संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः| सुभाषित १२२१ - १२४० शृङ्गारप्रवाहः शृङ्गारप्रवाहवीचयः सुभाषित ४७६ - ४८० सुभाषित ४८१ - ५०० सुभाषित ५०१ - ५२० सुभाषित ५२१ - ५४० सुभाषित ५४१ - ५६० सुभाषित ५६१ - ५८० सुभाषित ५८१ - ६०० सुभाषित ६०१ - ६२० सुभाषित ६२१ - ६४० सुभाषित ६४१ -६६० सुभाषित ६६१ - ६८० सुभाषित ६८१ - ७०० सुभाषित ७०१ - ७२० सुभाषित ७२१ - ७४० सुभाषित ७४१ - ७६० सुभाषित ७६१ - ७८० सुभाषित ७८१ - ८०० सुभाषित ८०१ - ८२० सुभाषित ८२१ - ८४० सुभाषित ८४१ - ८६० सुभाषित ८६१ - ८८० सुभाषित ८८१ - ९०० सुभाषित ९०१ - ९२० सुभाषित ९२१ - ९४० सुभाषित ९४१ - ९६० सुभाषित ९६१ - ९८० सुभाषित ९८१ - १००० सुभाषित १००१ - १०२० सुभाषित १०२१ - १०४० सुभाषित १०४१ - १०६० सुभाषित १०६१ - १०८० सुभाषित १०८१ - ११०० सुभाषित ११०१ - ११२० सुभाषित ११२१ - ११४० सुभाषित ११४१ - ११६० सुभाषित ११६१ - ११८० सुभाषित ११८१ - १२०० सुभाषित १२०१ - १२२० सुभाषित १२२१ - १२४० सुभाषित १२४१ - १२६० सुभाषित १२६१ - १२८० सुभाषित १२८१ - १३०० सुभाषित १३०१ - १३२० सुभाषित १३२१ - १३४० सुभाषित १३४१ - १३६० सुभाषित १३६१ - १३७० शृङ्गारप्रवाहः - सुभाषित १२२१ - १२४० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित १२२१ - १२४० Translation - भाषांतर १५०. प्रदोषःहंसाः संप्रति पक्षतौ सुनिभृतं कृत्वा शिरः शेरतेज्योत्स्नाभिस्तृषिताः समं सहचरैः सुप्ताश्चकोरस्त्रियः ।घूर्णद्भिः कुमुदोदरेष्वपि मधुक्षीवैः स्थितं षट्पदैर्अप्युच्चैर्गिरिशृङ्गमूर्धनि भृशं निर्यान्त्यमी बर्हिणः ॥१२२१॥उमापतिधरस्य ।सैरन्ध्रीकरकृष्टपट्टकसरत्तारध्वनिर्दूरतोदूतीसूत्रितसन्धिविग्रहविधिः सोल्लासलीलाचयः ।वारस्त्रीजनसज्ज्यमानशयनः संनद्धपुष्पायुधश्रीखण्डद्रवधौतसौधमलिनो रम्यः क्षणो वर्तते ॥१२२२॥कस्यचित। (वि.शा.भ. २.२३, शा.प. ३५९१, सूक्तिमुक्तावलि ६८.२)दिक्सरागमुखसंनिधापितस्फीतचन्द्रचषका शतक्रतोः ।क्षीवभावमिव बिभ्रती रतौविश्लथोच्चतिमिरांशुकोच्चया ॥१२२३॥अभिनन्दस्य ।बाष्पैर्मानवती जनस्य कुलटासंकेतचिन्तोर्मिभिःसंप्राप्ता प्रियसंगमैकमनसामाकल्पनोपक्रमैः ।दूतीसंचरणैरपि प्रणयिनोः संदेशवक्रोक्तिभिःकुत्रायं कुरुते न मन्मथमनस्तोषं प्रदोषागमः ॥१२२४॥जलचन्द्रस्य ।उपरि गूढहिमांशुमरीचिभिस्तमसि दूरमितः प्रतिसारिते ।अलकसंयमनादिव लोचनेहरति मे हरिवाहनदि मुखम् ॥१२२५॥कालिदासस्य । (Vइक्३.६)१५१. वसन्तारम्भःगर्भग्रन्थिषु वीरुधां सुमनसो मध्येऽङ्कुरं पल्लवावाञ्छामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः ।किं च त्रीणि जगन्ति जिष्णुदिवसैर्द्वित्रैर्मनोजन्मनोदेवस्यापि चिरोज्झितं यदि भवेदभ्यासवश्यं धनुः ॥१२२६॥(राजशेखरस्य; वि.शा.भ. १.२३, सु.र. १६६)अतीता श्रीतार्तिः प्रसरति शनैरुष्मकणिकादिनानि स्फायन्ते रविरपि अथं मन्थरयति ।हिमानीनिर्मुक्तः स्फुरति नितरां शीतकिरणःशराणां व्यापारः कुसुमधनुषो न व्यवहितः ॥१२२७॥(साम्पीकस्य)निद्राशेषनिमीलितेक्षणतया प्राप्ते वसन्तोद्यमेहस्तामर्षवशादसौ निजधनुः पञ्चेषुरन्विष्यति ।चूताः कोरकगर्भनिर्भरदरोद्भिन्नस्फुरद्ग्रन्थयोयात्यायाति च काकली पिकवधूकण्ठोपकण्ठं मुहुः ॥१२२८॥प्राज्ञभुतनाथस्य ।एकद्वेषु रसालशाखिषु मनागुन्मीलितं कुड्मलैःकर्णाकर्णिकया मिथः कथममी घूर्णन्ति विश्वेध्वगाः ।द्वित्रैः क्वापि किल श्रुताश्रुतमपि स्पष्टान्यपुष्टारुतंविष्वङ्मूर्च्छति दुःसहो विरहिणीगेहेषु हाहारवः ॥१२२९॥भट्टशालीयपीताम्बरस्य ।यातं मानैर्वधूनामिव दरशिथिलग्रन्थिभिः पूर्वपत्रैर्जातोऽपि क्वापि बालामदन इव बहिर्नाङ्कुरो व्यक्तिमेति ।आगारे नागराणामपि विहितबहुप्रार्थनाः कण्ठसीमांनीत्वा नीत्वा नवोढा इव वचनममूः कोकिलाः कुण्ठयन्ति ॥१२३०॥(आचार्यगोपीकस्य)१५२. वसन्तःजम्बूनां कुसुमोदरेष्वतिरसादाबद्धपानोत्सवाःकीराः पक्वफलाशया मधुकरीश्चुम्बन्ति मुञ्चन्ति च ।एतेषामपि पश्य किंशुकतरोः पत्रैरभिन्नत्विषांपुष्पभ्रान्तिभिरापतन्ति सहसा चञ्चूषु भृङ्गाङ्गनाः ॥१२३१॥(राजशेखरस्य; सु.र. १५७, सूक्तिमुक्तावलि १०९.२३ वसुकस्य)अङ्कुरिते पल्लविते कोरकितेविकसिते च सहकरे ।अङ्कुरितः पल्लवितः कोरकितोविकसितश्च मदनोऽसौ ॥१२३२॥ (कस्यचित्; सु.र. १८८)अमीषामारूढप्रसवविवराणां मधुलिहांध्वनिः पान्थस्त्रीणां प्रसरति वियोगज्वर इव ।द्रुमालीनां यूनोर्मन इव सरागं किसलयंपरागः पुष्पाणां पतति मदनस्येव विशिखः ॥१२३३॥(वसन्तदेवस्य)लीलास्नानविधिक्षमं मधुलिहां पुष्पेषु जातं मधुस्थायित्वं कलकण्ठकण्ठकुहरेष्वासेवते पञ्चमः ।एकच्छत्रजगत्त्रयार्जनरुचेर्देवस्य शृङ्गारिणश्चैत्रश्चित्रमकाण्ड एव समभूत्त्रैलोक्यमल्लो भटः ॥१२३४॥(बिल्हणस्य; Vच्७.६४)वापी दन्तुरितोदरा कमलिनी पत्राङ्कुरग्रन्थिभिश्चूतानां कलिकामिलन्मधुलिहां कापि स्थितिर्वर्तते ।किं चान्यत्कुसुमायुधोऽद्य भगवान्धत्ते सगर्वं धनुर्ज्यामुन्मार्ष्टि च पञ्चभिश्च विशिखैर्जेतुं जगद्वाञ्छति ॥१२३५॥(वीर्यमित्रस्य; सु.र. १७३ अभिनन्दस्य)१५३. वसन्तवासरःआरक्ताङ्कुरदन्तुरा कमलिनी नायामिनी यामिनीस्तोकोन्मुक्ततुषारमम्बरमणेरीषत्प्रगल्भं महः ।अप्येते सहकारसौरभमुचो वाचालिताः कोकिलैर्आयान्ति प्रियविप्रयुक्तयुवतीमर्मच्छिदो वासराः ॥१२३६॥सङ्घश्रीयः । (सु.र. १५२)मन्दं दक्षिणमाह्वयन्ति पवनं पुंस्कोकिलव्याहृतैःसंस्कुर्वन्ति वनस्थलीः किसलयोत्तंसिर्निषण्णालिभिः ।चन्द्रं सुन्दरयन्ति मुक्ततुहिनप्रावारया ज्योत्स्नयावर्धन्ते च विवर्धयन्ति च मुहुस्तेऽमी स्मरं वासराः ॥१२३७॥(कस्यचित्; सु.र. १६१)एते सम्प्रति वैमनस्यमनिशं निःशङ्कमातन्वतेकान्तारस्थलपद्मिनीपरिमलैरानन्दितेन्दिन्दिराः ।उन्मीलत्सहकारकाननतटीवाचालपुंस्कोकिलध्वानाकर्णनकान्दिशीकपथिकावस्कन्दिनो वासराः ॥१२३८॥(योगेश्वरस्य)धिन्वन्त्यमू# मदमूर्च्छदलिध्वनीनिधूताध्वनी#हृदयानि मधोर्दिनानि ।निस्तन्द्रचन्द्रवदनावदनारविन्दसौरभ्यसौहृदसगर्वसमीरणानि ॥१२३९॥(कस्यचित्)स्तोकस्तोकनिवर्तमानतुहिनोन्मीलन्नवाम्भोजिनीसङ्क्रान्तैरलिभिर्मुखेषु ककुभां क्ÿप्तालकश्रेणयः ।तत्तन्मन्मथबन्धुवार्तिकपिकप्रारब्धबीजाङ्कुरव्याख्यातक्षुभिताध्वनीनमनसो धिन्वन्त्यमी वासराः ॥१२४०॥(हरेः) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP