शृङ्गारप्रवाहः - सुभाषित १०६१ - १०८०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
११८. गीतम्
अलसमुकुलिताक्षं वक्त्रमालोक्य तस्या
मयि विलुलितचित्ते मूकभावं प्रपन्ने ।
श्रवणकुवलयान्तश्चारिणा षट्पदेन
क्षणमनुगतनादं गीतमन्तः स्मरामि ॥१०६१॥
श्रीमल्लक्ष्मणसेनदेवस्य ।
नाधन्यैः क्षणदाविराममधुराः किञ्चिद्विनीता रसैः
श्रोत्रैर्नापि च किन्नरीकलगलोद्गीतानि पेयानि च ।
श्रूयन्ते मृदुपीतवक्त्रमरुतः पौराणरीतिक्रम
व्यालोलाङ्गुलिरुद्धमुग्धसुषिरश्रेणीरवा वेणवः ॥१०६२॥
योगेश्वरस्य ।
विलासमसृणोलसन्मुसललोलदोःकन्दलाः
परस्परपरिस्खलद्वलयनिःस्वनोद्बन्धुराः ।
चलन्ति कलदुङ्कृतिप्रसभकम्पितोरःस्थल
त्रुटद्गमकसङ्कुलाः कलमकण्डनीगीतयः ॥१०६३॥
तस्यैव । (शा.प. ५८२, सु.र. ११७८)
चिन्वानाभिर्मधूकं मधुरमधुकरध्वानिचूताङ्कुराग्र
ग्रासव्यग्रान्यपुष्टध्वनितधृतजयारम्भसंरम्भणाभिः ।
गीयन्ते वल्लवीभिः पथिकसहचरीप्राणयात्राप्रदीपाः
प्रातः प्रातर्वसन्तस्वररचितपदोद्गारिणो गीतभेदाः ॥१०६४॥
विरिञ्चेः ।
क्वचिन्मसृणमांसलं क्वचिदतीव तारं पदे
प्रसन्नसुभगं मुहुः सुरतरङ्गलीलाङ्कितम् ।
इदं हि तव वल्लवीरणितनिर्गतैर्जल्पितं
मनो मदयतीव मे किमपि साधु संगीतकम् ॥१०६५॥
वामनस्य ।
११९. द्यूतम्
आश्लेषचुम्बनरतोत्सवकौतुकानि
क्रीडा दुरोदरपणः प्रतिभूरनङ्गः ।
भोगः स यद्यपि जये च पराजये च
यूनोर्मनस्तदपि वाञ्छति जेतुमेव ॥१०६६॥
मुरारेः । (आर्७.११५, शा.प. ३६६१, सूक्तिमुक्तावलि ७५.७, सु.र. ६०६)
आश्लेषः प्रथमं क्रमेण विजिते कृत्ये धनस्यार्पणं
केलिद्यूतविधौ पणं प्रियतमे कान्तां पुनः पृच्छति ।
अन्तर्गाढविगूढमन्मथस्फारीभवद्गण्डया
स्वैरं शारिविसारणाय निहितः खेदाम्बुगर्भः करः ॥१०६७॥
योगेश्वरस्य । (सु.र. ६०५, शा.प. ३६६४, सूक्तिमुक्तावलि ७५.५)
तथा गृहीतस्तन्वङ्ग्या
विजयोपार्जितः पणः ।
यथा धन्याधरोष्ठेन
हारितोऽपि जितं मया ॥१०६८॥
कस्यचित।
अक्षदेव न पणीकृतेऽधरे
कान्तयोर्जयपराजये सति ।
अत्र वेति यदि वक्ति मन्मथः
कस्तयोर्जयति जीयतेऽपि वा ॥१०६९॥
काश्मीरकजयवर्धनस्य । (स्व२०४८, सूक्तिमुक्तावलि ७५.८)
सोत्कण्ठा च पराङ्मुखी च पुरतो बाला सखीकौशलाद्
अक्षद्यूतविधौ विजित्य मदनक्रीडापणं प्रेयसः ।
सानन्दा जयतोऽपि जृम्भितघनव्रीडापि सम्भोगितः
संत्यक्तुं न च याचितुं न च परिच्छेदे बभूव प्रभुः ॥१०७०॥
जलचन्द्रस्य ।
१२०. दृष्टिः
निरवधिरकूपारः पीतः पुरा मुनिना मुहुर्
निजकरपुटोत्सङ्गेनेदं मृषोद्यमभूदपि ।
यदि न विदुषां धैर्याम्भोधिं गभीरमवज्ञया
नयननलिनीनालाकृष्टं पिबन्ति मृगदृशः ॥१०७१॥
धर्मयोगेश्वरस्य ।
प्रेयांसमीक्षितुमथेक्षणतारकस्य
दूरादपाङ्गपदवीमभिधावतोऽस्याः ।
आनन्दबाष्पजलबिन्दुनिभेन सान्द्राः
स्वेदाम्बुसीकरकणा इव संनिपेतुः ॥१०७२॥
कस्यचित।
विस्फाराः प्रथमं कुतूहलवशादुत्क्षिप्तपक्ष्मश्रियो
जातव्रीडमथो विनम्रसरलाः किंचिद्विलोलास्ततः ।
अभ्यासं पुनराकलय्य कलया कान्तं कुरङ्गीदृशां
सिञ्चन्तीव सुधाच्छटाभिरनृजुप्रागल्भ्यगर्भा दृशः ॥१०७३॥
वीर्यमित्रस्य ।
यद्भान न मदनो न विदन्ति दूत्यो
वाग्देवतापि न सुखं यदपि व्यनक्ति ।
तत्कूटगर्वितदरस्फुटभावभाजो
व्याकुर्वते मृगदृशां दृश एव तत्त्वम् ॥१०७४॥
कस्यचित।
आश्चर्यस्तिमिताः क्षणं क्षणमथ प्रीतिप्रमीलत्पुटा
वातान्दोलितपङ्कजातसुमनःपीयूषधारामुचः ।
एताः कस्य हरन्ति हन्त न मनः किंचित्त्रपामञ्जुल
प्रेमप्रेरणमत्र मुग्धमुरचत्तारोत्तरा दृष्टयः ॥१०७५॥
शङ्करधरस्य ।
१२१. कटाक्षः
प्रणालीदीर्घस्य प्रसृमरतरङ्गस्य सुहृदः
कटाक्षव्याक्षेपाः शिशुशफरफालप्रतिभुवः ।
सुधायाः सर्वस्वं कुसुमधनुषोऽस्मान्प्रति सखे
नवं नेत्राद्वैतं कुवलयदृशः संनिदधति ॥१०७६॥
राजशेखरस्य । (वि.शा.भ. ४.१८, सु.र. ५२०)
तिष्ठन्त्या जनसङ्कुलेऽपि सुदृशा सायं गृहप्राङ्गणे
तत्कालं मयि निःसहालसतनौ वीथ्यां मृदु प्रेङ्खति ।
ह्रीनम्राननयैव लोलसरलं निश्वस्य तत्रान्तरे
प्रेमार्द्राः शशिखण्डपाण्डिममुषो मुक्ताः कटाक्षच्छ्टाः ॥१०७७॥
कस्यचित।
उपरि कवरीबन्धग्रन्थीनथ ग्रथिताङ्गुलीन्
निजभुजतले तिर्यक्तन्व्या वितत्य विवृत्तया ।
विवृतविलसद्धामापाङ्गस्तनार्धकपोलया
कुवलयदलस्रक्सन्दिग्धश्रियः प्रहिता दृशः ॥१०७८॥
परमेश्वरस्य । (सु.र. ५०९)
वैदग्ध्यक्रमबद्धमुग्धहसितज्योत्स्नावलिप्ताधरे
लब्धा किं नु कुरङ्गशावनयने दीक्षा त्वया मान्मथी ।
लीलानन्तरमन्मथाः शशिमुखि क्षिप्यन्त एताः कथं
कुन्देन्दीवरदीर्घदामतरलस्निग्धाः कटाक्षच्छटाः ॥१०७९॥
भङ्गुरस्य ।
स्वच्छन्दं मीनकेतोर्युवजनमृगयाजातकौतूहलस्य
जाताबन्धावगच्छत्यधिगतगरिमा कार्मुकोत्तंसलक्ष्मीम् ।
यावल्लोलाक्षि नायं प्रतिफलति बलच्चन्द्रिकाकर्बुरान्तः
कालिन्दीवीचिमैत्रीमवतरति तवागोत्रसाक्षी कटाक्षः ॥१०८०॥
जलचन्द्रस्य ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP