संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
सुभाषित ४८१ - ५००

शृङ्गारप्रवाहः - सुभाषित ४८१ - ५००

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


२. किञ्चिदुपारूढयौवना ।

यत्प्रत्यङ्गं स्फुटमनुसरन्त्यूर्मयो विभ्रमाणां
क्षोभं धत्ते यदपि विपुलः स्निग्धलावण्यपङ्कः ।
उन्मग्नं यत्स्फुरति च मनाक्कुम्भयोर्युग्ममेतत्
तन्मन्येऽस्या स्मरगजयुवा गाहते हृत्तडागम् ॥४८१॥

विधूकस्य । (सु.र. ३६५)

भ्रुवोः काचिल्लीला परिणतिरपूर्वा नयनयोः
स्तनाभोगो व्यक्तस्तरुणिमसमारम्भसमये ।
इदानीमेतस्याः कुवलयदृशः प्रत्यहमयं
नितम्बस्याभोगो नयति मणिकाञ्चीमधिकताम् ॥४८२॥

राजोकस्य । (सु.र. ३३४, शा.प. ३२७४, सूक्तिमुक्तावलि ५१.७)

दरोत्तानं चक्षुः कलितविरलापाङ्गचलनं
भविष्यद्विस्तारस्तनमुकुलगर्भालसमुरः ।
नितम्बे सङ्क्रान्ताः कतिपयकला गौरवजुषो
वपुर्मुञ्चद्बाल्यं किमपि कमनीयं मृगदृशः ॥४८३॥

कस्यचित। (सु.र. ३५१, सूक्तिमुक्तावलि ५१.१०)

पद्भ्यां मुक्तास्तरलगतयः संश्रिता लोचनाभ्यां
श्रोणीबिम्बं त्यजति तनुतां सेवते मध्यभागः ।
धत्ते वक्षः कुचसचिवतामद्वितीयं च वक्त्रं
तद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ॥४८४॥

राजशेखरस्य । (सु.र. ३५५, शा.प. ३२८२, सूक्तिमुक्तावलि ५२.४)

गते बाल्ये चेतः कुसुमधनुषा सायकहतं
भयाद्वीक्ष्यैवास्याः स्तनयुगमभून्निर्जिगमिषु ।
सकम्पा भ्रूवल्ली चलति नयनं कर्णकुहरं
कृशं मध्यं भुग्ना बलिरलसितः श्रोणिफलकः ॥४८५॥
३. युवतिः

तरन्तीवाङ्गानि स्फुरदमललावण्यजलधौ
प्रथ्म्नः प्रागल्भ्यं स्तनजघनमुन्मुद्रयति च ।
दृशोर्लीलारम्भाः स्फुटमपवदन्ते सरलताम्
अहो सारङ्गाक्ष्यास्तरुणिमनि गाढः परिचयः ॥४८६॥

राजशेखरस्य । (सु.र. ३७५)

अतन्त्री वाग्वीणा स्तनयुगलमग्रीवकलसा
वनब्जं दृङ्नीलोत्पलदलमपत्रोरुकदली ।
अकाण्डा दोर्वल्ली वदनमकलङ्कः शशधरस्
तदस्यास्तारुण्यं भुवनविपरीतं घटयति ॥४८७॥

वाग्वीणस्य ।

न जङ्घे गौराङ्ग्याः सरसकदलीस्तम्भयुगलं
न मध्योऽयं वेदी न कुचयुगलं काञ्चनघटौ ।
न काञ्ची किं चायं स्फुरति परितस्तोरणगुणः
स्मरस्यैतन्मन्ये सकलमभिषेकोपकरणम् ॥४८८॥

कस्यचित।

तदेतत्सर्वस्वं भुवनजयिनः पुष्पधनुषो
मनुष्याणामेकं तदिदमसमं जीवितफलम् ।
इदं तत्सौख्यानां कुलभवन्माद्यं त्रिभुवने
यदेतत्तारुण्योपहितमहिमानो मृगदृशः ॥४८९॥

कस्यचित।

मध्यं बद्धवलित्रयं विजयते निःसन्धिबन्धोन्नमद्
विस्तारिस्तनभारमन्थरमुरो मुग्धा कपोलश्रियः ।
किं चामुग्धविनिद्रनीरजदृशस्तारुण्यपुण्यातिथेर्
अस्याः कुङ्कुमपङ्कलेपलडहच्छायं वपुर्वर्तते ॥४९०॥

कस्यचित। (सु.र. ३६१, वज्रमुष्टेः)
४. नायिकाद्भुतम्

मध्ये हेमलतं कपित्थयुगलं प्रादुर्बभूव क्रम
प्राप्तौ तालफलद्वयं तदभवन्निःसन्धि भावस्थितम् ।
पश्चाद्बद्धसमुन्नतिव्यतिकरं सौवर्णकुम्भद्वया
कारेण स्फुटमेव तत्परिणतं क्वेदं वदामोद्भुतम् ॥४९१॥

वेतोकस्य । (सु.र. ३८७)

दृष्टा काञ्चनयष्टिरद्य नगरोपान्ते भ्रमन्ती मया
तस्यामद्भुतमेकपद्ममनिशं प्रोत्फुल्लमालोकितम् ।
तत्रोभौ मधुपौ तथोपरि तयोरेकोष्टमीचन्द्रमास्
तस्याग्रे परिपुञ्जितेन तमसा नक्तं दिवं स्थीयते ॥४९२॥

तस्यैव (सु.र. ३८८)

दृष्टाः शैवलमञ्जरीपरिचिताः सिन्धोश्चिरं वीचयो
रत्नान्यप्यवलोकितानि बहुशो युक्तानि मुक्ताफलैः ।
यत्तु प्रोज्झितलाञ्छने हिमरुचावुन्निद्रमिन्दीवरं
संसक्तं च मिथो रथाङ्गमिथुनं तत्कुत्र दृष्टं पुनः ॥४९३॥

रथाङ्गस्य । (सु.र. ४५२, विक्रमादित्यस्य)

लावण्यसिन्धुरपरैव हि केयमत्र
यत्रोत्पलानि शशिना श सम्प्लवन्ते ।
उन्मज्जति द्विरदकुम्भतटी च यत्र
यत्रापरे कदलकाण्डमृणालदण्डाः ॥४९४॥

विक्रमादित्यस्य । (स.क.आ. ४.१०२, सूक्तिमुक्तावलि ४९.१७, सु.र. ४२६)

किं कोप्येष मनोभ्रमः किमथवा जातो दृशां मादृशां
दोषस्तैमिरिकः किमेष सुमहानुत्पातनामा विधिः ।
यन्नीलाञ्जनसंनिभोत्पलदलद्वन्द्वोल्लसत्पञ्चम
व्याहारी दिवसे च वर्धितरुचिर्गेहे शशी पार्वणः ॥४९५॥

कस्यचित।
५. मुग्धा

वारं वारमनेकधा सखि मया चूतद्रुमाणां वने
पीतकर्णदरीप्रणालवलितः पुंस्कोकिलानां ध्वनिः ।
तस्मिन्नद्य पुनः श्रुतिप्रणयिनि प्रत्यङ्गमुत्कम्पितं
तापश्चेतसि नेत्रयोस्तरलता कस्मादकस्मान्मम ॥४९६॥

भोजदेवस्य । (सु.र. ३५०)

वविरेव मलयमरुतो जगुरेव पिकाः परारि च परुच्च ।
उत्कण्ठाभरतरलं सखि मानसमैषमः किमिदम् ॥४९७॥

कालिदासस्य ।

सा पत्न्युः प्रथमापराधसमये सख्योपदेशं विना
नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् ।
स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला
बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ॥४९८॥

अमरोः [अमरु २६]

ध्रुवमुदधितटीषु वल्लयस्ता
यदुदिततन्तुचयैर्भवन्ति काञ्च्यः ।
इह हरिणदृशः फलैर्यदीयैर्
विदधति मौक्तिकनाम्भिश्च हारान॥४९९॥

राजशेखरस्य । (सूक्तिमुक्तावलि ८६.३)

यावद्यावत्कुवलयदृशा मृज्यते दन्तराजिस्
तावत्तावद्द्विगुणमधरच्छायया शोणशोचिः ।
भूयो भूयः प्रियसहचरीदर्शितादर्शभित्तौ
दृष्ट्वा दृष्ट्वा न विरमयते पाणिमद्यापि मुग्धा ॥५००॥

देवबोधस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP