शृङ्गारप्रवाहः - सुभाषित १००१ - १०२०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
१०६. अनङ्गलेखः
ताडीदलं यदकठोरमिदं यदेषा
मुद्रा स्तनाङ्कघनचन्दनपङ्कमूर्तिः ।
यद्बन्धनं विसलता तन्तन्तुभिश्च
कस्याश्चिदेष गलितस्तदनङ्गलेखः ॥१००१॥
कस्यचित। (वि.शा.भ. ३.२१, सु.र. १६९१)
पाणिप्रेङ्खणतो विशीर्णशिरसः स्वेदाम्बुभग्नश्रियस्
तत्कृत्याकृतिलेशतो मनसि ते किञ्चित्प्रतीतं गताः ।
वैचित्र्यापुनरुक्तलाञ्छनभृतः खण्डेन वामेन वा
व्याक्षेपं कथयन्ति पक्ष्मलदृशो लेखाक्षरश्रेणयः ॥१००२॥
राजशेखरस्य । (वि.शा.भ. ३.२२, सु.र. १६९०)
कृतसरलमृणालीसूत्रसंतानबन्धः
कुचमुकुलमुखाङ्कश्चन्दनोपात्तमुद्रः ।
स्मरशबरशराणामेष लक्ष्यीभवन्तीं
कथयति ननु लेखस्तमनुद्घाटितोऽपि ॥१००३॥
कस्यचित।
तुल्यानुरागपिशुनं ललितानुबन्धं
पत्रे निवेशितमुदाहरणं प्रियायाः ।
उत्पश्यतो मम सखे मदिरेक्षणायास्
तस्याः समागतमिवाननमाननेन ॥१००४॥
कालिदासस्य । (Vइक्२.१३)
क्वापि स्वेदकणानिपातमसृणं कुत्रापि कम्पस्खलत्
पाणिव्यस्तलिपि क्वचिद्घनपतद्बाष्पाम्बुलिप्ताक्षरम् ।
क्वापि श्वासमहोर्मिमर्मरमिदं ताडङ्कताडीदलं
वर्णैरेव विना व्यनक्ति सुदृशो भावैकतानं मनः ॥१००५॥
उमापतिधरस्य ।
१०७. वनविहारः
उज्झन्त्यः स्वर्णकाञ्चीर्झणिति रशनया चम्पकन्यासमय्या
तन्वत्यस्तारहारान्विचकिलकलिकापङ्क्तिमुद्रावलीभिः ।
किं चाशोकप्रवालैररुणमणिमयान्संत्यजन्त्योऽवतंसान्
उत्कीर्णाः कामबाणैरिव हृदि सुहृदो वल्लभानां बभूवुः ॥१००६॥
राजशेखरस्य ।
दूरोदञ्चितबाहुमूलविलसच्चीनप्रकाशस्तना
भोगव्यायतमध्यलम्बिवसना निर्मुक्तनाभीह्रदा ।
आकृष्टोज्झितपुष्पमञ्जरिरजःपातावरुद्धेक्षणा
चिन्त्वत्याः कुसुमं धिनोति सुदृशः पादाग्रदुःस्था तनुः ॥१००७॥
उमापतिधरस्य ।
कङ्केलिरेष किमचेतन एव सत्यं
नम्नः स्वयं न कुसुमानि ददाति यस्ते ।
धूर्तोऽथवा नमति नायमुदस्तबाहु
व्यक्तोन्नतस्तनतटान्तदिदृक्षयेव ॥१००८॥
तस्यैव ।
एतस्मिन्सुतनु लतागृहेऽतिरम्यं
मालत्याः कुसुममनाचितं परेण ।
इत्युक्त्वा मृदुकरपल्लवं गृहीत्वा
मुग्धाक्षीं रहसि निनाय कोऽपि धूर्तः ॥१००९॥
जयमाधवस्य ।
तासां पीनस्तनकलसयोः स्थूलमुक्ताभिरामा
वेणीभूतास्त्रिवलिविषमे तिर्यगायामभाजः ।
वक्त्रे लोलालकविलुलिताः केतकक्षोदलक्ष्मीं
प्राप्ताः क्रीडावनविहरणे बिन्दवः स्वेदवाराम् ॥१०१०॥
धोयीकस्य ।
१०८. जलक्रीडा
आयासश्लथबाहुवल्लिरधिकस्मेरै
लोलापाङ्गकपोलपालिरलिकस्तोमार्धलुप्तालका ।
न्यस्यन्ती मदयत्यनावृत इव प्रच्छादनायाञ्चलं
मुग्धा स्वेदनिपीतसूक्ष्मसिचयव्यक्तस्तनी वक्षसि ॥१०११॥
तुङ्गोकस्य ।
अम्भोभिस्तनकुम्भयोस्तव घनश्लेषात्समुत्कीर्णतां
याताया शुकवक्रिमप्रणयिनी सेयं न लुप्ता लिपिः ।
किं चैतां कुसुमेषु कुञ्जरशिरोनक्षत्रमालां तिरो
धित्सुर्निष्फलमेव मज्जसि नभः स्वच्छे सरोवारिणि ॥१०१२॥
धर्माशोकदत्तस्य ।
मुग्धाङ्गना कापि सरोजपत्रे
विलोलिताम्भःकणिकां विलोक्य ।
प्रसारयामास जवेन पाणिं
ससम्भ्रमं मौक्तिकशङ्कयेव ॥१०१३॥
वल्लभदेवस्य । (स्व१८७५)
बिभ्राणास्तोयलग्नं वसनमरशनादामनि श्रोणिभारे
दूरादन्योन्यसाचिस्मितचतुरसखीकामिभिर्वीक्ष्यमाणाः ।
उत्तेरुस्तीरलेखां विपुलकमलिनीपत्रमीषद्विलक्षा
वक्षोजाग्रेषु कृत्वा हरिणशिशुदृशो वीतचीनांशुकेषु ॥१०१४॥
धोयीकस्य ।
मोक्तुं स्नानांशुकानि स्मररभसरसस्यानुकूलैर्दुकूलैः
संस्कर्तुं केशपाशानगुरुसुरभिणा धूपधूमोद्गमेन ।
ताम्बूलोल्लेखरेखामपि विरचयितुं धौतपृष्ठेऽधरोष्ठे
तीरोत्तीर्णास्तरुण्यः क्षणमुपविविशुर्वल्लिकेलीगृहेषु ॥१०१५॥
राजशेखरस्य ।
१०९. वेशः
वक्त्रेन्दुर्मृगलाञ्छनेन वलितः पत्रावलीसंगमात्
कण्ठे कम्बुविडम्बिनि द्विगुणितास्तारापहारस्रजः ।
दोर्वल्लीयुगले मृणालसुहृदि ग्रन्थिभ्रमायाङ्गदं
मन्ये भूषणमेव दूषणपदे तत्प्राप्य तस्या वपुः ॥१०१६॥
विरिञ्चेः ।
कौसुम्भं कुचकुम्भयोर्निवसनं सौवर्णिकं कर्णयोस्
ताडङ्कद्वयमाञ्जनी नयनयोरालेख्यलेखालिपिः ।
काश्मीरेण तमालपत्रमलिके हैमी करे कङ्कण
श्रेणिः पाशयितुं जगन्त्यलमलङ्काराः कुरङ्गीदृशः ॥१०१७॥
उमापतिधरस्य ।
दीर्घापाङ्गं नयनयुगलं भूषयत्यञ्जनश्रीस्
तुङ्गाभोगौ प्रभवति कुचावर्चितुं हारयष्टिः ।
मध्यक्षामे वपुषि लभते स्थाम कूर्पासलक्ष्मीः
श्रोणीबिम्बे गुरुणि रशनादामशोभां बिभर्ति ॥१०१८॥
कस्यचित।
कण्ठे मौक्तिकमालिका स्तनतटे कार्पूरमध्यं रजः
सान्द्रं चन्दनमङ्गके वलयिता पाणौ मृणालीलता ।
तन्वी नक्तमियं चकास्ति शुचिनी चीनांशुके बिभ्रती
शीतांशोरधिदेवतेव गलिता व्योमाग्रमारोहितः ॥१०१९॥
राजशेखरस्य । (वि.शा.भ. ३.१६, सु.र. ३८५)
इन्दोश्चन्दनबिन्दुनैव दशनच्छायं तदीयं मुखं
चक्रं लोचनभल्लमार्जनविधौ शाणस्य तत्कुण्डलम् ।
भिन्नानां कुचकन्दरा स्मितसुधाकुल्येव मुक्तावली
पादाब्जे ध्वनदिन्द्रनीलवलयं रोलम्बमालैव सा ॥१०२०॥
शाण्डिल्यस्य ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP