स्वच्छन्दभैरवतन्त्र - दशमः पटलः ६

स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात.


ततः सोमस्तु लक्षेण आदित्योपरिसंस्थितः ।
आप्याययञ्जगत्सर्वं सुधाधाराप्रवर्षणैः ॥५०१॥
चन्द्ररूपेण तपति क्रियाशक्तिः शिवस्य तु ।
इन्दूर्ध्वे लक्षमात्रेण स्थितं नक्षत्रमण्डलं ॥५०२॥
लक्षद्वयेन तस्योर्ध्वं संस्थितो भूमिनन्दनः ।
लक्षद्वयेन तस्योर्ध्वे संस्थितः सोमनन्दनः ॥५०३॥
सुराचार्योऽपि तस्योर्ध्वे द्विलक्षेणैव संस्थितः ।
तस्योर्ध्वेऽपि द्विलक्षेण तिष्ठते भृगुनन्दनः ॥५०४॥
तस्योपरि द्विलक्षेण सौरिः सर्पति लीलया ।
लक्षमात्रेण तु ऋषीन्कथयामि समासतः ॥५०५॥
अत्रिश्चैव वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः ।
भृग्वङ्गिरामरीचिश्च ऋषयः संप्रकीर्तिताः ॥५०६॥
यमनियमतोह्येते शापानुग्रहकारकाः ।
भीताश्च परपीडायाः शूराः शास्त्रविचारणे ॥५०७॥
ज्ञानखड्गोद्यताः सर्वे त्वज्ञानपटलापहाः ।
मन्त्रयोगक्रियाचार्या संनद्धा दुरतिक्रमाः ॥५०८॥
योगैश्वर्यगुणोपेताः शिवाराधनतत्पराः ।
तेभ्यो लक्षाध्रुवो देवि तारकाः स चतुर्दश ॥५०९॥
शरीरं घटितं ताभिर्ध्रुवस्य वरवर्णिनि ।
ब्रह्मैवापररूपेण ब्रह्मस्थाने नियोजितः ॥५१०॥
तस्यज्योतिर्गणो देवि निबद्धोभ्रमते सदा ।
निश्चलः स तु विज्ञेयः शिवशक्त्यात्वधिष्ठितः ॥५११॥
दशपञ्च च लक्षाणि ध्रुवान्तं भूमिमण्डलाथ् ।
वायुस्कन्धान्स्थितांस्त्वत्र कथयामि समासतः ॥५१२॥
आमेघाद्भास्करात्सोमान्नक्षत्राद्ग्रहमण्डलाथ् ।
ऋषिसप्तकनिर्देशादाध्रुवान्तं च सप्तमः ॥५१३॥
आदित्यादिघ्रुवान्तश्च स्वर्लोकः परिकीर्तितः ।
अत्र राजा महेन्द्रो वै तिष्ठते सुरपूजितः ॥५१४॥
ऋषिदेवैः सगन्धर्वैर्वृतश्चाप्सरसां गणैः ।
अग्निहोत्रं क्रतून्वापि कृत्वा ज्ञानविवर्जिताः ॥५१५॥
स्वर्लोकं तु नरा यान्ति पुनरायान्ति मानुषं ।
स्वर्लोकस्योपरिस्टात्तु द्वे कोटी योजनानि तु ॥५१६॥
पञ्चाशीतिश्च लक्षाणि महर्लोको वरानने ।
ऋषयश्चैव सिद्धाश्च मार्कण्डाद्या वसन्ति वै ॥५१७॥
कोट्यष्टकं महादेवि योजनानां वरानने ।
महर्लोकोपरिष्टात्तु जनलोकोव्यवस्थितः ॥५१८॥
एकपादोऽथ जह्नुश्च कपिलश्चासुरिस्तथा ।
भौतिको वाड्वलिश्चैव जनलोकनिवासिनः ॥५१९॥
द्वादशैव तथा कोट्यो जनलोकोर्ध्वतः प्रिये ।
तपोलोकः समाख्यात ऋषियोगेश्वराकुलः ॥५२०॥
सनकश्चसनन्दश्च सनत्कुमारः सनन्दनः ।
शङ्कुश्चैव त्रिशङ्कुश्च तपोलोकनिवासिनः ॥५२१॥
पद्माः षट्पञ्चपञ्चाशत्कोट्यो लक्षाणि विंशतिः ।
भूर्लोकान्तं समारभ्य यावत्सत्यं वरानने ॥५२२॥
इयं संख्या समाख्याता भुवनानां वरानने ।
कोट्यः षोडशमानेन तपोलोकोर्ध्वतः प्रिये ॥५२३॥
सत्यलोकः समाख्यातो यत्र ब्रह्मा स्वयं स्थितः ।
क्रीडते भगवान्देवो वृत आत्मसमैर्द्विजैः ॥५२४॥
कर्मज्ञानेन संसिद्धा अद्वैतपरिनिष्ठिताः ।
आनन्दपदसंप्राप्ता आनन्दपदमागताः ॥५२५॥
ऋग्वेदोमूर्तिमांस्तस्मिन्निन्द्रनीलसमद्युतिः ।
दिव्यगन्धविलिप्ताङ्गो दिव्याभरणभूषितः ॥५२६॥
संस्थितः पूर्वतस्तस्य दीप्यमानः स्वतेजसा ।
उत्तरेण यजुर्वेदः शुद्धस्फटिकसंनिभः ॥५२७॥
दिव्यकुण्डलधारी च महाकायोमहाभुजः ।
स्थितः पश्चिमदिग्भागे सामवेदः सनातनः ॥५२८॥
रक्ताम्बरधरः श्रीमान्पद्मरागसमप्रभः ।
स्रग्दामधारकश्चित्रं आलाभूषणभूषितः ॥५२९॥
अथर्वाञ्जनवच्छ्यामः स्थितो दक्षिणतस्तथा ।
पिङ्गाक्षो लोहितग्रीवो हरिकेशो महातनुः ॥५३०॥
षडङ्गानीतिहासाश्च पुराणान्यखिलानि तु ।
वेदोपनिषदश्चैव मीमांसारण्यकं तथा ॥५३१॥
स्वाहाकारवषट्कारौ रहस्यानि तथैव च ।
गायत्री च स्थिता तत्र यत्र देवश्चतुर्मुखः ॥५३२॥
भोगस्थानं ब्रह्मणः स्यात्परं ब्रह्म ततो व्रजेथ् ।
कोटियोजनमानेन सत्यलोकोर्ध्वतः प्रिये ॥५३३॥
ब्रह्मासनमितिख्यातं जपासिन्दूरसप्रभं ।
रक्तेन्दीवरमध्यस्थः पद्मरागसमप्रभः ॥५३४॥
चतुर्मुखश्चतुर्वेदश्चतुर्युगवशानुगः ।
ब्रह्मविद्भिः समाकीर्णो ब्रह्मा मुनिनिषेवितः ॥५३५॥
ऐश्वर्याष्टकसंयुक्तः षड्विधसृष्टिकारकः ।
धर्मादिफलसंबन्ध- प्रदाता च युगे युगे ॥५३६॥
तिर्यङ्नारकिसत्त्वानां दिव्यानां मनुजैः सह ।
स्रष्टा च सर्वभूतानां सदेवासुरमानुषे ॥५३७॥
कोटिद्वयं तदूर्ध्वे तु योजनानां वरानने ।
नीलेन्दीवरसंकाशा इन्द्रनीलसमप्रभा ॥५३८॥
ब्रह्मलोकात्परत्वेन विष्णोश्चैव पुरीस्मृता ।
सर्वकामसमोपेता सर्वरत्नसमुज्ज्वला ॥५३९॥
मरकतस्तम्भसोपाना नीलध्वजसमाकुला ।
घण्टावितानविस्तीर्णा चारुचामरशोभिता ॥५४०॥
नीलोत्पलदलप्रख्यैः कन्यावृन्दैः समावृता ।
कामकार्मुकनिर्घोष- वित्रस्तमृगलोचनैः ॥५४१॥
नूपुरारावमुखरैः स्खलद्भिर्मृदुविभ्रमैः ।
मनोभवशरायास निपातशतजर्जरैः ॥५४२॥
सुघूर्णितमदायास- विलोलधवलेक्षणैः ।
संसेव्यते स भगवान्विष्णुः कमललोचनः ॥५४३॥
इन्द्रनीलसमाकारो निलोत्पलदलप्रभः ।
चतुर्भुजो महाकायः पीनवक्षा गदाधरः ॥५४४॥
किरीटीकुण्डलीशङ्खी प्रजापालनतत्परः ।
संसेव्यते स भगवान्निकायैरात्मविक्रमैः ॥५४५॥
विष्णुभक्ताश्च ये नित्यं ध्यानपूजाजपे रताः ।
ते तु गच्छन्ति तत्स्थानं विष्णोरमितविक्रमाः ॥५४६॥
सप्तकोट्यस्तदूर्ध्वं वै रुद्रलोको व्यवस्थितः ।
शुद्धस्फटिकसंकाशश्चत्वरोद्यानमण्डितः ॥५४७॥
सहस्रभूमिकाभिश्च हर्म्यमालाभिरूर्जितः ।
विमानैः पुष्पकैर्युक्तो हंसकुन्देन्दुनिर्मलैः ॥५४८॥
वनोपवनषण्डैश्च सर्वर्तुकुसुमोज्ज्वलैः ।
मारुताःसुखसंस्पर्शा वर्तिकर्पूरगन्धयः ॥५४९॥
नदीनदह्रदाकीर्णः पद्मिनीषण्डमण्डितः ।
वरेण्यावरदाचैव वरिष्ठा वरवर्णिनी ॥५५०॥
वसिष्ठा च वराहा च वरारोहा च सप्तमी ।
गङ्गाह्येताः समाख्याता रुद्रलोकवहाः सदा ॥५५१॥
लक्षपत्रदलाढ्यैश्च सितपद्मैर्विभूषिताः ।
इन्द्रनीलनिभैर्नालैर्योजनायतगन्धिभिः ॥५५२॥
स्त्रीसहस्रकदम्बाढ्याः पुष्पप्रकरधूसराः ।
शरदिन्दुनिभानार्यो नवनीतसुकोमलाः ॥५५३॥
सुभ्रूललाटवदनाः कृशोदर्यो मदालसाः ।
अलिपुञ्जनिभैः केशैर्मृगामोदसुगन्धिभिः ॥५५४॥
प्रलम्बश्रवणाधाराः पद्मपत्रायतेक्षणाः ।
दाडिमीपुष्पसंकाशैरोष्ठैरुत्पलगन्धिभिः ॥५५५॥
रम्भानिभाभिर्जङ्घाभिर्बाहुभिर्बिसकोमलैः ।
अशोकपल्लवाकारैः पादैः पद्मदलोपमैः ॥५५६॥
नखैश्च केतकीप्रख्यैर्दशनैर्मौक्तिकोज्ज्वलैः ।
स्वभावसुसुगन्धाढ्यैः प्रस्रवद्भिरिवामृतं ॥५५७॥
हारकेयूरकटकैः सीमन्तमणिजालकैः ।
काञ्चीडोरैः सुरक्तैश्च कुसुमैर्भूषिताः सदा ॥५५८॥
तारकुम्भनिभाकारैरुन्नतैश्च पयोधरैः ।
सुवृत्तैः पीनपार्श्वैश्च पीनकण्ठसमाश्रितैः ॥५५९॥
गुरुश्रेणीभराक्रान्ता मुक्तावलिविराजिताः ।
राजहंसगतिस्पर्धि मत्तमातङ्गविभ्रमाः ॥५६०॥
नूपुरारावमुखर- प्रस्खलन्मृदुविक्रमाः ।
हास्यलास्यविलासाढ्य- भ्रूभङ्गतरलेक्षणाः ॥५६१॥
ह्लादयन्तीव गात्राणि रुद्राणां तन्निवासिनां ।
कामग्रहग्रहाविष्टा घूर्णन्त्यो मदविह्वलाः ॥५६२॥
%घूर्णन्त्यो?
परिष्वजनमात्रेण मोदयन्त्यो गणेश्वरान् ।
यद्यप्येवंविधानार्यः निजभर्तृभयातुराः ॥५६३॥
वित्रस्तमृगनेत्रास्तु भर्तुरुत्सङ्गमागताः ।
अवगूह्य च सर्वाङ्गैरापीय वदनैर्मुखं ॥५६४॥
क्रीडन्तिरुद्रभवने रुद्रकन्याः सरुद्रकाः ।
रुद्राश्चैवंविधाकारा ज्ञानयोगबलोत्कटाः ॥५६५॥
मुकुटैः कुण्डलैश्चित्रैर्महारत्नसमुज्ज्वलैः ।
केयूरकटकैर्डोरैः पुष्पवस्त्रविभूषणैः ॥५६६॥
मुक्ताफलावलीहारैर्ब्रह्मसूत्रोत्तरीयकैः ।
महाकाया महोरस्कास्त्रिनेत्राः शूलपाणयः ॥५६७॥
चन्द्रायुतप्रतीकाशाः कर्पूरक्षोदधूसराः ।
सुरसिद्धनुताःसर्वे सुप्रसन्न वरप्रदाः ॥५६८॥
हरलब्धवरास्तृप्ता दशबाह्विन्दुमौलयः ।
न तत्र मृत्युर्न जरा न शोकोऽस्ति वियोगजः ॥५६९॥
क्रीडन्तिसार्धंकन्याभिः संसारभयवर्जिताः ।
अधिकारक्षये रुद्रा रुद्रकन्यासमावृताः ॥५७०॥
श्रीकण्ठस्येच्छया सर्वे शिवंयान्तितनुक्षये ।
गत्वा भूयो न जायन्ते कल्पकोटिशतैरपि ॥५७१॥
एवंविधैरसंख्यातैर्विमानरथगामिभिः ।
महावृषगजारूढैः सिंहवाजिसुवाहनैः ॥५७२॥
लक्षायुतसहस्रैस्तु रुद्रकोटिभिरावृतं ।
तन्मध्येसर्वतोभद्रं सिंहद्वारैः सुतोरणैः ॥५७३॥
स्वच्छमौक्तिकसंकाश- प्राकारशिखरावृतं ।
नन्दीश्वरमहाकाल द्वारपालगणैर्वृतं ॥५७४॥
किंकिणीजालमुखरैः पताकाध्वजसंकुलैः ।
वितानच्छत्रषण्डैश्च मुक्ताहारप्रलम्बितैः ॥५७५॥
घण्टाचामरशोभाड्यं दर्पणैश्चोपशोभितं ।
कलशैर्द्वारन्यस्तैश्च रत्नपल्लवसंयुतैः ॥५७६॥
रचितैश्चित्रशास्त्रज्ञैरत्नचूर्णसमुज्ज्वलैः ।
स्वस्तिकैः पत्रवल्याढ्यैश्चित्रितं भुवनाजिरं ॥५७७॥
शतसिंहासनाकीर्णं वेदिकारत्नभूषितं ।
गोपुराट्टालरथकैर्वीथीभिश्च भ्रमान्त्रकैः ॥५७८॥
सर्वरत्नविचित्राढ्यैर्द्वारबद्धैः सुशोभनं ।
निर्गमैःसुगवाक्षैश्च विटङ्कैःस्फटिकप्रभैः ॥५७९॥
स्तम्भैःसोपानबद्धैश्च वज्रवैडूर्यसप्रभैः ।
पूर्णचन्द्रनिभाकारैरण्डैः शिखरमण्डितैः ॥५८०॥
मुक्ताफलप्रभाभिश्च भूमिभिश्च सहस्रशः ।
नाट्यशालैः सुशोभाढ्यैर्नृत्तगीतरवाकुलैः ॥५८१॥
मण्डपैरत्नचित्राढ्यैः सभामण्डलनिर्भरैः ।
आसीनैरुद्रवृन्दैश्च रुद्रकन्याकदम्बकैः ॥५८२॥
मत्तवारणकै रम्यैश्चन्द्रशालासुशोभनैः ।
धूपितं धूपवर्तीभिः कुङ्कुमोदकसेचितं ॥५८३॥
चित्रपट्टैस्तु संछन्नं पुष्पप्रकरसंकुलं ।
तूर्यशब्दजयध्वान- काहलाकूजितेन च ॥५८४॥
वंशवीणामृदङ्गैश्च गोमुखैर्मुखवादनैः ।
पणवैस्तालवाद्यैश्च शङ्खभेरीरवेण च ॥५८५॥
दुन्दुभीनादशब्देन मुरजस्फालनेन च ।
करस्फोटमहाशब्दैः सिंहनादप्रगुञ्जितैः ॥५८६॥
गर्जद्भिर्गणवृन्दैश्च मेघस्तनितनिःस्वनैः ।
वन्दिनांस्तोत्रशब्देन सामवेदरवेण च ॥५८७॥
हुडुङ्काराट्टहासैश्च गेयझंकारयोजितैः ।
वृषनन्दितशब्देन गजवाजिरवेण च ॥५८८॥
काञ्चीनूपुरशब्देन नदतीव महत्पुरं ।
सर्वसंपत्करं श्रीमच्- छङ्करस्य तु मन्दिरं ॥५८९॥
अत्रासौभगवान्रुद्रो ब्रह्मविष्ण्विन्द्रपूजितः ।
गङ्गायास्नपितोनित्यं दिव्यवस्त्राम्बरच्छदः ॥५९०॥
पृथिव्यागन्धलिप्ताङ्गः श्रियापुष्पैः सुपूजितः ।
सप्तस्वरप्रमुख्यैश्च सरस्वत्या च संस्तुतः ॥५९१॥
पूर्णेन्दुरातपत्रं च स्वयमेव व्यवस्थितः ।
गङ्गातूत्तरिकाच्छत्रे सर्वादित्याश्च दीपकाः ॥५९२॥
पुष्पदन्तगणेशाद्यैरासनं तस्य संवृतं ।
कपिलः कर्कटश्चैव विमर्दः कङ्कटस्तथा ॥५९३॥
विक्रमश्चदृढश्चैव निष्कम्पो निष्कलस्तथा ।
अष्टौ ते हरयःप्रोक्तास्त्रिनेत्रा भूरिविक्रमाः ॥५९४॥
सिंहरूपाःसुतेजस्काः सटाविकटभास्वराः ।
शक्तिरूपधरैर्मन्त्रैर्योगैश्वर्यसमन्वितैः ॥५९५॥
आसनंविवृतंतैस्तु महोत्साहैर्बलोत्कटैः ।
तत्रभद्रासने रुद्रः स्थितश्चन्द्रार्धशेखरः ॥५९६॥
सर्वलक्षणसंपूर्णः सर्वाभरणभूषितः ।
त्र्यक्षोदशभुजोदेवो जटामुकुटमण्डितः ॥५९७॥
पीनवक्षःस्थलोरुश्च पीनस्कन्धो महाभुजः ।
बद्धपद्मासनासीनः कर्पूरक्षोदधूसरः ॥५९८॥
वरदाभयपाणिश्च सर्वायुधधरस्तथा ।
शतपत्राङ्कितैश्चैव हस्तपादैः सुकोमलैः ॥५९९॥
चन्द्रबिम्बनखाभाभिरङ्गुलीभिरलंकृतैः ।
सुश्लिष्टजानुगुल्फैश्च पादैश्चैव समुन्नतैः ॥६००॥

N/A

References : N/A
Last Updated : June 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP