संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः| सुभाषित १३२१ - १३४० शृङ्गारप्रवाहः शृङ्गारप्रवाहवीचयः सुभाषित ४७६ - ४८० सुभाषित ४८१ - ५०० सुभाषित ५०१ - ५२० सुभाषित ५२१ - ५४० सुभाषित ५४१ - ५६० सुभाषित ५६१ - ५८० सुभाषित ५८१ - ६०० सुभाषित ६०१ - ६२० सुभाषित ६२१ - ६४० सुभाषित ६४१ -६६० सुभाषित ६६१ - ६८० सुभाषित ६८१ - ७०० सुभाषित ७०१ - ७२० सुभाषित ७२१ - ७४० सुभाषित ७४१ - ७६० सुभाषित ७६१ - ७८० सुभाषित ७८१ - ८०० सुभाषित ८०१ - ८२० सुभाषित ८२१ - ८४० सुभाषित ८४१ - ८६० सुभाषित ८६१ - ८८० सुभाषित ८८१ - ९०० सुभाषित ९०१ - ९२० सुभाषित ९२१ - ९४० सुभाषित ९४१ - ९६० सुभाषित ९६१ - ९८० सुभाषित ९८१ - १००० सुभाषित १००१ - १०२० सुभाषित १०२१ - १०४० सुभाषित १०४१ - १०६० सुभाषित १०६१ - १०८० सुभाषित १०८१ - ११०० सुभाषित ११०१ - ११२० सुभाषित ११२१ - ११४० सुभाषित ११४१ - ११६० सुभाषित ११६१ - ११८० सुभाषित ११८१ - १२०० सुभाषित १२०१ - १२२० सुभाषित १२२१ - १२४० सुभाषित १२४१ - १२६० सुभाषित १२६१ - १२८० सुभाषित १२८१ - १३०० सुभाषित १३०१ - १३२० सुभाषित १३२१ - १३४० सुभाषित १३४१ - १३६० सुभाषित १३६१ - १३७० शृङ्गारप्रवाहः - सुभाषित १३२१ - १३४० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित १३२१ - १३४० Translation - भाषांतर १७०. शरत्खञ्जनःदूरोत्पुच्छः सलयचरणो लम्बलोलत्पतत्तूःकण्टेनोच्चैर्मदकलरुतस्तोकवाचालचञ्चुः ।हर्षाश्रूर्मिस्तिमितनयनन्यस्तसोत्कण्ठदृष्टेःकंचित्कालं नटति निकटे खञ्जरीटः प्रियायाः ॥१३२१॥मनोविनोदस्य । (सु.र. २७४)मुहुरलसितपुच्छप्रेङ्खितैः प्रेयसीनांमनसि मनसिजस्य प्रीतिमुद्द्योतयन्ति ।नवकनबकपत्रच्छत्रसूनानुकूलस्थलकवलितकीटाः खञ्जरीटाश्चरन्ति ॥१३२२॥अपिदेववामनदेवयोः ।अयं मेघव्यूहे बलिनि परिपन्थिन्यपसृते शरज्जन्याः स्वैरं हसितमिव हर्षादविरतम् ।पयःपूरभ्रंशक्रमजनितसोपानसिकते नदीतीरे धीरं चरति विशदः खञ्जनगणः ॥१३२३॥सुवर्णस्य ।संप्रति दिगङ्गनानांशरन्निराकृतघनान्धपटलानाम् ।खञ्जनकटाक्षपातैःकर्बुरितं गगनमाभाति ॥१३२४॥कस्यचित।मधुरमधुरं कूजन्नग्रे पतन्मुहुरुत्पतन्न्अविरलचलत्पुच्छः स्वेच्छं विचुम्ब्य चिरं प्रियाम् ।इह हि शरदि क्षीवः पक्षौ विधूय मिलन्मुदामदयति रहः कुञिजे मञ्जुस्थलीमधि खञ्जनः ॥१३२५॥जयदेवस्य ।१७१. हेमन्तःयात्रालग्नं शिशिरमरुतां बान्धवः कुन्दलक्ष्याःकालं सोऽयं कमलसरसां सम्पदः कालभूतः ।निद्राव्याजाज्जडिमविधुरा यत्र गाढे हिमर्तौरामाः कण्ठग्रहमशिथिलं प्रेयसामाद्रियन्ते ॥१३२६॥कस्यचित। (सु.र. २९३)गर्वायन्ते पलालं प्रति पथिकशतैः पामराः स्तूयमानागोपान्गोगर्भिनीनां सुखयति बहलो रात्रिरोमन्थबाष्पः ।प्रातः पृष्ठावगाढप्रथमरविरुचिर्ग्रामसीमोपशल्येशेते सिद्धार्थपुष्पच्छदनिचितहिमक्लिन्नपक्ष्मा महोक्षः ॥१३२७॥योगेश्वरस्य । (सु.र. २९७)दिग्भागेषु हिमावृतिः प्रतिदिनं सान्द्रापि सान्द्रायतेप्रालेयैः पिहितप्रभो दिनपतिर्मन्दोऽपि मन्दायते ।भर्तुर्मान्द्यशुचेव हन्त दिवसः क्षीणोऽप्ययं क्षीयतेतत्संकोचनिरर्गलेव रजनी दीर्घापि दीर्घायते ॥१३२८॥लक्ष्मीधरस्य ।पाकं यत्र न याति पाणिजभ्दिआ यत्रातिशीतार्तिभिर्मानच्छेदनिवेदनं रतिकलावृत्तिक्षमा यत्क्षपा ।जारन्यस्तरदच्छदव्रणसमाधानाय यन्मारुतस्तेऽमी संततकूटक्ÿप्तकुलटामोदा मुदे वासराः ॥१३२९॥आचार्यगोपीकस्य ।उद्ग्रीवा विवृतारुणास्यकुहरास्तृष्णाचलत्तालवःपक्षासम्भववेपमानतनवः प्रोड्डीय किञ्चिन्मुहुः ।अन्योन्याक्षमिणः शरारिशिशवः प्रातर्नदीरोधसिप्रालेयाम्बु पिबन्ति वीरणदलद्रोणी प्रणालीस्रुतम् ॥१३३०॥कस्यचित। (सु.र. ११५१)१७२. हेमन्तरात्रिःअन्तर्मन्युविभिन्नदीर्घरसितप्रोद्भूतकण्ठव्यथैर्आक्रुष्टास्तटिनीषु कोकमिथुनैर्यावन्निशीथं मिथः ।शीतोज्जागरजम्बुकौघमुखरग्रामोपकण्ठस्थलाः कृच्छ्रेणोपरमन्ति पान्थगृहिणीचिन्तायता रात्रयः ॥१३३१॥अभिनन्दस्य ।विश्रामं भज तालवृन्त सुमनोवैकक्षक क्षम्यतांश्रीखण्डद्रव वन्दितोऽसि सुमनोहाराः पुनर्दर्शनम् ।दीपे संप्रति कर्मसाक्षिणि परीरम्भाय वामभ्रुवाम्एकोऽपि प्रभवन्ति हैमननिशायामा निशायामिनः ॥१३३२॥शुभाङ्कस्य ।प्रोद्यत्प्रौढप्रियङ्गुद्युतिभृतिविदलत्कुन्दमाद्यद्द्विरेफेकाले प्रालेयवातप्रचलविकसितोद्दाममन्दारदाम्नि ।येषां नो कण्ठलग्ना क्षणमपि तुहिनक्षोददक्षा मृगाक्षीतेषामायामियामा यमसदनसमा यामिनी याति यूनाम् ॥१३३३॥कस्यचित। (स्व१८४३, शा.प. ३९२४)विलासिनां भाग्यविजृम्भितेनयस्मिन्द्वयं साधु कृतं विधात्रा ।यदङ्गनानां विपुलस्तनोष्माव्यधायि दीर्घाश्च कृता रजन्यः ॥१३३४॥पुरुषोत्तमदेवस्य ।हिमधवलकान्तिकेशी मन्दद्युतितारका बृहत्तिमिरा ।द्विगुणीभूता रजनी वृद्धेव शनैः शनैर्याति ॥१३३५॥कस्यचित। (स्व१८३२, शा.प. ३९१९, सूक्तिमुक्तावलि ६३.६)१७६. हेमन्तहालिकः लघुनि तृणकुटीरे क्षेत्रकोणे यवानांनवकलमपलालस्रस्तरे सोपधाने ।परिहरति सुषुप्तं हालिकद्वन्द्वमारात्स्तनकलशमहोष्माबद्धरेखस्तुषारः ॥१३३६॥भवभूतेः (द.रू. ४.२२, स्व१८४०, सु.र. २९९, शा.प. ३९२२, सूक्तिमुक्तावलि ६३.१५)इदानीमर्घन्ति प्रथमकलमच्छेदमुदितानवीनान्धस्थालीपरिमलमुचो हालिकगृहाः ।उदञ्चद्दोर्लीलारणितवलयाभिर्युवतिभिर्गृहीतप्रोत्क्षिप्तभ्रमितमसृणोद्गीर्णमुसलाः ॥१३३७॥योगेश्वरस्य । (सु.र. ३१४)भद्रं ते सदृशं यदध्वगशतैः कीर्तिस्तवोद्गीयतेस्थाने रूपमनुत्तमं सुकृतिना दानेन कर्णो जितः ।इत्यालोक्य चिरं दृशा कृपणया दूरागतेन स्तुतःपान्थेनैकपलालमुष्टिरुचिना गर्वायते हालिकः ॥१३३८॥तस्यैव (स.क.आ. ३.८, सु.र. ३०५, शा.प. ५८१, सूक्तिमुक्तावलि ९६.२)आहूतो हालिकेनाश्रुतमिव वचनं तस्य कृत्वा क्षणैकं तिष्ठासुस्तब्धरोमा कथमपि विटपं निःसमीरं विहाय ।दोर्भ्यामावृत्य वक्षःस्थलमलसगतिर्दीनपादप्रचारः शीत्कारोत्कम्पभिन्नस्फुटदधरपुटः पामरः क्षेत्रमेति ॥१३३९॥कस्यचित।क्षेत्रोपान्तपलायमानशशकद्वन्द्वं निरीक्ष्यापरान्आहूयातिरसेन कर्षकजनानारब्धकोलाहलाः ।हस्तावापितदात्ररज्जुलगुडैर्वृद्धैरवृद्धैः सहत्यक्त्वा शालिचिकर्तिषामित इतो धावन्त्यमी पामराः ॥१३४०॥कस्यचित। (सु.र. ३००) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP