संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः| सुभाषित ७४१ - ७६० शृङ्गारप्रवाहः शृङ्गारप्रवाहवीचयः सुभाषित ४७६ - ४८० सुभाषित ४८१ - ५०० सुभाषित ५०१ - ५२० सुभाषित ५२१ - ५४० सुभाषित ५४१ - ५६० सुभाषित ५६१ - ५८० सुभाषित ५८१ - ६०० सुभाषित ६०१ - ६२० सुभाषित ६२१ - ६४० सुभाषित ६४१ -६६० सुभाषित ६६१ - ६८० सुभाषित ६८१ - ७०० सुभाषित ७०१ - ७२० सुभाषित ७२१ - ७४० सुभाषित ७४१ - ७६० सुभाषित ७६१ - ७८० सुभाषित ७८१ - ८०० सुभाषित ८०१ - ८२० सुभाषित ८२१ - ८४० सुभाषित ८४१ - ८६० सुभाषित ८६१ - ८८० सुभाषित ८८१ - ९०० सुभाषित ९०१ - ९२० सुभाषित ९२१ - ९४० सुभाषित ९४१ - ९६० सुभाषित ९६१ - ९८० सुभाषित ९८१ - १००० सुभाषित १००१ - १०२० सुभाषित १०२१ - १०४० सुभाषित १०४१ - १०६० सुभाषित १०६१ - १०८० सुभाषित १०८१ - ११०० सुभाषित ११०१ - ११२० सुभाषित ११२१ - ११४० सुभाषित ११४१ - ११६० सुभाषित ११६१ - ११८० सुभाषित ११८१ - १२०० सुभाषित १२०१ - १२२० सुभाषित १२२१ - १२४० सुभाषित १२४१ - १२६० सुभाषित १२६१ - १२८० सुभाषित १२८१ - १३०० सुभाषित १३०१ - १३२० सुभाषित १३२१ - १३४० सुभाषित १३४१ - १३६० सुभाषित १३६१ - १३७० शृङ्गारप्रवाहः - सुभाषित ७४१ - ७६० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित ७४१ -७६० Translation - भाषांतर ५४. प्रोषितभर्तृकावचनम्प्रस्थानं वलयैः कृतं प्रियसखैरजस्रं गतंधृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः ।गन्तुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थितागन्तव्ये सति जीवितप्रियसुहृत्सार्थः किमु त्यज्यते ॥७४१॥ कस्यचित। (अमरु ३२; Sभ्व्११५१; शा.प. ३४२४; सूक्तिमुक्तावलि ३७.१९; पद्या. ३१४)आयाता मधुयामिनी विजयते कान्तप्रयाणोत्सवःप्राणा यान्तु यियासवो यदि पुनर्जन्मग्रहोऽभ्यर्थये ।व्याधः कोकिलबन्धने विधुपरिध्वंसे च राहोर्गणाः कन्दर्पे हरनेत्रपावककणाः प्राणेश्वरे मन्मथः ॥७४२॥इन्द्रशिवस्य ।यात्रामङ्गलसंविधानरचनाव्यग्रे सखीनां गणेबाष्पाम्भःपिहितेक्षणे गुरुजने तद्वत्सुहृन्मण्डले ।प्राणेशस्य मदीक्षणार्पितदृशः कृच्छादतिक्रामतः किं व्रीडाहतया मया भुजलतापाशो न कण्ठेऽर्पितः ॥७४३॥कस्यचित। (स्व११५०, शा.प. ३४३७)किं चूतैर्न विजृम्भितं स्तवकितं किं तैर्न कङ्केल्लिभिःसिन्दूरैरिव मुद्रितास्तत इतो जाता न किं किंशुकाः ।विस्मृत्यापि न कोकिलैः किमु रुतं किं दाक्षिणात्यानिलैर्वातं तत्र न निर्वृतैकहृदयो यत्रास्ति मे वल्लभः ॥७४४॥कस्यचित।मया बद्धा वेणी निवसितमशुक्लं च वसनंश्रुताः शोचन्तीनां पर्जनसखीनामपि गिरः ।निवृत्तास्ते दृष्टा गत्मनुगता येऽस्य सुहृदस्तथाप्येते प्राणा दयितमनुयाता न कृपणाः ॥७४५॥कस्यचित। (स्व११४२)५५. सखीं प्रति प्रोषितभर्तृकावचनम्अवधिदिवसः प्राप्तश्चायं तनोर्विरहस्य वा रविरयमुपैत्यस्तं सख्यो ममापि च जीवितम् ।तदलमफलैराशाबन्धैः प्रसीद नमोऽस्तु ते हृदय सहसा पाकोत्पीडं विडम्बय दाडिमम् ॥७४६॥अभिमन्योः । (सूक्तिमुक्तावलि ४०१९)गर्जत्येकः परभृतयुवा पञ्चमध्वानगर्भंवाति स्वैरं मलयपवनो दूरतो जीवितेशः ।एह्यालिङ्ग प्रियसखि पुनः क्वावयोर्दर्शनं स्यात्प्रत्यासन्नं मरणमसवः कण्ठदेशे लुठन्ति ॥७४७॥कस्यचित।अवधिदिवसः सोऽयं नात्रागतः किमियत्क्षणं वितर नयने पश्यैतन्मे पुरः सखि साहसम् ।इयमियमहं रूढज्वालाकरालितरोदसीं मलयजरसाभ्यक्तैरङ्गैः पताम्यभि कौमुदीम् ॥७४८॥गोसकस्य ।दृष्टं केतकधूलिधूसरमिदं व्योम क्रमाद्वीक्षिताःकच्चान्ताश्च शिलीन्ध्रकन्दलभृतः सोढाः कदम्बानिलाः ।सख्यः संवृणुताश्रु मुञ्चत भयं कस्मान्मुदेवाकुलाएतानप्यधुनास्मि वज्रघटिता नूनं सहिष्ये धनान॥७४९॥ रुद्रटस्य । (शृ.ति. २.६०अ; पद्या. ३२७)प्रसर शिशिरामोदं कौन्दं समीर समीरयप्रकटय शशिन्नाशाः कामं मनोज समुल्लस ।अवधिदिवसः पूर्णः सख्यो विमुञ्चत तत्कथां हृदयमधुना किञ्चित्कर्तुं ममान्यदिहेच्छति ॥७५०॥ तस्यैव । (शृ.ति. २.५८ए, सूक्तिमुक्तावलि ४०.१८; पद्या. ३३४)५६. प्रोषितभर्तृकाप्रियसंवादः द्वारस्तम्भनिषण्णया दयितया वक्रीकृतग्रीवयानासाग्रागतवारिबिन्दुविसरैः संसिच्यमानाङ्गया ।मन्युस्तम्भितकण्ठगद्गदगिरा प्रोच्चारितार्धाक्षरंसंदिष्टं तव कान्तया पथिक तद्वक्तुं न यत्प्रार्थये ॥७५१॥तुतातितस्य ।नावस्था वपुषो ममेयमवधेरुक्तस्य नातिक्रमोनोपालम्भपदानि वाप्यकरुणे तत्राभिधेयानि ते ।प्रष्टव्यः शिवमालि केवलमसौ कच्चिद्भवद्गोचरेनायातं मलयानिलैर्मुकुलितं कच्चिन्न चूतैरिति ॥७५२॥वाक्कूटस्य । (सु.र. ७२५)कुटजकटवो घ्राता वाताः श्रुतं घनगर्जितंनिशि निशि मुहुः शून्ये तल्पे कृतः शयनश्रमः ।अवधिगणना रेखा पूर्णाः कृता गृहभित्तयोन तव सविधं प्राणाः प्राप्ता न वा त्वमिहागतः ॥७५३॥कस्यचित।विज्ञप्तिरेषा मम जीवबन्धोतत्रैव नेया दिवसाः कियन्तः ।संप्रत्ययोग्यस्थितिरेष देशःकरा हिमांशोरपि तापयन्ति ॥७५४॥विज्जाया गणपतेः ।गन्तासि चेत्पथिक हे मम यत्र कान्तस्तत्त्वं वचो हर शुचौ जगतामसह्यः ।तापः सगर्जगुरुवारिनिपातभीतस्त्यक्त्वा भुवं विरहिणीहृदयं विवेश ॥७५५॥लडहचन्द्रस्य ।५७. प्रोषितभर्तृकावस्थाअविरलपतद्बाष्पोत्पीडप्रसिक्तकपोलया वचनविषयः संदेशोऽन्यस्तया विहितो न ते ।मनसि किमपि ध्यायन्त्या तु क्षणं तव कान्तया पथिक निहिता दृष्टिः कष्टं नवे करुणाङ्कुरे ॥७५६॥धर्मपालस्य ।पक्ष्माग्रस्खलिताश्रुधौतवलया निष्पन्दतारेक्षणाबिभ्राणा करपल्लवेन सततं क्षामं कपोलस्थलम् ।सेदानीं लिखितेव कामपि गतावस्थां सखीभिश्चिराद्आसन्नावधिवासरप्रकटितप्रत्याशयाश्वास्यते ॥७५७॥कस्यचित।विच्छिन्नेऽवधिवासरे क्षणमथ त्वद्वर्त्मवातायनंवारं वारमुपेत्य निर्घृणतया निश्चित्य किंचित्ततः ।सम्प्रत्येव निवेद्य केलिकुररीः सास्रं सखीभ्यः शिशोर्माधव्याः सहकारकेण करुणः पाणिग्रहः कल्पितः ॥७५८॥कस्यचित।निपतति शयने तव स्मरन्तीपथिकवधूरवधूतजीविताशा ।जलधरसमयस्य केतुभूतांवकुललतामवलोक्य पुष्पिताग्राम् ॥७५९॥कस्यचित।आदूरात्प्रतिपान्थमाहितदृशः प्रत्याशयोन्मीलति ध्वान्ते स्वान्तमहर्व्ययेऽपि न परावृत्तं कुरङ्गीदृशः ।तस्या निःसहबाहुवल्लिविगलद्धम्मिल्लवद्भङ्गुर ग्रीवं दीर्घमजीववत्प्रियसखीवर्गेण नीतं वपुः ॥७६०॥कस्यचित। N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP