शृङ्गारप्रवाहः - सुभाषित ११८१ - १२००
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
१४२. प्रत्यूषः
क्षुण्णान्येव तमांसि किन्तु दधति प्रौढि न सम्यग्दृशोर्
वासः संवृत्तमेव किन्तु जहति प्राणेश्वरं नाबलाः ।
पारावारगतैश्च कोकमिथुनैरानन्दतो गद्गदं
साकूतं रुतमेव किन्तु सहसा झात्कृत्य नोड्डीयते ॥११८१॥
वसुकल्पस्य । (सु.र. ९६५)
पत्यौ पात्रे कलानां व्रजति गतिवशादस्तमिन्दौ क्रमेण
क्रन्दन्ती पत्रिरावैर्विगलिततिमिरस्तोमधम्मिल्लभारा ।
प्रभ्रंशिस्थूलमुक्ताफलनिकरपरिस्पर्धिताराश्रुबिन्दुः
प्रोन्मीलत्पूर्वसन्ध्याहुतभुजि रजनी पश्य देहं जुहोति ॥११८२॥
योगेश्वरस्य । (सूक्तिमुक्तावलि ८२.३, सु.र. ९७०)
उत्कण्ठाकुलचक्रवाकयुवतीनिःश्वासदण्डाहतः
पीयूषद्युतिरच्छदर्पणतुलामारोहति प्रस्थितः ।
कोकानां कृपयेव कुक्कुटरवैराहूयमाने रवौ
दिग्जाता नवधौतविद्रुममणिच्छाया च सौत्रामणी ॥११८३॥
शुभाङ्कस्य ।
प्रालेयाम्भःशिशिरपवनापीयमानक्लमानां
कण्ठोपान्तस्तिमितनमितैकैकदोःकन्दलीनाम् ।
नानाक्रीडाजनितरजनीजागरेणोपनीते
निद्राभोगः स्थगयति दृशौ सांप्रतं दम्पतीनाम् ॥११८४॥
सुरभेः ।
ताराणां विरलोऽधुना परिकरः स्मेरं नभो वर्तते
मञ्जिष्ठारसपाटलेन महसाक्रान्ता च पूर्वा ककुप।
किंचान्यत्स्मरजागरूकविहगद्वन्द्वस्य दुःखच्छिदो
मित्रस्यागमनं व्यनक्ति विसिनीनिद्रादरिद्रः क्षणः ॥११८५॥
कामदेवस्य ।
१४३. सूर्योदयः
अयमुदयति मुद्राभञ्जनः पद्मिनीनां
उदयगिरिवनालीबालमन्दारपुष्पम् ।
विरहविधुरकोकद्वन्द्वबन्धुर्विभिन्दन्
कुपितकपिकपोलक्रोधताम्रस्तमांसि ॥११८६॥
योगेश्वरस्य । (स.क.आ. १.१००, सा.द. उन्देर्९.६, सु.र. ९७९)
शक्यार्चनः सुचिरमीक्षणपङ्कजेन
काश्मीरपिण्डपरिपाटलमण्डलश्रीः ।
ध्वान्तं हरन्नमरनायकपालितायां
देवोऽभ्युदेति दिशि वासरबीजकोषः ॥११८७॥
विष्णुहरेः । (सु.र. ९६८)
तेजोराशौ भुवनजलधेः प्लाविताशातटान्तं
भानौ कुम्भोद्भव इव पिबत्यन्धकारोत्कराम्भः ।
सद्यो माद्यन्मकरकमठस्थूलमत्स्या इवैते
यान्त्यन्तस्थाः कुलशिखरिणो दृष्टिवर्त्म क्रमेण ॥११८८॥
शिखस्वामिनः । (सु.र. ९७६)
अपास्तस्ताराभिर्विधन इव कामी युवतिभिर्
मधुच्छत्रच्छायां स्पृशति शशलक्ष्मा परिणतः ।
अयं प्राचीकर्णाभरणरचनाशोककुसुम
च्छटालक्ष्मीचौरः कलयति रविः पूर्वमचलम् ॥११८९॥
रतिश्रमपरिस्खलत्समदसिद्धसीमन्तिनी
स्तनच्युतमिवांशुकं विशदपद्मरागद्युति ।
अयं दिशि शतक्रतोः कुवलयाक्षि बिम्बारुण
त्वदीयदशनच्छदच्छविरुदेति बालातपः ॥११९०॥
मुञ्जस्य ।
१४४. मध्याह्नः
एतस्मिन्दिवसस्य मध्यसमये वातोऽपि चण्डातप
त्रासेनेव न संचरत्यहिमगोर्बिम्बे ललाटंतपे ।
किं चान्यत्परितप्तधूलिलुठनप्रोषासहत्वादिव
च्छाया दूरगतापि भूरुहतले व्यावर्त्य संलीयते ॥११९१॥
मलयराजस्य । (सु.र. ९८२)
धत्ते पद्मलतादलेप्सुरुपरि खं कर्णतालं द्विपः
शष्पस्तम्बरसान्नियच्छति शिखी मध्ये शिखण्डं शिरः ।
मिथ्या लेढि मृणालकोटिरभसाद्दंष्ट्राङ्कुरं शूकरो
मध्याह्ने महिषश्च वाञ्छति निजच्छायामहाकर्दमम् ॥११९२॥
राजशेखरस्य । (वि.शा.भ. १.४३, सु.र. ९८९)
मध्याह्नार्कमरीचिदुःसहतया संत्यज्य दर्भाङ्कुर
ग्रासानाश्रितकन्दरद्रुमघनच्छायं मृगाः शेरते ।
मातङ्गः करशीकरैर्निजवशां सिञ्चन्श्रमार्तां मुहुर्
निष्क्रान्तो गहनाद्द्रुतोद्गतपदं पद्माकरे सर्पति ॥११९३॥
वसन्तदेवस्य ।
तापात्पिण्डितविग्रहेव विशति च्छाया तरूणां तले
रुद्धः स्वाश्रयपक्षपातकृतिभिः पद्मैरपामातपः ।
अद्यान्तःपुरयोषितां मधुमदोत्सेकात्कपोलोदरे
द्वित्रैः स्वेदलवैरुदञ्चितमहो सूर्यो ललाटं तपः ॥११९४॥
उत्पलराजस्य ।
वपुस्तिम्यच्चीनांशुकनिविडपीनोरुजघन
स्तनानां निश्च्योतच्चिकुरपयसां पक्ष्मलदृशाम् ।
निमग्नोत्तीर्णानां प्रमदवनवापीतटजुषां
दिदृक्षाभिर्देवो रविरथ रथं मन्थरयति ॥११९५॥
गोवर्धनस्य ।
१४५. अस्तमयः
याते भास्वति वृद्धसारसशिरःशोणेस्तशृङ्गाश्रयं
व्यालिप्तं तिमिरैः कठोरबलिभुक्कण्ठातिनीलैर्नभः ।
माहेन्द्री दिगपि प्रसन्नमलिना चन्द्रोदयाकाङ्क्षिणी
भात्येषा चिरविप्रयुक्तशवरीगण्डाभपाण्डुच्छविः ॥११९६॥
मलयराजस्य । (सु.र. ८७५)
क्रमसङ्कुचितकुशेशयकाषान्तरनीयमानमधुपेन ।
गरलमिव गलति नलिनी दिनकरविरहातिखेदेन ॥११९७॥
दत्तस्य ।
करसादोऽम्बरत्यागस्तेजोहानिः सरागता ।
वारुणीसङ्गमावस्था भानुनाप्यनुभूयते ॥११९८॥
काश्मीरकसुरमूल्यस्य । (स्व. १८८६, सुरभिचूलस्य)
व्रजति कलितस्तोकालोको नवीनजवारुण
च्छविरसौ बिम्बं विन्दन्दिशं भृशमप्पतेः ।
ककुभि ककुभि प्राप्ताहाराः कुलायमहीरुहां
शिरसि शिरसि स्वैरं स्वैरं पतन्ति पतत्त्रिणः ॥११९९॥
कस्यचित। (सु.र. ८६९)
रुचिरजनितताराहारचौरस्य भूभृच्
छिखरतरुनिवेशोल्लम्बितस्योर्ध्वपादम् ।
चिरमवनतमेतच्छोणितापूर्यमाणं
मुखमिव रविबिम्बं रज्यते वासरस्य ॥१२००॥
सङ्घश्रीमित्रस्य ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP