१२४॥वस्त्रं सम्प्रोक्ष्य चास्त्रेण कवचेनावगुण्ठयेथ् ।पूजयेद्भैरवेणैव मुखं प्रच्छादयेत्तथा ॥१२५॥हस्ताभ्यां तं गृहीत्वाथ विशेज्जवनिकान्तरं ।देवस्याभिमुखं कृत्वा पुष्पं प्राणौ प्रदापयेथ् ॥१२६॥प्रक्षेपयेत्ततो धाम्ना मुखमुद्घाट्य दर्शयेथ् ।विद्यामन्त्रगणैः सार्धं कारणं ससदाशिवं ॥१२७॥अज्ञानपटनिर्मुक्तः प्रबुद्धः पशुरीक्षते ।दण्डवद्धरणीं गत्वा प्रणिपत्य पुनः पुनः ॥१२८॥कृतकृत्यः प्रहृष्टात्मा प्रहृष्टनयनं शिशुं ।उत्थाप्य हस्तान्संगृह्य दक्षिणां मूर्तिमानयेथ् ॥१२९॥तत्र मण्डलकं कृत्वा पुष्पेण प्रणवासनं ।तस्योपरि शिशुं न्यस्य ऊर्ध्वकायमुदङ्मुखं ॥१३०॥गुरुः पूर्वाननः स्थित्वा प्रोक्षणादीनि कारयेथ् ।उपवेश्य ततः कृत्वा सकलीकरणे विधिं ॥१३१॥विशेषफलसिद्ध्यर्थं मुमुक्षोः साधकस्य वा ।गन्धदिग्धौ करौ कृत्वा अस्त्रेण परिशोधयेथ् ॥१३२॥कवचेनावगुण्ठ्यैतौ प्लावयेदमृतेन तु ।अनन्तमासनं कल्प्यं भैरवाङ्गानि विन्यसेथ् ॥१३३॥व्योम्न्यात्मानं योजयित्वा शिशोः शोष्या तनुः प्रिये ।आग्नेयीं धारणां ध्यात्वा निर्दह्यास्त्रेण तं शिशुं ॥१३४॥धूमज्वालाविनिर्मुक्तं दग्धकायं विभावयेथ् ।भस्मीभूतं ततः शान्तं प्लावयेदमृतेन तु ॥१३५॥व्योमवच्चिन्तयेद्देहं चैतन्यं कनकाग्निवथ् ।शक्तिन्यासं न्यसेत्पूर्वं कमलं प्रणवेन तु ॥१३६॥तस्योपरि तदात्मानं ध्यायेज्ज्योतिर्मयं शुभं ।मूर्तिमन्त्रं समुच्चार्य मूर्तिभूतं प्रकल्पयेथ् ॥१३७॥पूर्वोद्धृतेन मन्त्रेण प्लावयेदमृतेन तु ।मन्त्रन्यासो यथापूर्वं अष्टात्रिंशत्कलावधि ॥१३८॥कलाध्वानं न्यसेत्पश्चाच्छान्त्यतीताद्यनुक्रमाथ् ।स्फटिकाभा तथा कृष्णा रक्ता शुक्ला च पीतका ॥१३९॥शान्त्यतीतादिका ज्ञेयास्तत्त्वभूतास्तु ताः कलाः ।धाम्नावाह्य तथाङ्गानि न्यस्यान्तःकरणं भवेथ् ॥१४०॥आत्मान्तःकरणे यद्वत्तद्वत्पूजां समारभेथ् ।धाम प्रोच्चार्य सन्दध्यात्सबाह्याभ्यन्तरं पुनः ॥१४१॥शिवहस्ते विभुं ध्यात्वा मन्त्रग्रामं सुजाज्वलं ।धामोच्चार्य च सन्धाय शिष्यमूर्ध्नि करं न्यसेथ् ॥१४२॥अधोमुखेन हृत्पृष्ठे शिवहस्तेन चालभेथ् ।उत्थाप्य दत्त्वा पुष्पं तु अञ्जलौ भैरवेण तु ॥१४३॥प्रवेश्याभ्यर्चयेच्छम्भुं शिवमुच्चार्य निक्षिपेथ् ।निर्गत्य वन्दयेद्देवं दण्डवत्त्रिः प्रदक्षिणं ॥१४४॥शिवकुम्भाग्निमध्यस्थं स्थण्डिलस्थं च वन्दयन् ।शिवपूजाग्निकार्यादौ सकलीकृतविग्रहः ॥१४५॥नान्यथा प्राक्स्वरूपेण पूजनार्हो भवेत्तु सः ।नीत्वा कुण्डसमीपं तं शिष्यहस्तावियोगतः ॥१४६॥आत्मसव्येऽथ दिग्भागे मण्डलं प्रणवेन तु ।प्रणवेनासनं दत्त्वा तस्योपरि शिशुं न्यसेथ् ॥१४७॥उपवेश्य करे दर्भं भैरवेण समर्पयेथ् ।मूलं शिष्यस्य हस्तस्थं साग्रमाचार्यजङ्घयोः ॥१४८॥पिङ्गला मध्यमा नाडी शिष्यदेहाद्विनिर्गता ।सैवात्र दर्भभूता तु गुरुनाड्यां लयं गता ॥१४९॥नाडीसन्धानहेत्वर्थं भैरवेणाहुतित्रयं ।तया नाड्या प्रवेष्टव्यं शिष्यस्य हृदये सकृथ् ॥१५०॥ग्रहणाकर्षणार्थं तु गृह्णन्मुञ्चन्पुनः पुनः ।दीक्षाकाले यतश्चैवं तदर्थं नाडिसंहतिः ॥१५१॥शिष्यस्याथ शिरोभूमौ भैरवेण विधाय तु ।सम्पातं सर्वमन्त्रैस्तु ध्रुवेणाज्याहुतिं क्षिपेथ् ॥१५२॥मूलमन्त्रं समुच्चार्य स्वा इत्यग्नौ प्रपातयेथ् ।हेति शिष्यस्य शिरसि सम्पातः शिवचोदितः ॥१५३॥शिष्.यदेहे तु ये मन्त्राः सबाह्याभ्यन्तरं स्थिताः ।कुण्डस्थाः पूजिता ये तु धामाद्यावरणान्तगाः ॥१५४॥युगपत्तर्पणं तेषां सम्पातस्तेन कीर्तितः ।एकैकस्यात्र मन्त्रस्य आहुतित्रितयेन तु ॥१५५॥उत्थाप्य च ततः शिष्यं तदर्थं मन्त्रतर्पणं ।भैरवाय शतं हुत्वा हृदादौ दशकं हुतिः ॥१५६॥धाम्ना चोत्थाय होतव्यं पूर्णाहुत्यानुतर्पयेथ् ।मन्त्राणां दीपनं कुर्याद्धामाद्यस्त्रावधि क्रमाथ् ॥१५७॥हुंकारद्वयमध्ये तु मूलमन्त्रं समुच्चरन् ।प्रणवादिफडन्तेन आहुतीः प्रतिपादयेथ् ॥१५८॥हृदादीनां च सर्वेषां जातिरुक्तात्र दीपने ।पाशानां बन्धनार्थाय मन्त्राणां दीपनं स्मृतं ॥१५९॥मन्त्राः करणभूतास्तु पशुकार्यस्य साधने ।आचार्यः करणं प्रोक्तः शिवरूपो यतः स्मृतः ॥१६०॥क्रूरकार्ये तु कर्तव्ये मन्त्रान्सन्दीप्य योजयेथ् ।क्रूरजात्यनुरूपेण वाचकान्योजयेत्सदा ॥१६१॥भ्रुकुटीकरालवदनान्वाच्यरूपान्विचिन्तयेथ् ।स्ॐयजातियुतान्स्ॐये स्ॐयरूपान्विचिन्तयेथ् ॥१६२॥पाशकर्म ततो वक्ष्ये कन्याकर्तितसूत्रकं ।त्रिगुणं त्रिगुणीकृत्य पाशबन्धनसूत्रकं ॥१६३॥शिवाम्भोऽस्त्रेण सम्प्रोक्ष्य कवचेनावगुण्ठयेथ् ।पूजयित्वा विधानेन गन्धपुष्पादिधूपकैः ॥१६४॥प्रसारयेद्गृहीत्वा तन्मूर्धाद्यङ्गुष्ठकावधि ।शिष्यस्य स्तब्धदेहस्य नाडीभूतं विचिन्तयेथ् ॥१६५॥सुषुम्ना मध्यमा नाडी सर्वनाडीसमन्विता ।ओंकारादि स्वनाम्ना तु नमस्कारावसानकं ॥१६६॥शिष्यदेहस्थितां नाडीं सूत्रे संगृह्य योजयेथ् ।गन्धपुष्पादिभिः पूज्य कवचेनावगुण्ठयेथ् ॥१६७॥सन्निधानाहुतीस्तिस्रः स्वनामपदजातिकाः ।शिवाम्भोऽस्त्रेण सम्प्रोक्ष्य शिष्यस्य हृदयं पुनः ॥१६८॥ताडयेदस्त्रपुष्पेण हृदि चित्संहृता भवेथ् ।हुंकारोच्चारयोगेन रेचकेन विशेद्धृदि ॥१६९॥नाडीरन्ध्रेण गत्वा तु चैतन्यं भावयेच्छिषोः ।कदम्बगोलकाकारं स्फुरत्तारकसन्निभं ॥१७०॥हृत्स्थं छित्त्वास्त्रखड्गेन हुम्फट्कारान्तजातिना ।धाम्ना चाङ्कुशरूपेण कर्षेच्छक्त्यवधि क्रमाथ् ॥१७१॥द्वादशान्तं तु संगृह्य सम्पुट्य हृदयेन तु ।संहारमुद्रया योज्यं सूत्रे नाडीप्रकल्पिते ॥१७२॥व्यापकं भावयित्वा तु कवचेनावगुण्ठयेथ् ।भैरवेणाहुतीस्तिस्रः सन्निधानस्य हेतवे ॥१७३॥द्वितीयः सूत्रदेहस्तु पाशा यत्र स्थितास्त्विमे ।बन्द्याश्चेद्यास्तथा दाह्याः सूत्रस्थाने न विग्रहे ॥१७४॥पाशास्तु त्रिविधा भाव्या मायीयाणवकर्मजाः ।चैतन्यरोधकास्त्वेते कार्यकारणरूपिणः ॥१७५॥मलः कर्म निमित्तं तु नैमित्तिकमतः परं ।आधाररूपं नैमित्तं शरीरभुवनादिकं ॥१७६॥निमित्तमभिलाषाख्यं विचित्रैर्हेतुरूपकैः ।तांश्चावलोकयेत्सूत्रे बन्ध्यबन्धनहेतुतः ॥१७७॥पाशानां ताडनं कार्यं हुम्फट्कारान्तजातिना ।स्वनामप्रणवाद्येन शान्त्यतीताद्यनुक्रमाथ् ॥१७८॥पुष्पेण ताडयेन्मूर्ध्नि ग्राह्यं हूमादि योजयेथ् ।हुंफ.कारान्तयोगेना- गृह्य संहारमुद्रया ॥१७९॥धाम्ना तु योजयेत्सूत्रे नमस्कारान्तयोगिना ।एवं शान्त्यादिकान्पाशान्स्थानात्संगृह्य योजयेथ् ॥१८०॥भावयेत्त्रिविधान्पाशान्पञ्चतत्त्वाध्वव्यापकान् ।त्रयाणां व्यापिका शक्तिः क्रियाख्या पारमेश्वरी ॥१८१॥शान्त्यतीतादिभेदेन पञ्चसंज्ञाप्रतिष्ठिता ।आधेयग्रह आधारं गृहीतं भावयेत्पशोः ॥१८२॥गन्धपुष्पादिभिः पूज्य सूत्रे पाशांश्तु तर्पयेथ् ।शान्त्यतीताक्रमेणैव आहुतीनां त्रयं त्रयं ॥१८३॥सन्निधानाय पाशानां अतः पाशांस्तु दीपयेथ् ।स्वनामजातिफट्कार- धामभिश्च त्रयं त्रयं ॥१८४॥विश्लेषकरणार्थं तु पाशानां दीपनं भवेथ् ।दीप्ताः पाशास्ततो बन्ध्यास्ताडनग्रहणादिना ॥१८५॥सूत्रस्थांस्ताडयेत्पुष्पैः स्वदेहस्थानिव क्रमाथ् ।धाम्ना च सम्पुटीकृत्य स्वनाम्ना च सकृत्सकृथ् ॥१८६॥बन्धने तु प्रयोगोऽयं सूत्रे ग्रन्थीन्प्रदापयेथ् ।बन्धने परिमाणं च कर्मणो विषयस्य च ॥१८७॥षट्त्रिंशत्तत्त्वमध्यस्थो भुङ्क्ते भोगं न चान्यथा ।पाशान्संस्थाप्य पात्रे तु संपातं जुहुयात्सकृथ् ॥१८८॥पात्रसम्पुटमध्यस्थान्स्थण्डिले विनिवेदयेथ् ।नीत्वा समर्पयेत्कुम्भे पाशान्संरक्ष हे विभो ॥१८९॥दर्भं विमोचयेच्छिष्यं पुष्पं पाणौ प्रदापयेथ् ।श्तण्डिले शिवकुम्भे च शिवाग्नौ च प्रपूजयेथ् ॥१९०॥ततः प्रदक्षिणं कृत्वा दण्डवन्निपतेद्भुवि ।उत्थाप्य पञ्चगव्यादीन्दद्याद्वै भैरवेण तु ॥१९१॥गोमयेन शुचौ देशे कार्यं मण्डलकत्रयं ।एकस्मिन्मण्डले विष्टः पञ्चगव्यं शिशुः पिबेथ् ॥१९२॥उपविश्य द्वितीये तु चरुकं प्राशयेद्बुधः ।आचम्य दन्तकाष्ठं तु तृतीये मण्डले स्थितः ॥१९३॥भक्षयित्वा च देवेशि ततश्चैव विनिक्षिपेथ् ।पूर्वं पश्चात्तथैशोर्ध्वं चोत्तरस्यां च शोभनं ॥१९४॥अन्यस्यामशुभं विद्धि तस्य होमः शतं भवेथ् ।आचार्यो जुहुयात्पश्चात्प्रायश्चित्तं शिवेन तु ॥१९५॥विधेर्न्यूनातिरिक्तस्य चित्तविक्षेपकर्मणि ।अष्टोत्तरशतं हुत्वा प्रायश्चित्ताद्विशुद्ध्यति ॥१९६॥पश्चात्सन्तर्पयेद्धोम- सहस्रेण शतेन वा ।मन्त्रांश्च दशभागेन वह्नौ नैवेद्यदापनं ॥१९७॥विशेषपूजनं चार्घं मुद्राबन्धं वरानने ।स्तोत्रं वाद्यं ततः कृत्वा चरुं प्राश्य विसर्जयेथ् ॥१९८॥निरोधार्घेण चार्घं तु दत्त्वा चैव वरानने ।रेचकेन तु संगृह्य भैरवं तमनुस्मरन् ॥१९९॥मुष्टिना पूरितं नीत्वा पूजयित्वा वरानने ।अग्निष्ठं वै पूरकेण गृहीत्वा स्थापयेत्पुनः ॥२००॥तत्रस्थं पूजयित्वा च कलशे तु विनिक्षिपेथ् ।कुसुमादिभिरभ्यर्च्य कुम्भ एव तु भैरवं ॥२०१॥प्रक्षिप्य चैव निर्माल्यं गोमयेन स्पृशेत्प्रिये ।शिवाम्भसा तु सम्प्रोक्ष्य शिष्ये शय्यां प्रकल्पयेथ् ॥२०२॥गृहिणो दर्भशय्यां तु यतेर्वै भस्मना प्रिये ।पूर्वाशिरा गृही कार्यो यतिर्वै दक्षिणाशिराः ॥२०३॥तत्र स्थितस्य शिष्यस्य शिखाबन्धं वरानने ।सिद्धार्थरोचनाद्यैश्च रक्षां कुर्यादसिं स्मरन् ॥२०४॥भस्मना रोचनाद्यैश्च अस्त्रप्राकारचिन्तनं ।कवचेनावगुण्ठ्यैव शिष्यं तु स्वापयेत्ततः ॥२०५॥ततश्चैव तु निर्गत्य बलिकर्म समारभेथ् ।बलिस्तु कल्पितः पूर्वं सर्वभूतेष्वथादराथ् ॥२०६॥तं तु संगृह्य देवेशि पूर्वादीशान्तकं क्षिपेथ् ।भूता ये विविधाकारा दिव्यभ्ॐआन्तरिक्षगाः ॥२०७॥पातालतलसंस्थाश्च शिवयागे सुभाविताः ।ध्रुवादिसर्वभूताश्च ऐन्द्राद्याशास्थिताश्च ये ॥२०८॥स्वाहाकारसमायोगात्तृप्यन्तूच्चारयन्क्षिपेथ् ।नमस्कारेण सम्पूज्य गन्धैर्धूपैरनुक्रमाथ् ॥२०९॥पूर्वादीशानपर्यन्तं अधश्चोर्ध्वं समन्ततः ।कोणस्थान्क्षेत्रपालांश्च पतिताञ्छ्वपचानपि ॥२१०॥बलिं दत्त्वा तु सर्वेभ्य आचम्य च वरानने ।सकलीकरणं कृत्वा क्रमेण प्राशयेच्चरुं ॥२११॥सहायैः सहितो वीर एकचित्तः समाहितः ।प्राङ्मुख उदङ्मुखो वा मण्डलस्थः पृथक्पृथक् ॥२१२॥पञ्चगव्यं पिबेत्पूर्वं चरुकं दन्तधावनं ।प्राश्यैवं सकलीकृत्य रक्षां पूर्ववदेव च ॥२१३॥यागबूमौ स्वपेत्पाश्चाच्छिष्यैः सह वरानने ।भैरवध्यानयोगेन समाधौ जाग्रदेव वा ॥२१४॥स्वच्छन्दतन्त्रेऽधिवासपटलस्तृतीयः N/A References : N/A Last Updated : June 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP