शृङ्गारप्रवाहः - सुभाषित ११०१ - ११२०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
१२६. चुम्बनम्
रसवदमृतं कः सन्देहो मधून्यपि नान्यथा
मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम् ।
सकृदपि पुनर्मध्यस्थः सन्रसान्तरविज्जनो
वदतु यदिहान्यत्स्वादु स्यात्प्रियारदनच्छदात॥११०१॥
कस्यचित। (स.क.आ. १.११०, स्व१५११, सु.र. ५२९, शा.प. ३३१२, सूक्तिमुक्तावलि ५३.२१)
कियन्तं चित्कालं दशनपदभीताधरदलं
ललाटप्रस्वेदस्खलदलकमुत्तालनयनम् ।
निषेधानुज्ञातं पुलकितकपोलं प्रियतमो
वधूवक्त्राम्भोजं रसयति च निर्वर्णयति च ॥११०२॥
अभिनन्दस्य ।
फलमलघु किं लीलावल्ल्या गृहं नु गुणश्रियाम्
अमृतमथवैकस्थं पिण्डीकृतं न रसायनम् ।
निधिरुत रतेः सर्वस्वं वा विलासविधेः प्रियैर्
इति न ललनाबिम्बोष्ठानां रसः परिचिच्छिदे ॥११०३॥
शिवस्वामिनः ।
शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनैर्
निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् ।
विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डश्तलीं
लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥११०४॥
अमरोः । (आस्६८, स्व२११३, सा.द.. १.३)
सन्दष्टाधरपल्लवा सचकितं हस्ताग्रमाधुन्वती
मामामुञ्च शठेति कोपवचनैरानर्तितभ्रूलता ।
शीत्काराञ्चितलोचना सरभसं यैश्चुम्बिता मानिनी
प्राप्तं तैरमृतं मुधैव मथितो मूढैः सुरैः सागरः ॥११०५॥
[अमरु ३२, Sभ्१३०३, शा.प. ३६६८]
१२७. अधरखण्डनम्
दृशा सपदि मीलितं दशनरोचिषा निर्गतं
करेण परिवेपितं वलयकैस्तथा क्रन्दितम् ।
प्रियैः सपदि योषितां ननु विखण्ड्यमानेऽधरे
परव्यसनकातराः किमु न कुर्वते साधवः ॥११०६॥
कस्यचित। (स्व२०९७, शा.प. ३६८४, सूक्तिमुक्तावलि ७८.१३)
सलीलनिर्धूतकरारविन्द
सीत्कारसंधुक्षितमन्मथायाः ।
जग्राह बिम्बाधरमूढरागं
रागं रमण्या हृदयं च कान्तः ॥११०७॥
रत्नाकरस्य ।
यद्दन्तदष्टदशनच्छदना चकार
सीत्कारमाकुलितनेत्रयुगा मृगाक्षी ।
मन्ये तदेतदधरामृतपानसेक
निर्वाप्यमाणविरहज्वरवह्निशब्दम् ॥११०८॥
जयकण्ठस्य ।
नान्दीपदानि रतिनाटकविघ्नशान्ताव्
आझाक्षराणि परमाण्यथवा स्मरस्य ।
दष्टेऽधरे प्रणयिना विधूताग्रपाणेः
सीत्कारशुष्करुदितानि जयन्ति नार्याः ॥११०९॥
वामनस्य । (स.क.आ. २.३८१, द.रू. २.४०ब्, सूक्तिमुक्तावलि ७८.४)
संदष्टेऽधरपल्लवे प्रणयिना हस्ताम्बुजव्याधुति
प्रेङ्खित्काञ्चनन्कङ्कणावलिकलव्याहारमिश्रश्रियः ।
सीत्कारा हृदयस्पृशो रतिरणक्रीडासु वामभ्रुवां
राजन्ते विजयोद्धुरस्मरचमूक्ष्वेडा निनादा इव ॥१११०॥
युवतीसम्भोगकारस्य ।
१२८. नवक्षतम्
राजन्ति कान्तनखरक्षतयो मृगाक्ष्या
लाक्षारसद्रवमुचः कुचयोरुपान्ते ।
अन्तःप्रवृद्धमकरध्वजपावकस्य
शङ्के विभिद्य हृदयं निरगुः स्फुलिङ्गाः ॥११११॥
कस्यापि । (सु.र. ६१२)
जयन्ति कान्तास्तनमण्डलेषु
विटार्पितान्यार्द्रनखक्षतानि ।
लावण्यसम्भारनिधानकुम्भे
मुद्राक्षराणीव मनोभवस्य ॥१११२॥
कस्यचित। (स्व१५४१, सु.र. ६१३)
पीनतुङ्गकठिनस्तनान्तरे
कान्तदत्तमबला नखक्षतम् ।
आवृणोति विवृणोति वीक्षते
लब्धरत्नमिव निर्धनो जनः ॥१११३॥
कस्यचित। (सु.र. ६१५)
नखक्षतं यन्नवचन्द्रसन्निभं
स्थितं कृशाङ्गि स्तनमण्डले तव ।
इदं तरीतुं त्रिवलीतरङ्गिणीं
विराजते पञ्चशरस्य नौरिव ॥१११४॥
कस्यचित। (सु.र. ६२३)
काश्मीरपङ्कखचितस्तनपृष्ठताम्र
पट्टावकीर्णदयितार्द्रनखक्षताली ।
एणीदृशः कुसुमचापनरेन्द्रदत्ता
जैत्रप्रशस्तिरिव चित्रलिपिर्विभाति ॥१११५॥
दक्षस्य । (सु.र. ६२८)
१२९. कण्ठकूजितम्
कान्ते विचित्रसुरतक्रमबद्धरागे
सङ्केतकेऽपि मृगशावकलोचनायाः ।
तत्कूजितं किमपि येन तदीयतल्पं
नाल्पैः परीतमनुशब्दितलावकौघैः ॥१११६॥
रुद्रटस्य । (शृ.ति. १.२२फ़्)
कान्ते तथा कथमपि प्रथितं मृगाक्ष्या
चातुर्यमुद्धतमनोभवया रतेषु ।
तत्कूजितान्यनुवदद्भिरनेकवारं
शिष्यायितं गृहकपोतशतैर्यथास्याः ॥१११७॥
कस्यापि ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP