संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
सुभाषित ७६१ - ७८०

शृङ्गारप्रवाहः - सुभाषित ७६१ - ७८०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


५८. वर्त्मावलोकिनी

पाण्डुक्षामकपोलपालिलुठितां त्रस्तैणशावेक्षणा
हस्तेन श्लथकङ्कणेन कवरीमुल्लासयन्ती मुहुः ।
द्वारोपान्तविलम्बिनी प्रियपथं तन्वङ्गि यद्वीक्षसे
तन्मन्ये विकटैरिवाञ्चसि पुरः पन्थानमिन्दीवरैः ॥७६१॥

कस्यचित।

पर्यस्तो दिवसस्तटीमयमटत्यस्ताचलस्यांशुमान्
संप्रत्यङ्कुरितान्धकारपटलैर्लम्बालका द्यौरिव ।
एह्यन्तर्विश वेश्मनः शशिमुखि द्वारस्थलीतोरणे
स्तम्भालम्बितबाहुवल्लि रुदती किं त्वं पथः पश्यसि ॥७६२॥

धर्मयोगेश्वरस्य ।

उत्क्षिप्यालकमालिकां विलुलितामापाण्डुगण्डस्थलाद्
विश्लिष्यद्वलयप्रपातभयतः प्रोद्यम्य किञ्चित्करौ ।
द्वारस्तम्भनिषण्णगात्रलतिका केनापि पुण्यात्मना
मार्गालोकनदत्तदृष्टिरबला तत्कालमालिङ्ग्यते ॥७६३॥

रुद्रटस्य । (शृ.ति. १.८१)

आजन्मव्यवसायिना क्रतुशतैराराध्य पुष्पायुधं
केनाकारि पुरा तनूदरि तनुत्यागः प्रयागभ्रमे ।
यस्यार्थे सखि लोलनेत्रनलिनीनालायमानस्खलद्
बष्पाम्भः पतनान्तरालवलितग्रीवं पथः पश्यसि ॥७६४॥

धोयीकस्य ।

आदृष्टिप्रसरात्प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया
विश्रान्तेषु पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति ।
यान्त्यैव स्वनिवेशनं प्रतिपथं पान्थस्त्रियास्मिन्क्षणे
मा भूदागत इत्यमन्दवलितोद्ग्रीवं मुहुर्वीक्षितम् ॥७६५॥

सिद्धोकस्य । (अमरु ६४, द.रू. २.२७अ, स्व१०५६, सु.र. ७२८)

५९. काकः

गतोस्तं तिग्मांशुर्व्रज सहचरीनीडमधुना
सुखं भ्रातः सुप्याः स्वजनसदृशं वायस कृतम् ।
मयि स्नेहाद्बाष्पस्थगितरुचिदृष्टौ सकरुणं
रुदत्यां यो यातस्त्वयि स विलपत्येष्यति कथम् ॥७६६॥

कस्यचित। (स्व११४०)

दत्तं पिण्डं नयनसलिलक्षालनाधौतगण्डं
द्वारोपान्ते गतदयितया संगमान्वेषणाय ।
वक्रग्रीवश्चलनतशिराः पार्श्वसंचारिनेत्रः
पाशाशङ्की गलितवलयाक्रान्तमश्नाति काकः ॥७६७॥

कस्यचित।

वारं वारमलीक एव हि भवान्किं व्याहृतैर्गम्यता
मित्युद्गम्य सुमन्दबाहुलतिकामुत्थापयन्त्या रुषा ।
सङ्क्रान्तैर्वलयैरलङ्कृतगलो युष्मद्वियोगोचितां
तन्वङ्ग्याः प्रकटीकरीति तनुतामङ्गे भ्रमन्वायसः ॥७६८॥

कस्यचित। (सु.र. ७३२)

यत्पुष्णासि पिकानकारणरिपूनध्वन्यवामभ्रुवां
यच्चाच्छिद्य बलिं विलुम्पसि करात्सर्वं सहिष्ये तव ।
हंहो मद्वचनादितस्त्वयि गते शाखान्तरं वायस
क्षेमेणाद्य समागमिष्यति स चेत्कान्तश्चिरं प्रोषितः ॥७६९॥

धोयीकस्य ।

उल्लासो विरुतेन मङ्गलबलिग्रासेन विश्वासनं  
संचारेण कृतो विलोचनयुगे बाष्पोद्गमावग्रहः ।
यातोऽस्तं रविरेष संप्रति पुरः स्वस्त्यस्तु ते गम्यतां
एते त्वामनुयान्तु संप्रति मम प्राणाः प्रियान्वेषिणः ॥७७०॥

जलचन्द्रस्य ।

६०. प्रोषितसम्भेदः

आयाते दयिते मरुस्थलभुवामुत्प्रेक्ष्य दुर्लङ्घ्यतां
गेहिन्या परितोषबाष्पतरलामासज्य दृष्टिं मुखे ।
दत्त्वा पीलुशमीकरीरकवलान्स्वेनाञ्चलेनादरा
दामृष्टं करभस्य केसरसटाभाराग्रलग्नं रजः ॥७७१॥

केशटस्य । (स.क.आ. ५.१२०, द.रू. ४.१४अ, सु.र. ५१२, स्व२०७५, सूक्तिमुक्तावलि ५४.४)

केयूरीकृतकङ्कणावलिरसौ कर्णावतंसीकृत
व्यालोलालकपद्धतिः पथि पुरो बद्धाञ्जलिः पृच्छति ।
यावत्कंचिदुदन्तमात्मकमितुस्तावत्स एवेत्यथ
व्रीडावक्रितकण्ठनालमबला कैः कैर्न भिन्ना रसैः ॥७७२॥

राजशेखरस्य । (सूक्तिमुक्तावलि ५४.१०, सु.र. ७१३)

निद्रे भद्रमवस्थितासि कुशलं संवेदने किं तव
क्षेमं ते सखि निर्वृते न तु समं कान्तेन यूयं गताः ।
किं चान्यत्प्रियसङ्गमेन चलितो गच्छन्विपद्वत्सलो
मूर्च्छाविस्मृतिवेदनापरिजनो दृष्टोऽस्मदीयो न वा ॥७७३॥

अरविन्दस्य । (सु.र. ७१७)

प्राग्यामिनि प्रियवियोगविपत्तिकाले
त्वय्येव वासरशतानि लयं गतानि ।
दैवात्कथं कथमपि प्रियसङ्गमेऽद्य
चण्डालि किं त्वमसि वासर एव लीना ॥७७४॥

कस्यचित।

प्रत्युद्गम्य तनूरुहोद्गतिवशात्खेदस्खलच्चेष्टया
दत्त्वा स्वेदलवैः स्वहस्तगलितैः प्रक्षालना पादयोः ।
किंचित्स्मेरमुखप्रकीर्णदशनस्वच्छांशुपुष्पोज्ज्वलैर्
आनन्दाश्रुभिरर्चितो दयितया पान्थश्चिरादागतः ॥७७५॥

कस्यचित।

६१. अभिसारारम्भः

पतिर्दुर्वञ्चोऽयं विधुरमलिनो वर्त्म विषमं
जनश्छिद्रान्वेषी प्रणयिवचनं दुष्परिहरम् ।
अतः काचित्तन्वी रतिविदितसङ्केतगतये
गृहाद्वारं वारं निरसरदथ प्राविशदथ ॥७७६॥

कस्यचित। (सु.र. ८३०)

मन्दं निधेहि चरणौ परिधेहि नीलं
वासः  पिधेहि वलयावलिमञ्चलेन ।
मा जल्प साहसिनि शारदचन्द्रकान्ति
दन्तांशवस्तव तमांसि समापयन्ति ॥७७७॥

नालस्य । (पद्या.. १९४; शा.प. ३६२०, सूक्तिमुक्तावलि ७१.८ हरिहरस्य)

उत्क्षिप्तं सखि वर्तिपूरितमुखं मूकीकृतं नूपुरं  
काञ्चीदाम निवृत्तघर्घररवं क्षिप्तं दुकूलान्तरे ।
सुप्ताः पञ्जरसारिकाः परिजनोऽप्याघूर्णितो निद्रया  
शून्यो राजपथस्तमांसि निविडान्येह्येहि निर्गम्यताम् ॥७७८॥

योगेश्वरस्य ।

सखी निर्वैलक्ष्या स च सहचरोऽत्यन्तचपलः
कृतो मुग्धे दुग्धे किमिति वृषदंशः प्रहरिकः ।
सुवर्णं स्वं चक्षुः फलति न विलम्बस्व कुलटा
कुलोत्पातः शातक्रतवमचलं चुम्बति शशी ॥७७९॥

मित्रस्य ।

मुञ्चत्याभरणानि दीप्तमुखराण्युत्तंसमिन्दीवरैः
कुर्वाणा दधती मुहुर्मृगमदक्षोदानुलिप्तं वपुः ।
कालिन्दीजलवेणिनीलमसृणं चीनांशुकं बिभ्रती
मुग्धे त्वं प्रकटीकरोष्यविनयारम्भं वृथा निह्नवः ॥७८०॥

लक्ष्मणसेनदेवस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP