संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|स्वच्छन्दभैरवतन्त्र| द्वितीयः पटलः स्वच्छन्दभैरवतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः १ दशमः पटलः २ दशमः पटलः ३ दशमः पटलः ४ दशमः पटलः ५ दशमः पटलः ६ दशमः पटलः ७ दशमः पटलः ८ दशमः पटलः ९ दशमः पटलः १० दशमः पटलः ११ दशमः पटलः १२ दशमः पटलः १३ एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः स्वच्छन्दभैरवतन्त्र - द्वितीयः पटलः स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात. Tags : shastratantraतंत्रशास्त्रस्वच्छन्दभैरवतन्त्र द्वितीयः पटलः Translation - भाषांतर अथार्चनं प्रवक्ष्यामि यथावदनुपूर्वशः ।शौचं कृत्वा ततः स्नानं कर्तव्यं तु मृदम्भसा ॥१॥शुचिस्थानान्मृदं पूर्वं गृहीत्वास्त्रेण शोधितां ।प्रक्षाल्य जलतीरं तु स्थापयेत्तां वरानने ॥२॥भागद्वयं ततोऽस्त्रेण कर्तव्यं तु कृशोदरि ।भागार्धेन कटिं चोरू जङ्घे पादौ तथैव च ॥३॥क्षालयेत यथान्यायं त्रिरन्तरितयोगतः ।अवशिष्टं तु भागार्धं गृहीत्वास्त्राभिमन्त्रितं॥ ४॥सप्तवारान्वरारोहे अर्कदीप्तं तु कारयेथ् ।शिरःप्रभृति पादान्तं आगुष्ठ्य स्नानमाचरेथ् ॥५॥उत्तीर्योदकमध्यात्तु उपस्पृश्य यथाक्रमं ।संध्याया वन्दनं कुर्याच्छास्त्रदृष्टेन कर्मणा ॥६॥मलस्नानं भवेदेवं विधिस्नानं प्रचक्ष्महे ।भागार्धं यत्स्थितं पूर्वं ततो भागत्रयं कुरु ॥७॥वामहस्तस्य पूर्वे च दक्षिणे चोत्तरे क्रमाथ् ।पूर्वभागं ततोऽस्त्रेण सप्तवारांस्तु मन्त्रयेथ् ॥८॥दक्षिणस्थं तथा वक्त्रैरभिमन्त्र्य वरानने ।उत्तरं चाभिमन्त्र्यैवं देवेनाङ्गयुतेन च ॥९॥पूर्वभागं गृहीत्वा तु दशदिक्षु विनिक्षिपेथ् ।उत्तरेण तु भागेन जलं चैवाभिमन्त्रयेथ् ॥१०॥बाहुमात्रप्रमाणेन भैरवेशमनुस्मरन् ।आत्मानं गुण्ठयित्वा तु दक्षभागेन सुव्रते ॥११॥स्नायाद्राजोपचारेण सुगन्धामलकादिभिः ।प्राणायामाभिषेकौ तु कर्तव्यौ भैरवेण च ॥१२॥उत्तीर्योदकमध्यात्तु तद्वासः परिवर्तयेथ् ।उपस्पृश्य कृतन्यासो मूलमन्त्रमनुस्मरन् ॥१३॥तीर्थं संगृह्य देवेशि आत्मनोऽग्रे निधापयेथ् ।तत्रस्थो वन्दयेत्संध्यां मार्जनादिरनुक्रमाथ् ॥१४॥अघमर्षः प्रकर्तव्य उपस्थानं दिवाकरे ।जपं कृत्वा निवेद्यैवं प्रणम्य च वरानने ॥१५॥मन्त्राणां तर्पणं कृत्वा देवानामृषिभिः सह ।सर्वेषां भूतसंघानां ततस्तीर्थं तु संहरेथ् ॥१६॥मूलमन्त्रमनुस्मृत्य भस्मस्नानमतः परं ।मलस्नानं प्रकर्तव्यं भावितेनान्तरात्मना ॥१७॥परिवृत्त्य ततो वासः संध्यां प्रागिव वन्दयेथ् ।विधिस्नानं ततः कुर्याद्भैरवेशमनुस्मरन् ॥१८॥शिरो वक्त्रं च हृद्गुह्यं पादान्तं च विभागशः ।भैरवेणाङ्गयुक्तेन समुद्धूल्यं यथाक्रमं ॥१९॥अभिषेकं प्रकुर्वीत परं तत्त्वमनुस्मरन् ।संध्याया वन्दनं कुर्याद्यथापूर्वं वरानने ॥२०॥ततो यागगृहं गत्वा हस्तौ पादौ च क्षालयेथ् ।शिखां बद्ध्वा शिखां स्मृत्वा उपस्पृश्य विधानतः ॥२१॥सकलीकृतदेहस्तु पुष्पमादाय सुव्रते ।दिङ्मातृभ्यो नमस्कृत्य द्वारं संप्रोक्ष्य यत्नतः ॥२२॥शिवाम्भसास्त्रमन्त्रेण विघ्नप्रोच्चाटनं भवेथ् ।द्वारशाखोर्ध्वतो देवं गणेशं च श्रियं तथा ॥२३॥संपूज्य गन्धपुष्पाद्यैर्धूपादिभिरनुक्रमाथ् ।अर्घ्यपाद्योपहारैश्च ततो द्वारस्य चोत्तरे ॥२४॥नन्दिगङ्गे समभ्यर्च्य महाकालं च दक्षिणे ।कालिन्दीं चैव संपूज्य यथानुक्रमयोगतः ॥२५॥भैरवास्त्रं समुच्चार्य पुष्पं संगृह्य भावितः ।सप्ताभिमन्त्रितं कृत्वा ज्वलदग्निशिखाकुलं ॥२६॥नाराचास्त्रप्रयोगेण प्रविशेद्गृहमध्यतः ।निवारितं तेन सर्वं विघ्नजालमनन्तकं ॥२७॥ततो रक्षार्थमन्त्रं च दशदिक्षु विनिक्षिपेथ् ।मध्ये सम्पूज्य ब्रह्माणं गन्धैः पुष्पैरनुक्रमाथ् ॥२८॥दक्षिणायां ततो मूर्तौ प्रणवासनसंस्थितः ।उपविश्यासनं बद्ध्वा स्वभ्यस्तं वै पुरःस्थितं ॥२९॥गन्धदिग्धौ करौ कृत्वा अस्त्रेण परिशोधयेथ् ।कवचेनावगुण्ठ्यैतौ प्लावयेदमृतेन तु ॥३०॥परां शक्तिं तु संक्षोभ्य ततोऽनन्तं प्रकल्पयेथ् ।मूर्तिं न्यस्यानुवक्त्राणि स्वच्छन्दं परिकल्पयेथ् ॥३१॥अङ्गुष्ठादिकनिष्ठान्तं विन्यसेदङ्गपञ्चकं ।भैरवानपि संकल्प्य परं तत्त्वमनुस्मरेथ् ॥३२॥प्राणायामत्रयं कार्यं देहसंशुद्धिकारणं ।अशुद्धः स्वमरुद्रेच्यः शुद्धेनापूरयेत्तनुं ॥३३॥कुम्भकं रेचकं कृत्वा व्योम्न्यात्मानं निधापयेथ् ।खद्योतकनिभं सूक्ष्मं करणैस्तु विवर्जितं ॥३४॥कार्येणैव विहीनं च मायाप्रध्वस्तगोचरं ।शिवीकार्यस्तथात्मैव यथा भवति तच्छृणु ॥३५॥परं भावं तु संगृह्य ततः शोष्या तनुः प्रिये ।संहारेण यभिन्नेन रुद्रबीजयुतेन च ॥३६॥तेनैव दहनं कार्यं ऊर्ध्वाधोऽग्नियुतेन च ।अधो विष्णुसमायुक्तो वायुवर्णः सबिन्दुकः ॥३७॥उत्पूयनकरो ह्येष प्लावने वारुणः स्मृतः ।बिन्दुमस्तकसंभिन्नः शक्तिन्यासस्ततो भवेथ् ॥३८॥आनयेत्तं यथानीतं प्लावयेदमृतेन तु ।मलप्रध्वस्तचैतन्यं कलाविद्यासमाश्रितं ॥३९॥रागेण रञ्जितात्मान कालेन कलितं तथा ।नियत्या यमितं भूयः पुंभावेनोपबृंहितं॥ ४०॥प्रधानाशयसंपन्नं गुणत्रयसमन्वितं ।बुद्धितत्त्वसमासीनं अहङ्कारसमावृतं॥ ४१॥मनसा बुद्धिकर्माक्षैस्तन्मात्रैः स्थूलभूतकैः ।प्रणवेन तु सर्वं तच्छरीरोत्पत्तिकारणं॥ ४२॥न्यसेत्क्रमेण देवेशि त्रिंशदेकं च संख्यया ।षट्तत्त्वी त्वात्मसंबद्धा ज्ञातव्यात्र वरानने ॥४३॥प्रधानावनिपर्यन्तं शरीरं च विनिर्मितं ।चतुर्विंशतितत्त्वानि चैतन्यरहितानि तु ॥४४॥द्रष्टव्यानि वरारोहे पुरुषाधिष्ठितानि तु ।सचेतनानि सर्वाणि ज्ञातव्यानि सदैव हि ॥४५॥पञ्चविंशकमेतच्च प्राकृतं समुदाहृतं ।ततो मूर्तिं न्यसेद्देवि मूलमन्त्रसुलक्षितं॥ ४६॥सकलं भैरवं न्यस्य द्वात्रिंशार्णं सुलोचने ।मुखानि कल्पयेत्पश्चान्मूर्धादिचरणावधि ॥४७॥वक्त्राणि कल्पयेत्पश्चादूर्ध्वं पूर्वं च दक्षिणं ।उत्तरं पश्चिमं चैव यथावत्प्रविभागशः ॥४८॥कलाभेदं यथापूर्वं शोध्याध्वानं प्रकल्पयेथ् ।नवतत्त्वं त्रितत्त्वं च विद्याङ्गा लोचनत्रयं॥ ४९॥वर्गातीतेन क्षुरिकां ऊर्ध्वाधोऽग्निप्रदीपितां ।षोडशान्तर्हता सा तु रक्षि"का विघ्ननाशिका ॥५०॥नवकं कल्पयेत्पूर्वं मूर्ध्नि वक्त्रे च कण्ठके ।हृदये नाभिदेशे च गुह्य ऊर्वोश्च जानुतः ॥५१॥पादान्तं चैव विन्यस्य स्वध्यानगुणसंयुतं ।क्रियाज्ञाने तथेच्छा च दक्षे वामे च मध्यतः ॥५२॥विद्याराजः स्मृतो ह्येष भैरवो मन्त्रनायकः ।निष्कलं तु तथावाह्य अङ्गान्येवं यथाक्रमं ॥५३॥गन्धैर्धूपैस्तथा पुष्पैर्विविधैर्भक्ष्यभोजनैः ।पूजयेद्देवदेवेशं मनसैव प्रकल्पितैः ॥५४॥आत्मानं भैरवं ध्यात्वा ततो हृद्यागमाचरेथ् ।नाभौ कन्दं समारोप्य नालं तु द्वादशाङ्गुलं ॥५५॥हृदन्तं कल्पयेद्यावत्तत्र पद्मं विचिन्तयेथ् ।अष्टपत्रं महादीप्तं केसरालं सकर्णिकं ॥५६॥कन्दं शक्तिमयं तत्र नाले वै कण्टकास्तु ये ।भुवनानि च तान्येव रुद्राणां वरवर्णिनि ॥५७॥मायात्मको भवेद्ग्रन्थिरशुद्धाध्वव्यवस्थितः ।विद्यापद्मं महादीप्तं कर्णिकाबीजराजितं ॥५८॥पुष्कराणि च देवेशि तत्र विद्येश्वराः स्मृताः ।एवं ध्यात्वा महापद्मं सर्वदेवमयं शुभं ॥५९॥शक्तिन्यासो भवेत्पूर्वं कन्दं तु तदनन्तरं ।अङ्कुरं नालविन्यासं अनन्तं परिकल्पयेथ् ॥६०॥तेजोमयं महाशुभ्रं स्फुरत्किरणभास्वरं ।धर्मं ज्ञानं च वैराग्यं ऐश्वर्यं च क्रमान्न्यसेथ् ॥६१॥सितरक्तपीतकृष्णा आग्नेय्यादीशदिग्गताः ।पादकाः सिंहरूपास्ते त्रिनेत्रा भीमविक्रमाः ॥६२॥शिवशक्तिमया मन्त्रा न्यस्तव्या वीरविन्दते ।अधर्माज्ञानावैराग्यं अनैश्वर्यं च प्राग्दिशः ॥६३॥उत्तरान्तं निवेश्यं तु गात्रकाः सितवर्णकाः ।संधानकीलकाश्चैव अतसीपुष्पसंनिभाः ॥६४॥वेदा युगाश्च ते चैव ज्ञातव्याः क्रमशः प्रिये ।अधश्छादनमूर्ध्वं च रक्तं शुक्लं विचिन्तयेथ् ॥६५॥मध्ये तमो विजानीयाद्गुणास्त्वेते व्यवस्थिताः ।सितं पद्मं विजानीयात्केसराणि विचिन्तयेथ् ॥६६॥सितरक्तप्रपीतानि मूलमध्याग्रदेशतः ।कर्णिका हेमसंकाशा बीजानि हरितानि तु ॥६७॥वामां पूर्वदले न्यस्य ज्येष्ठां वह्निदलाश्रितां ।रौद्रीं दक्षिणपत्रे तु कालीं नैरृतगोचरे ॥६८॥कलविकरणीं देवीं विन्यस्येद्वारुणे दले ।बलविकरणीं देवीं वायव्यदलमाश्रितां ॥९॥बलप्रमथनीं देवीं उत्तरे विनियोजयेथ् ।सर्वभूतदमनीं च ऐशान्यां विनियोजयेथ् ॥७०॥मध्ये मनोन्मनीं देवीं कर्णिकायां निवेशयेथ् ।शक्रचापनिभं देवि ध्यातव्यं शक्तिमण्डलं ॥७१॥मध्ये सूर्यसहस्राभां चिन्तयेत्तु मनोन्मनीं ।सूर्याध्वमण्डलं पत्रे सोमं संयोज्य केसरे ॥७२॥वह्निमण्डलकं देवि कर्णिकायां निवेशयेथ् ।ब्रह्मा विष्णुर्हरश्चैव मण्डलेष्वधिपाः स्मृताः ॥७३॥ब्रह्मा चतुर्मुखो रक्तश्चतुर्बाहुविभूषितः ।कृष्णाजिनोत्तरीयश्च राजीवासनसंस्थितः ॥७४॥कमण्डलुधरो देवि दण्डहस्तस्तथैव च ।अक्षमालाधरो देवः पद्महस्तः सुलोचनः ॥७५॥ध्यात्वा पत्रेषु तं न्यस्येत्सर्वकिल्विषनाशनं ।अतसीपुष्पसंकाशं शङ्खचक्रगदाधरं ॥७६॥पीताम्बरधरं देवं वनमालाविभूषितं ।स्फुरन्मुकुटमाणिक्यं किङ्किणीजालमण्डितं ॥७७॥दिव्यकुण्डलधर्तारं गरुडासनसंस्थितं ।ध्यात्वा विष्णुं महात्मानं केसरेषु निवेशयेथ् ॥७८॥शङ्खकुन्देन्दुधवलं शूलहस्तं त्रिलोचनं ।दशबाहुं विशालाक्षं नागयज्ञोपवीतिनं ॥७९॥सिंहचर्मपरीधानं शशाङ्ककृतभूषणं ।नीलकण्ठं वृषारूढं रुद्रं ध्यात्वा वरानने ॥८०॥निवेशयेत्कर्णिकायां महापातकनाशनं ।महाप्रेतं न्यसेत्पश्चात्प्रहसन्तं सचेतनं ॥८१॥रक्तवर्णं सुतेजस्कं नेत्रत्रयविभूषितं ।प्रणवेन न्यसेत्सर्वं आसनं भैरवस्य तु ॥८२॥गन्धैः पुष्पैः समभ्यर्च्य ततो मूर्तिं प्रकल्पयेथ् ।कदम्बकुसुमाकारां तुषारकिरणत्विषं ॥८३॥मूर्त्यूर्ध्वे भैरवं देवं सकलं परिकल्पयेथ् ।द्वात्रिंशद्वर्णकचितं स्फुरत्तडिदिवोज्ज्वलं ॥८४॥वक्त्राणि कल्पयेद्देवि स्वध्यानेन महेश्वरि ।मूर्धादिचरणं यावत्प्रणवादिनमोन्ततः ॥८५॥अष्टात्रिंशत्कलाभेदं शोध्याध्वानं प्रकल्पयेथ् ।नवतत्त्वं त्रितत्त्वं च नवकं भैरवाभिधं ॥८६॥विद्याङ्गा लोचनं चैव क्षुरिकां च प्रकल्पयेथ् ।शक्तित्रयं ततो न्यस्येद्दक्षदिग्वामगोचरे ॥८७॥मध्यप्रदेशे देवेशि ततो रूपमनुस्मरेथ् ।त्रिपञ्चनयनं देवं जटामुकुटमण्डितं ॥८८॥चन्द्रकोटिप्रतीकाशां चन्द्रार्धकृतशेखरं ।पञ्चवक्त्रं विशालाक्षं सर्पगोनासमण्डितं ॥८९॥वृश्चिकैरग्निवर्णाभैर्हारेण तु विराजितं ।कपालमालाभरणं खड्गखेटकधारिणं ॥९०॥पाशाङ्कुशधरं देवं शरहस्तं पिनाकिनं ।वरदाभयहस्तं च मुण्डखट्वाङ्गधारिणं ॥९१॥वीणाडमरुहस्तं च घण्टाहस्तं त्रिशूलिनं ।वज्रदण्डकृताटोपं परश्वायुधहस्तकं ॥९२॥मुद्गरेण विचित्रेण वर्तुलेन विराजितं ।सिंहचर्मपरीधानं गजचर्मोत्तरीयकं ॥९३॥अष्टादशभुजं देवं नीलकण्ठं सुतेजसं ।ऊर्ध्ववक्त्रं महेशानि स्फटिकाभं विचिन्तयेथ् ॥९४॥आपीतं पूर्ववक्त्रं तु नीलोत्पलदलप्रभं ।दक्षिणं तु विजानीयाद्वामं चैव विचिन्तयेथ् ॥९५॥दाडिमीकुसुमप्रख्यं कुङ्कुमोदकसंनिभं ।चन्द्रार्बुदप्रतीकाशं पश्चिमं तु विचिन्तयेथ् ॥९६॥स्वच्छन्दभैरवं देवं सर्वकामफलप्रदं ।ध्यायते यस्तु युक्तात्मा क्षिप्रं सिध्यति मानवः ॥९७॥ततः परमबीजेन परं परमकारणं ।सुशान्तं निष्कलं देवं सर्वव्यापिनिरञ्जनं ॥९८॥आवाहयेत्सुहृष्टात्मा तव देवि वदाम्यहं ।हृत्कण्ठतालुभ्रूमध्य- नादान्तान्तसमाश्रितं ॥९९॥निष्कम्पं कारणातीतं आवाह्य परमेश्वरं ।संस्थाप्य विधिवद्देवं अङ्गषट्कं ततो न्यसेथ् ॥१००॥पाद्यमाचमनं चार्घं स्वागतं तदनन्तरं ।संनिधानं च देवेशि निष्ठुरया निरोधयेथ् ॥१०१॥गन्धैः पुष्पैस्तथा धूपैर्धूपयित्वा तमर्चयेथ् ।मुद्रां प्रदर्शयेत्पश्चात्त्रिधा त्रैकाल्यकर्मणि ॥१०२॥ततः स्नानादिकं कर्म कृत्वा चैव वरानने ।परिधाप्य सुवस्त्राणि नेत्रपट्टोद्भवानि च ॥१०३॥विलिप्यागुरुकर्पूरैर्मुकुटाद्यैर्विभूषयेथ् ।पुष्पैर्नानाविधैः शुभ्रैरर्चयेद्भूषयेत्पुनः ॥१०४॥अर्घं दत्त्वा महेशानि पुनर्मुद्रां प्रदर्शयेथ् ।प्रणम्य भैरवं देवं स्वच्छन्दं विश्वनायकं ॥१०५॥ततो ह्याभरणं बाह्ये विनिवेश्यं वरानने ।ऐशान्यां पूर्वतो याम्यां उत्तराप्यावसानकं ॥१०६॥विन्यसेत्पञ्च वक्त्राणि पञ्चवक्त्रयुतानि च ।बाहुभिर्दशभिश्चैव शशाङ्कमुकुटैः सह ॥१०७॥ध्यातव्यानि स्वरूपाणि वराभयकराणि तु ।अग्नीशरक्षोवायव्य- चतुर्दिक्षु च तं न्यसेथ् ॥१०८॥हृच्छिरश्च शिखा वर्म अस्त्रं च प्रविभागशः ।हृदयं रक्तवर्णाभं शिरो गोरोचनप्रभं ॥१०९॥तडिद्वलयसंकाशां शिखां देवीं विचिन्तयेथ् ।आधूम्रं कवचं विद्यात्कपिशं चास्त्रमेव च ॥११०॥ज्योतीरूपप्रतीकाशं नेत्रं मध्ये च संस्थितं ।पञ्चवक्त्राः स्मृताः सर्वे दशबाह्विन्दुभूषिताः ॥१११॥नानाभरणसंयुक्ता नानास्रग्गन्धलेपनाः ।नानावस्त्रपरीधाना मुकुटैरुज्ज्वलैः शुभैः ॥११२॥रत्नमालावनद्धाश्च हारकेयूरभूषिताः ।द्विरष्टवर्षकाकाराः सुरूपाः स्थिरयौवनाः ॥११३॥भैरवाद्याः स्मृता मन्त्राः पीठेशाः पीठमर्दकाः ।या सा पूर्वं मया ख्याता अघोरी शक्तिरुत्तमा ॥११४॥भैरवं पूजयित्वा तु तस्योत्सङ्गे तु तां न्यसेथ् ।यादृशं भैरवं रूपं भैरव्यास्तादृगेव हि ॥११५॥ईषत्करालवदनां गम्भीरविपुलस्वनां ।प्रसन्नास्यां सदा ध्यायेद्भैरवीं विस्मितेक्षणां ॥११६॥द्वितीयावरणे देवि विन्यसेद्भैरवाष्टकं ।कपालीशं तु पूर्वायां आग्नेय्यां शिखिवाहनं ॥११७॥दक्षिणे क्रोधराजं तु विकरालं तु नैरृते ।मन्मथं पश्चिमे भागे मेघनादेश्वरं तथा ॥११८॥वायव्ये देवि विन्यस्य सोमराजं तथोत्तरे ।विद्याराजं तथैशान्यां विन्यसेत्तु सुभावितः ॥११९॥पञ्चवक्त्रास्त्रिनेत्राश्च दशबाह्विन्दुशेखराः ।कपालमालाभरणाः स्फुरन्माणिक्यमण्डिताः ॥१२०॥पूर्वं पीतं स्मृतं देवि रक्तमाग्रेयगोचरे ।दक्षिणे नीलमेघाभं नैरृत्यां ज्वलनप्रभं ॥१२१॥श्यामं चापरदिग्भागे धूम्रं वायव्यगोचरे ।चन्द्रबिम्बप्रभं स्ॐये ईशाने स्फटिकप्रभं ॥१२२॥तृतीये चैव लोकेशान्सास्त्रान्संपरिकल्पयेथ् ।नामानि तेषां वक्ष्यामि यथावदनुपूर्वशः ॥१२३॥इन्द्राग्नियमनिरृति- वरुणाश्च समीरणः ।सोमराजः कुबेरश्च ईशानः परमेश्वरः ॥१२४॥भैरवाष्टकरूपेण ध्यातव्यास्तु वरानने ।वज्रं शक्तिस्तथा दण्डः खड्गः पाशस्तथैव च ॥१२५॥ध्वजो गदा त्रिशूलं च लोकपालयुधानि वै ।वज्रं चानेकवर्णाढ्यं शक्तिं हेमसमप्रभां ॥१२६॥दण्डं भिन्नाञ्जनाभं च खड्गं नीलोत्पलप्रभं ।किंशुकाभं तथा पाशं ध्वजं शुक्लं विचिन्तयेथ् ॥१२७॥गदां तु विद्रुमाभां वै शूलं विद्युत्समप्रभं ।संपूज्यावरणं सर्वं संधानं मन्त्रनायके ॥१२८॥अस्त्राणि लोकपालाश्च भैरवाष्टकमेव च ।पञ्च ब्रह्मान्यथाङ्गानि एतान्यावरणानि तु ॥१२९॥क्रमेणोच्चारयेत्सर्वं यावत्तद्गर्भमैश्वरं ।मूलमन्त्रेण कर्तव्यं नाडीसंधानमेव च ॥१३०॥परान्तं यावदाभाव्य नैवेद्यानि निवेदयेथ् ।घारिका वटकांश्चैव शष्कुलीर्मोदकांस्तथा ॥१३१॥खण्डलड्डुशरावाणि भक्ष्याणि विविधानि च ।शाल्योदनं मुद्गसूपं आज्याक्तं संप्रकल्पयेथ् ॥१३२॥कौशल्यां मण्डकापूपांस्तथा क्षौद्रशिरांसि च ।घृताक्तांश्चिल्लकांश्चैव लवणान्परिकल्पयेथ् ॥१३३॥अवदंशान्यनेकानि कटूनि मधुराणि च ।रसालां च दधि क्षीरं आसवं विविधं तथा ॥१३४॥मत्स्यमांसान्यनेकानि लेह्यपेयानि यानि च ।अग्रमापूरयेच्छंभोर्वित्तशाठ्यविवर्जितः ॥१३५॥पश्चादर्घः प्रदातव्यः सुरया सुसुगन्धया ।मुद्रां प्रदर्शयेत्पश्चात्त्रिधा त्रैकाल्यकर्मणि ॥१३६॥प्रणिपातं ततः कृत्वा जपं पश्चात्समाचरेथ् ।अक्षमालां तु संगृह्य गन्धैः पुष्पैः समर्चितां ॥१३७॥वाङ्निरुद्वः सुचित्तात्मा राजीवासनसंस्थितः ।मूलमन्त्रं समुच्चार्य नादे लीनं विचिन्तयेथ् ॥१३८॥उन्मील्याक्षाणि संचिन्त्य ततस्तु जपमारभेथ् ।अक्षराक्षरसन्तानं न द्रुतं न विलम्बितं ॥१३९॥जपः प्राणसमः कार्यः दिनस्थो मुक्तिकाङ्क्षिभिः ।संहारः स तु विज्ञेयः शिवधामफलप्रदः ॥१४०॥व्योम्नि प्राप्तो यदा नादः पुनरेव निवर्तते ।शर्वरी सा तु विज्ञेया हृदब्जं यावदागतः ॥१४१॥सृष्टिरेषा समाख्याता सर्वसिद्धिफलोदया ।आत्मनो भैरवं रूपं सदा भाव्यं वरानने ॥१४२॥तस्य विघ्ना विनश्यन्ति जपश्च सफलो भवेथ् ।जप्त्वा निवेदयेद्देवि भैरवाय वरानने ॥१४३॥पूरकेण प्रयोगेण त्रिस्थं च त्रितयान्वितं ।त्रिसिद्धिसिद्धिदं देवि सरहस्यमुदाहृतं ॥१४४॥शान्तिके मानसो जप्य उपांशुः पौष्टिके स्मृतः ।सशब्दश्चाभिचारेऽसौ प्रागुदग्दक्षिणामुखः ॥१४५॥आत्मा न शृणुते यं तु मानसोऽसौ प्रकीर्तितः ।आत्मना श्रूयते यस्तु तमुपांशुं विजानते ॥१४६॥परे शृण्वन्ति यं देवि सशब्दः स उदाहृतः ।अष्टोत्तरशतेनैव अक्षमाला समेरुका ॥१४७॥रुद्राक्षशङ्खपद्माक्ष- पुत्रजीवकमौक्तिकैः ।स्फाटिकी मणिरत्नोत्था सौवर्णी वैद्रुमी तथा ॥१४८॥दशाक्षमाला देवेशि गृहस्थानां प्रकीर्तिताः ।सूत्रं ध्यात्वा परां शक्तिं अध्वभागांस्ततो मणीन् ॥१४९॥व्यक्तिस्थानं शिवस्याध्वा ततस्तद्धर्मिणीं स्मरेथ् ।सप्तविंशतिभिः कुर्याद्द्विगुणैर्वा चतुर्गुणैः ॥१५०॥समैस्तु संहतैरेकं शिवतत्त्वात्मकं मुखे ।न तं विलङ्घयेद्विद्वान्सृष्टिसंहारकारणं ॥१५१॥वीरस्थानरतानां हि वीराणां वरवर्णिनि ।महाशङ्खाक्षसूत्रं तु सर्वकामफलप्रदं ॥१५२॥गृहस्थेन न कर्तव्यं उद्वेगजननं परं ।तस्मात्तु स्फाटिकी माला जप्तव्या साधकोत्तमैः ॥१५३॥साधयेद्विविधान्कामानधमान्मध्यमोत्तमान् ।एवं हृदम्बुजावस्थो यष्टव्यो भैरवो विभुः ॥१५४॥सबाह्याभ्यन्तरं कृत्वा पश्चाद्यजनमारभेथ् ।तत्रार्घपात्रमादौ वै सौवर्णं राजतं तथा ॥१५५॥शाङ्खं शाम्बूकं शौक्तं वा ताम्रं मृण्मयमेव वा ।पद्मपत्रपलाशोत्थं गृहीत्वा क्षाल्य वारिणा ॥१५६॥अस्त्रजप्तेन देवेशि प्रलिप्यागुरुचन्दनैः ।मृष्टधूपेन संधूप्य वारिणापूरयेत्ततः ॥१५७॥वस्त्रपूतेन शुद्धेन ताडयेदस्त्रमुच्चरन् ।वर्मावगुण्ठितं कृत्वा यागं तत्रैव विन्यसेथ् ॥१५८॥पूर्वोक्तेन विधानेन प्रोक्ष्यस्तेन समासतः ।यागार्थो द्रव्यसंघातः ततो यजनमारभेथ् ॥१५९॥शक्तिं न्यस्य ततश्चादौ व्योमाकारां सुजाज्वलां ।सकलव्यापिकां सूक्ष्मां शिवाधारां तु सर्वगां ॥१६०॥ओंकारदीपितां देवीं नमस्कारावसानिकां ।अनन्तं चैव विन्यस्य धर्मं ज्ञानं तथैव च ॥१६१॥वैराग्यं च तथैश्वर्यं आग्नेय्यादिक्रमेण तु ।अधर्मं च तथाज्ञानं अवैराग्यमनैश्वरं ॥१६२॥संधानकीलकांश्चैव अधश्छादनमूर्ध्वगं ।पद्मं सकेसरं देवि कर्णिकां पुष्कराणि च ॥१६३॥मण्डलत्रितयं देवाञ्शक्तीश्चापि शिवान्तकं ।मूर्तिं ब्रह्मकलाजालं नवतत्त्वं त्रितत्त्वकं ॥१६४॥भैरवाष्टकविद्याङ्ग- लोचनं क्षुरिकां तथा ।शक्तित्रयं परं देवं अङ्गषट्कसमन्वितं ॥१६५॥विन्यस्य भावयेद्देवि सततं विधिपूर्वकं ।निर्वर्त्य तु यथान्यायं प्रहृष्टेनान्तरात्मना ॥१६६॥स्वागतं चार्ध्यपाद्यं च सन्निधानं तथैव च ।रोधं निष्ठुरया कुर्यान्मूलमन्त्रमनुस्मरन् ॥१६७॥पूजा सुविपुला कार्या गन्धधूपस्रगादिभिः ।मुद्रां प्रदर्शयेत्पश्चात्त्रिधा त्रैकाल्यकर्मणि ॥१६८॥तत आवरणं बाह्ये विनिवेश्यं वरानने ।ईशपूर्वयाम्यस्ॐय- वरुणान्तं प्रकल्पयेथ् ॥१६९॥वक्त्राणां पञ्चकं देवि स्वध्यानगुणसंयुतं ।आग्नेयैशानरक्षःसु सामीरैन्द्रदिशोरपि ॥१७०॥उत्तरान्तं निवेश्यं तु अङ्गानां पञ्चकं तथा ।नेत्रं तु कर्णिकायां वै पूर्वस्यां दिशि संस्थितं ॥१७१॥स्वमन्त्रेण तु सर्वेषां अर्ध्यं पाद्यं समाहितः ।मन्त्रसंकरपुष्पाणि न कुर्यात्साधकः सदा ॥१७२॥न बाहुं पृष्ठतो वापि मन्त्राणां परिकल्पयेथ् ।परिपाट्या तु दातव्यं न मन्त्रांल्लङ्घयेत्क्वचिथ् ॥१७३॥स्वमुद्रामन्त्रसंयुक्तान्युगपत्परिकल्पयेथ् ।अर्ध्यं पाद्यं च धूपं च नित्यं तावत्समाचरेथ् ॥१७४॥सर्वेषामेव मन्त्राणां विधिरेष प्रकीर्तितः ।भैरवाष्टकलोकेशान्सास्त्रान्संपरिकल्पयेथ् ॥१७५॥बाह्ये श्मशानविन्यासं प्रणवादिनमोन्तगं ।पूर्वादीशानपर्यन्तं कल्पयेत विधानतः ॥१७६॥आमर्दकं च पूर्वं वै श्मशानाधिपतिं विभुं ।श्मशानैः सकबन्धैश्च सशूलोद्बन्धभीषणैः ॥१७७॥चितिभिः प्रज्वलन्तीभिः शिवारावैः सुभीषणैः ।अग्निकं दक्षिणे भागे कालाख्यं पश्चिमे तथा ॥१७८॥एकपादं तथा स्ॐये आग्नेय्यां त्रिपुरान्तकं ।नैरृत्यामग्निजिह्वं तु वायव्यां तु करालिनं ॥१७९॥ऐशान्यां भीमवक्त्रं तु श्मशानेशाः प्रकीर्तिताः ।तर्पयेन्मत्स्यमांसाद्यैरासवैर्विविधैस्तथा ॥१८०॥गन्धं पुष्पं तथा धूपं सर्वेषां तु प्रदापयेथ् ।प्रणिपातं ततः कृत्वा जप्त्वा मन्त्रं सुभावितः ॥१८१॥रेचकेन प्रयोगेन निवेद्य विधिपूर्वकं ।हुड्डुङ्कारनमस्कारान्कृत्वा चैव ततो व्रजेथ् ॥१८२॥अग्निकुण्डसमीपं तु अर्घहस्तः सुभावितः ।कुण्डं तु लक्षणोपेतं प्रोक्षयेदस्त्रवारिणा ॥१८३॥कवचेनावगुण्ठ्यैतदस्त्रदर्भेण चोल्लिखेथ् ।उद्धृत्य प्रोक्षयेत्पश्चादस्त्रमन्त्रेण भामिनि ॥१८४॥पूरणं तेन कर्तव्यं समीकरणमेव च ।सेचनं कुट्टनं चैव लेपनं तेन कारयेथ् ॥१८५॥प्रोक्षणं शोषणं चैव तथास्त्रेणैव कारयेथ् ।पूजनं गन्धपुष्पाद्यैः असिना चाभिमन्त्रणं ॥१८६॥वज्रीकरणमस्त्रेण रेखाः पूर्वापरास्त्रयः ।याम्यस्ॐयमुखी चैका वज्रमेतत्प्रकीर्तितं ॥१८७॥वज्रीकरणमस्त्रेण रेखास्तिस्रस्तु पूर्वगाः ।याम्यस्ॐयमुखा त्वेका वज्रमेतत्प्रकीर्तितं ॥१८७॥असिनैवाग्निकुण्डं तद्दर्भैः पूर्वाग्रसंस्तरैः ।सबाह्याभ्यन्तरं छाद्यं गृहहेत्वर्थमीश्वरि ॥१८८॥कुण्डस्य दक्षिणे भागे शुष्कगोमयमासनं ।दर्भेण विष्टरं पुष्पं प्रणवेन प्रकल्पयेथ् ॥१८९॥स्वनामपदसंयुक्तं स्वध्यानेन नमोन्तगं ।आमन्त्रणपदेनैव ब्रह्माणं स्थाप्य पूजयेथ् ॥१९०॥पुष्पादिभिः सुधूपाद्यैर्ध्रुवेण तु यथाक्रमं ।चतुष्पथं कुण्डमध्ये दर्भाभ्यां प्रणवेन तु ॥१९१॥पूर्वसौभ्याग्रभागाभ्यां विष्टरं तस्य चोपरि ।पुष्पं तस्योपरिष्टात्तु हृदयेनैव पूजयेथ् ॥१९२॥वागीशीं च समाहूय प्रणवादिनमोन्तगां ।नीलोत्पलदलश्यामां ऋतुमच्चारुलोचनां ॥१९३॥सर्वलक्षणसंपूर्णां सर्वावयवभूषितां ।ध्यात्वा चैवंविधां देवीं स्थापयेत्कुण्डमध्यतः ॥१९४॥ऋतुकाल इवोत्तानां शिरसैशानसंस्थितां ।पूजयेद्गंधपुष्पाद्यैर्भवमन्त्रमनुस्मरन् ॥१९५॥ततो मुद्रां दर्शयेत संनिधानाय मन्त्रविथ् ।ततोऽग्निपात्रमादाय शिवाम्भोऽस्त्रेण प्रोक्षयेथ् ॥१९६॥कवचेनावगुण्ठ्यापि प्रणवेनैव पूजयेथ् ।अरण्यादिसमुद्भूतं लोकाग्न्यन्तं विधानतः ॥१९७॥अग्निं तु शुक्रवद्ध्यात्वा चैतन्यं प्रणवेन तु ।षडङ्गेनैव संपूज्य अमृतत्वं ध्रुवेण तु ॥१९८॥आत्मानं भैरवं ध्यात्वा अग्निं ध्यात्वा तु बीजवथ् ।ध्रुवेण कुण्डबाह्ये तु त्रिधाभ्राम्यावतारयेथ् ॥१९९॥योनौ तु बीजवत्क्षिप्त्वा भैरवेण शिवाम्भसा ।अस्त्रमुच्चार्य संप्रोक्ष्य योनिं प्रच्छादयेद्बुधः ॥२००॥दर्भेण ध्रुवमन्त्रेण अक्षवाटं ततो न्यसेथ् ।अस्त्रेणैव चतुर्दिक्षु दर्भैरेव प्रकल्पयेथ् ॥२०१॥सप्तवारास्त्रमन्त्रेण दर्भेणैव तु कङ्कणं ।दक्षहस्ते तु बध्नीयादस्त्रमन्त्रमनुस्मरन् ॥२०२॥रक्षार्थमग्निगर्भस्य गर्भाधानमतो भवेथ् ।यदुक्तं श्रीमत्स्वतन्त्रे---सप्तवारास्त्रजप्तेन दर्बेणैवास्त्रकङ्कणं ।बध्नीयाद्दक्षिणे हस्ते मन्त्रमस्त्रमनुस्मरन् ।रक्षार्थमस्त्रगर्भस्य इतिअपरास्यत्रिराहुत्या पूजनं हृदयेन तु ॥२०३॥हृदा त्रिराहुतिं दत्त्वा गर्भाधानं कृतं भवेथ् ।हृदा वै जलबिन्दुं तु दर्भाग्रेणात्र पातयेथ् ॥२०४॥गन्धपुष्पादिभिः पूजां शिखया कारयेत्ततः ।त्रिराहुतिं चोत्तरेण शिखया च त्रिराहुतिं ॥२०५॥पुंसः कल्पनमेवं हि न स्त्री गर्भे तु जन्यते ।सीमन्तं दक्षिणास्येन दर्भाग्रेण प्रकल्पयेथ् ॥२०६॥ग्रीवामंसौ कटिं चैव बाहू जङ्घे प्रकल्पयेथ् ।प्रत्यङ्गानि च संकल्प्य सीमन्तोन्नयनं भवेथ् ॥२०७॥गन्धपुष्पादिभिः पूजा शिरसा चाहुतित्रयाथ् ।पूर्वमध्यापरान्वह्नौ त्रीन्भागान्परिकल्पयेथ् ॥२०८॥मुखहृत्पाददेशांस्तु होमात्तच्च त्रितत्त्वकं ।यथोक्तं श्रीमत्स्वतन्त्रे---पूर्वमध्यापरे वह्नेस्त्रीन्भागान्सम्प्रकल्पयेथ् ।मुखहृत्पाददेशे तु त्रितत्त्वाहुतिभिः क्रमाथ् ।शिरांसि पञ्चाहुत्यैव ऊर्ध्वास्येन त्रिभिस्त्रिभिः ॥२०९॥पञ्चवक्त्रं तु संकल्प्य मध्यप्राग्याम्यस्ॐयकं ।अपरं चाप्याहुतिभिः पूर्वास्येन त्रिसंख्यया ॥२१०॥वक्त्राणां निष्कृतिं तद्वदाहुतीनां त्रिसंख्यया ।नेत्रं नेत्रेण संकल्प्य मुखेष्वेवं त्रयं त्रयं ॥२११॥आहुतित्रितयेनैव तिलैः सर्वं तु कारयेथ् ।ततः कलासमूहं च पञ्च चाथ चतुष्टयं ॥२१२॥अष्टाङ्गानि तथा त्रीणि दश चाष्टावनुक्रमाथ् ।शेषास्यैः संप्रकल्प्यैवं कलामूर्तिस्ततो भवेथ् ॥२१३॥अङ्गानि विन्यसेत्पश्चात्हृदाद्यानि यथाक्रमं ।त्रिराहुतिं दक्षिणेन शिरसा चाहुतित्रयं ॥२१४॥सीमन्तोन्नयनं ह्येवं जातकर्म त्वथोच्यते ।अस्त्रेण वीजयेदग्निं अस्त्रेणैव तु पूजयेथ् ॥२१५॥त्रिराहुतिं तु पूर्वेण अस्त्रेणैवाहुतित्रयं ।एवं मन्त्रद्वयेनैव जातकर्म कृतं भवेथ् ॥२१६॥यदुक्तं तत्रैव---अस्त्रेण वीजयेद्वह्निं अस्त्रेणैव तु पूजयेथ् ।त्रिराहुतिप्रयोगेण जातकर्म कृतं भवेथ् ।अस्त्रेण प्रोक्षयेत्कुण्डं सद्यः सूतकशुद्धये ।वक्त्राण्युद्धाटयेत्पश्चाद्वक्त्रेणैवाहुतित्रयाथ् ।वक्त्राणि शोध्यान्यसिना आहुतित्रययोगतः ॥२१७॥वक्त्राभिघारो वक्त्रैस्तु वक्त्रे वक्त्रे त्रयं त्रयं ।प्रोक्षयेत्कुण्डपार्श्वानि सास्त्रेणैव शिवाम्भसा ॥२१८॥दर्भानास्तीर्य पूर्वाग्रान्दक्षिणोत्तरसंस्थितान् ।स्ॐयाग्रान्पूर्ववारुण्योः परिधीन्विष्टरांस्तथा ॥२१९॥अस्त्रमन्त्रेण ते सर्वे ब्रह्माणं पूर्वविष्टरे ।रुद्र च दक्षिणे स्थाप्य विष्णुं पश्चिमविष्टरे ॥२२०॥सदाशिवं चोत्तरेऽथ स्वनामपदचिह्नितं ।आदौ ध्रुवं स्मरेद्देवि नमश्चान्ते प्रकल्पयेथ् ॥२२१॥गन्धपुष्पादिभिः पूज्याः स्वरूपं तेष्वनुस्मरेथ् ।मेखलोपरि लोकेशान्पूजयेत्प्रणवेन तु ॥२२२॥रक्षार्थं जातबालस्य ब्रह्माद्याः पूजितास्तु ये ।ततः कङ्कणकं मुक्त्वा दक्षहस्तव्यवस्थितं ॥२२३॥पुष्पं संगृह्य देवेन शिवाग्नेर्नाम कल्पयेथ् ।कवचेनोपचारं तु गन्धपुष्पादिधूपकैः ॥२२४॥ऊर्ध्वास्येनाहुतीस्तिस्रः कवचेन त्रयं पुनः ।शिवनामाङ्कितं वह्निं जनयित्वा सुरांस्ततः ॥२२५॥विसर्जयेत्तु स्वस्थानं सावित्रीं प्रणवेन तु ।पुष्पादिभिः समभ्यर्च्य होमैरेव त्रिभिस्त्रिभिः ॥२२६॥धाम्नैवेध्मास्तु होतव्या हस्तमात्रप्रमाणतः ।चतुर्विंशतिसंख्याताः शिवाग्नेस्तर्पणाय तु ॥२२७॥स्रुक्स्त्रुवौ संप्रताप्याग्नौ शिवाम्भोऽस्त्रेण प्रोक्षयेथ् ।कवचेनावगुण्ठ्यैतौ शिवाग्नौ भ्रामयेत्त्रिधा ॥२२८॥अस्त्रेण मार्जयेदद्भिर्दर्भाग्रेणाथ संस्पृशेथ् ।पुनरग्नौ परिभ्राम्य प्रोक्षयेत्तौ शिवाम्भसा ॥२२९॥दर्भमध्येन संस्पृश्य भूयोऽग्नौ भ्राम्य तापयेथ् ।शिवाम्भसा मार्जयित्वा दर्भमूलेन संस्पृशेथ् ॥२३०॥स्रुक्स्रुवाभ्यां ततो मूलं स्थापयेत्तावधोमुखौ ।दर्भाणां पृष्ठतः पूज्यौ दक्षिणेऽग्नेः सदा बुधैः ॥२३१॥आज्यसंस्करणं कुर्यादाज्याधिश्रयणादिकं ।आज्यं संप्रोक्ष्य चास्त्रेण कवचेनावगुण्ठयेथ् ॥२३२॥शिवाग्नौ ताप्यमस्त्रेण उद्वास्यं कवचेन तु ।कुण्डस्य परितो देवि त्रिधा भ्राम्य तु स्थापयेथ् ॥२३३॥योनिसंस्थं चाज्यपात्रं उद्प्लवं संप्लवं ततः ।दर्भाग्रद्वयमादाय प्रादेशं मध्यग्रन्थितं ॥२३४॥पवैत्रमेतद्विहितं उत्प्लवं तेन संप्लवं ।अङ्गुष्ठानामिकाभ्यां तु गृहीत्वैतत्पवित्रकं ॥२३५॥पराङ्मुखं तु त्रीन्वारान्संमुखं त्रींस्तथैव च ।अस्त्रेणैव तु मन्त्रेण अवद्योतः शिवाग्निना ॥२३६॥दर्भोल्मुकं तु संगृह्य आज्यपात्रं निरीक्षयेथ् ।नीराजनं ततः कुर्यात्पर्यग्निकरणं ततः ॥२३७॥धाम्नास्त्रमन्त्रमुच्चार्य तमग्नावुल्मुकं क्षिपेथ् ।धाम्नैव विधिना मन्त्री प्रोक्षयेदस्त्रवारिणा ॥२३८॥अभिमन्त्र्य षडङ्गेन अमृतत्वं शिवेन तु ।सकृदुच्चारयोगेन पूजयेद्भैरवेण तु ॥२३९॥वक्त्रसंधानकं वक्त्रैराहुतित्रितयेन तु ।अपरास्येन तद्वक्त्र- संधानं तु समाचरेथ् ॥२४०॥एवं स्ॐयस्य वक्त्रस्य संधानं तु कृतं भवेथ् ।त्रिराहुतिप्रयोगेण दक्षिणस्याप्ययं विधिः ॥२४१॥पूर्ववक्त्रेऽप्यथैवं स्यादूर्ध्ववक्त्रं शिवान्वितं ।त्रिराहुतिप्रयोगेण वक्त्रसंधिः प्रकीर्तितः ॥२४२॥मुख्यमूर्ध्वं स्मृतं वक्त्रं गुणत्वमितरेषु तु ।मुक्तिकामस्य दीक्षायां ऊर्ध्ववक्त्रस्य मुख्यता ॥२४३॥पादलेपाञ्जनाद्या वै सिद्धीस्तु विविधाश्च याः ।सदाशिवान्तगाः सर्वाः पूर्ववक्त्रे तु होमयेथ् ॥२४४॥मारणोच्चाटनादौ तु विद्वेषे स्तम्भने तथा ।दक्षिणे चैव वक्त्रे तु होमात्सिद्धिः परा भवेथ् ॥२४५॥शान्तिकं पौष्टिकं चैव सौभाग्याकर्षणानि च ।सौभाग्यारोहसिद्धिं तु उत्तरे होमयेत्सदा ॥२४६॥पश्चिमे नित्यकर्माणि विनियोगः प्रकीर्तितः ।आज्यभागो हि होतव्य ऊर्ध्ववक्त्रे तु पश्चिमे ॥२४७॥आज्यपात्रस्य मध्ये तु दर्भो वै भैरवेण तु ।न्यसितव्यो वरारोहे ततो वै वर्त्मकल्पना ॥२४८॥उच्चार्य भैरवं पात्रे संपातं पात्य वर्त्मना ।नाडीत्रयेण युगपत्पात्रे भागत्रयं न्यसेथ् ॥२४९॥सुषुम्नां मध्यमार्गस्थां दक्षे पिङ्गां प्रकल्पयेथ् ।इडाभागे तु यत्तेजो वामे स्ॐयं प्रकल्पयेथ् ॥२५०॥एवं त्रिभागं संकल्प्य स्रुवमापूर्य होमयेथ् ।भैरवेणैव मन्त्रेणा- ग्नये स्वाहान्तमेव च ॥२५१॥अग्निभागात्तु संगृह्य स्रुवेणाज्याहुतिं क्षिपेथ् ।सोमभागस्तु सोमाय स्वाहेत्यन्ते समुच्चरन् ॥२५२॥धामादिप्रणवाद्यं च स्रुवेणाज्याहुतिं क्षिपेथ् ।अग्नीषोमेति संज्ञे द्वे स्वाहान्ते धाम चादितः ॥२५३॥प्रणवाद्याज्यमध्यात्तु स्रुवमापूर्य होमयेथ् ।शुक्लपक्षे विधिर्ह्येष कृष्णपक्षेऽन्यथा भवेथ् ॥२५४॥सोमभागे भवेत्सूर्यो ह्यग्निसंज्ञा तु पूर्ववथ् ।अग्नेः सूर्यस्य मध्याद्वै आहुतिं प्रतिपादयेथ् ॥२५५॥यतः सूर्यस्य मध्ये वै अमावस्यां विशेच्छशी ।प्राशनार्थमतो होमो वक्त्राणां भैरवेण तु ॥२५६॥चूडाद्या ये तु संस्कारा अग्नेर्बालान्तसंस्थिताः ।प्रापणार्थाय सर्वेषां पूर्णामेकां प्रदापयेथ् ॥२५७॥भैरवं तु समुच्चार्य शिवाग्निः सर्वसिद्धिदः ।अग्निं तु प्रोद्धरेत्पश्चात्पात्रे संस्थाप्य रक्षयेथ् ॥२५८॥कुण्डस्य चोत्तरे भागे विष्टरस्य च बाह्यतः ।प्रणीतं कल्पयेत्तत्र चमसं वारिपूरितं ॥२५९॥पुष्पाक्षततिलैर्युक्तं पवित्रं तत्र विन्यसेथ् ।प्रणवादि समावाह्य विष्णुनाम ततो नमः ॥२६०॥आमन्त्रणपदेनैव विष्णुं संस्थाप्य पूजयेथ् ।स्वागतासनपाद्यार्घैः ततो विज्ञापयेत्तु तं ॥२६१॥पश्वर्थं यज्ञ आरब्ध आत्मार्थं वाथ साधकैः ।भगवंस्त्वत्प्रसादेन यागे निश्छिद्रतास्तु नः ॥२६२॥ततोऽग्नौ यजनं कृत्वा भैरवं तु प्रपूजयेथ् ।स्थण्डिलोक्तविधानेन अनन्तादीन्प्रकल्पयेथ् ॥२६३॥ध्यात्वा वक्त्राणि पञ्चादौ येन यत्कर्म वाञ्छितं ।तन्मुख्यवक्त्रं संकल्प्य मुखं कुण्डप्रमाणतः ॥२६४॥भावयेन्नव जिह्वासतु वक्त्रेवक्त्रे प्रतिष्ठिताः ।प्रागाद्यष्टौ मध्य एका काम्यार्थे दिग्गतास्तु याः ॥२६५॥राज्यार्था दाहजननी मृत्युदा शत्रुकारिका ।वशीकर्त्र्युच्चाटनी स्यादर्थदा मुक्तिदायिका ॥२६६॥सर्वसिद्धिप्रदा मध्ये तस्मान्मध्ये तु होमयेथ् ।पूणा तु भैरवेणैव जिह्वानां कल्पनाय च ॥२६७॥पुनः पूर्णाहुतिं चैव भैरवेण प्रदापयेथ् ।ज्वालाग्रं तु हृदागृह्य वह्निचैतन्यकल्पितं ॥२६८॥आत्महृत्स्थं तु संकल्प्य योगपीठं तु कल्पयेथ् ।मध्यजिह्वानुसारेण अग्निनाभौ तु कन्दकं ॥२६९॥नालं हृदवधि ध्यात्वा पद्मं तत्र विचिन्तयेथ् ।पत्राष्टकसमोपेतं सितवर्णं सुतेजसं ॥२७०॥अनन्तं कल्पयेत्तत्र धर्मादिचरणान्तिकं ।ओंकारेण शिवान्तं च अग्निमूर्तिं प्रकल्पयेथ् ॥२७१॥शिखा हृदि स्थिता या तु ध्रुवेणोत्कीलयेत्पुनः ।रेचकेण क्षिपेद्वह्नौ सा मूर्तिर्भैरवात्मिका ॥२७२॥मूर्तिभूतं प्रकल्प्यैवं अष्टात्रिंशत्कलायुतं ।शोध्याध्वानं तु विन्यस्येद्दीक्षाकाले वरानने ॥२७३॥भैरवं पूजयित्वा तु शास्त्रदृष्टेन कर्मणा ।वक्त्रसंधिश्च वक्त्रभ्यां शिववक्त्राग्निवक्त्रयोः ॥२७४॥संधाय चैवं जिह्वाभ्यां नाडीसंधिरतो भवेथ् ।मूलमन्त्रं समुच्चार्य अग्निनासाविनिर्गतं ॥२७५॥स्थण्डिलस्थशिवालीनं एकार्थं चैव संधयेथ् ।शुद्धाज्येनाहुतिशतं अष्टोत्कृष्टं वरानने ॥२७६॥भैरवस्य तु होतव्यं वक्त्राङ्गानां दशांशकं ।भैरवाष्टकलोकेशान्दशमांशेन होमयेथ् ॥२७७॥मूलमन्त्रं समुच्चार्य पूर्णामेकां प्रपातयेथ् ।भैरवाप्यायनार्थाय तथा पूर्णां प्रपातयेथ् ॥२७८॥पुनर्न्यूनातिरिक्तार्थं निश्छिद्रकरणाय च ।पश्चाद्धोमः प्रकर्तव्यो यथेच्छं तु वरानने ॥२७९॥सर्वकामप्रदो होमस्तिलैः शस्तो घृतान्वितैः ।धान्यैर्धनार्थसिद्ध्यर्थं घृतगुग्गुलहोमतः ॥२८०॥जायते विपुला सिद्धिरधमा मध्यमोत्तमा ।श्वेतारविन्दैराज्याक्तैः बिल्वैश्च श्रियमाप्नुयाथ् ॥२८१॥क्शीराक्ततिलहोमेन शान्तिकर्म वरानने ।सितरक्तपीतकृष्णैः शमनाकृष्टिपौष्टिकं ॥२८२॥मारणं च वरारोहे क्रमेण परिकल्पयेथ् ।कुन्दपुष्पैः सुतार्थाय अशोकैः प्रियसंगमः ॥२८३॥जातिकुट्मलकैः कन्या गान्धर्वी बकुलोद्भवैः ।नागैस्तु नागकन्या वै सिद्धार्थैः सिद्धकन्यका ॥२८४॥चण्यकैश्चाप्यप्सरसो नरेन्द्रः फल्गुषेण तु ।घृताक्तेन वरारोहे समन्त्री सपुरोहितः ॥२८५॥राज्ञी पुत्रसमोपेता वशं याति वरानने ।यक्षिणी वशमायाति पुष्पैश्चैव कदम्बजैः ॥२८६॥विद्याधरी कुय्यकैश्च साधयेन्नात्र संशयः ।मृगीं बद्ध्वा तिलैर्होमः पद्मबिल्वैरधिष्ठितं ॥२८७॥भक्ष्यैर्ग्रासप्रमाणैस्तु धन्यैः प्रसृतिसंमितैः ।एवं होमानुसारेण साधको विधिसंस्थितः ॥२८८॥पूजाहोमरतो नित्यं यान्यान्कामान्समीहते ।तांस्तान्स साधयत्येव भैरवस्य वचो यथा ॥२८९॥इति श्रीस्वच्छन्दतन्त्रे द्वितीयः पटलः N/A References : N/A Last Updated : June 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP