संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः| सुभाषित ९४१ - ९६० शृङ्गारप्रवाहः शृङ्गारप्रवाहवीचयः सुभाषित ४७६ - ४८० सुभाषित ४८१ - ५०० सुभाषित ५०१ - ५२० सुभाषित ५२१ - ५४० सुभाषित ५४१ - ५६० सुभाषित ५६१ - ५८० सुभाषित ५८१ - ६०० सुभाषित ६०१ - ६२० सुभाषित ६२१ - ६४० सुभाषित ६४१ -६६० सुभाषित ६६१ - ६८० सुभाषित ६८१ - ७०० सुभाषित ७०१ - ७२० सुभाषित ७२१ - ७४० सुभाषित ७४१ - ७६० सुभाषित ७६१ - ७८० सुभाषित ७८१ - ८०० सुभाषित ८०१ - ८२० सुभाषित ८२१ - ८४० सुभाषित ८४१ - ८६० सुभाषित ८६१ - ८८० सुभाषित ८८१ - ९०० सुभाषित ९०१ - ९२० सुभाषित ९२१ - ९४० सुभाषित ९४१ - ९६० सुभाषित ९६१ - ९८० सुभाषित ९८१ - १००० सुभाषित १००१ - १०२० सुभाषित १०२१ - १०४० सुभाषित १०४१ - १०६० सुभाषित १०६१ - १०८० सुभाषित १०८१ - ११०० सुभाषित ११०१ - ११२० सुभाषित ११२१ - ११४० सुभाषित ११४१ - ११६० सुभाषित ११६१ - ११८० सुभाषित ११८१ - १२०० सुभाषित १२०१ - १२२० सुभाषित १२२१ - १२४० सुभाषित १२४१ - १२६० सुभाषित १२६१ - १२८० सुभाषित १२८१ - १३०० सुभाषित १३०१ - १३२० सुभाषित १३२१ - १३४० सुभाषित १३४१ - १३६० सुभाषित १३६१ - १३७० शृङ्गारप्रवाहः - सुभाषित ९४१ - ९६० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित ९४१ - ९६० Translation - भाषांतर ९४. चित्रम्प्रिया संनिहितैवेयं संकल्पस्थापिता पुरः ।दृष्ट्वा दृष्ट्वा लिखाम्येनां यदि तत्कोऽत्र विस्मयः ॥९४१॥प्रभाकरदत्तस्य । (ण्न्२.९)रहसि सततोत्सङ्गन्यासादजस्र मर्षान्नित्यस्तनार्पणकेलिभिः ।अनिशचरणोपान्तस्पर्शान्निरन्तरचुम्बनैर्अपि खलु तया लेख्यैः स चित्रपटीकृतः ॥९४२॥उमापतिधरस्य ।मसीयं तूलीयं फलकमिदमेष त्वमधुनाजडोऽसि स्विन्नोऽसि स्खलसि खलु पाणे कथमिव ।अमुष्य प्रावीण्यं कलयसि न किं हन्त मनसोविना यत्सामग्रीं सुभगशतमग्रे विलिखति ॥९४३॥कस्यचित।चित्रं चित्रगतोऽप्येष ममालि मदनोपमः ।समुन्मूल्य बलाल्लज्जामुत्कण्ठयति मानसम् ॥९४४॥रुद्रटस्य । (शृ.ति. १.५१ब्)तवालेख्ये कौतूहलतरलतन्वीविरचितेन्धायैका चक्रं रचयति सुपर्णासुतमपि ।अथ स्विद्यत्पाणिस्खलितमपमृज्यैतदपराकरे पौष्पं चापं मकरमुपरिष्टाच्च लिखति ॥९४५॥कस्यचित। (स.क.आ. ३.१६७)९५. स्वप्नःजाने सा गगनप्रसूनकलिकेलिकेवात्यन्तमेवासतीतत्सम्भोगरसाश्च तत्परिमलोल्लासा इवासत्तमाः ।स्वप्नेन द्विषतेन्द्रजालमिव मे सन्दर्शिता केवलंचेतस्तत्परिरम्भणाय तदपि स्फीतस्पृहं ताम्यति ॥९४६॥कस्यचित। (सु.र. ७६३)स्वप्नैर्प्रापितायाः प्रतिरजनि तव श्रीषु मग्नः कटाक्षःश्रोत्रे गीतामृताब्धौ त्वगपि ननु तनूमञ्जरीसौकुमार्ये ।नासा श्वासाधिवासेऽधरमधुनि रसज्ञा चरितेषु चित्तंतन्नस्तन्वङ्गि कैश्चिन्न करणहरिणैर्वागुरालङ्घितासि ॥९४७॥कविपण्डितश्रीहर्षस्य (ण्च्८.१०७)स्वप्न प्रसीद भगवन्पुनरेकवारंसन्दर्शय प्रियतमां क्षणमात्रमेव ।दृष्ट्वा सती निविडबाहुनबन्धलग्नंतत्रैव मां नयति सा यदि वा न याति ॥९४८॥कालिदासस्य । (सु.र. ८०६)क्व पेयं ज्योत्स्नाम्भो वदत विसवल्लीसरणिभिर्मृणालीतन्दूभ्यः सिचयरचना कुत्र भवतु ।क्व वा पारीमेयो बत बकुलदाम्नां परिमलः कथं स्वप्नः साक्षात्कुवलयदृशं कल्पयतु ताम् ॥९४९॥राजशेखरस्य । (स.क.आ. २.६०, सु.र. ५२८)तत्तादृक्कुचकुम्भभङ्गुरमुरस्तच्च त्रपामन्थरंचक्षुः प्रेमगुरुर्मनोभवसमुद्भेदः स वामभ्रुवः ।रे स्वप्नः प्रलभापनीतदयितादोर्वल्लीबन्धस्य किंसर्वं नीतवतोऽहमेव भवतो दैवादभूवं गुरुः ॥९५०॥आचार्यगोपीकस्य ।९६. नायकाभिलाषःशिखरिणि क्व नु नाम कियच्चिरंकिमभिधानमसावकरोत्तपः ।तरुणि येन तवाधरपाटलंदशति बिम्बफलं शुकशावकः ॥९५१॥धर्मकीर्तेः । (स्व२०३०, सा.द. उन्देर्४.९, सु.र. ४३९)आर्यानङ्ग महाव्रतं विदधता विन्ध्यानिलैः पारणांकृत्वा साङ्गमकारि केन मुरलाकूले कठोरं तपः ।येनास्या रतिखेदमेदुरमृदुश्वासाधिवासस्पृशःपीयन्तेऽधरसीधवो विहसितज्योत्स्नोपदंशं रहः ॥९५२॥योगोकस्य ।ध्यायन्किं दनुजद्विषं क्व नु महातीर्थे क्व पुण्ये क्षणेकैर्वा निर्मलकर्मभिः करिपतिः प्राणव्ययं लम्भितः ।द्यूते यद्दशनांशुपाशकयुगं हाराभिरामोल्लसन्नीरन्ध्रस्तनमण्डलद्वयमिदं मृदङ्गि मृद्गाति ते ॥९५३॥आचार्यगोपीकस्य ।अधीराक्ष्याः पीनस्तनकलसमास्कन्दसि मुहुःक्रमादूरुद्वन्द्वं कलयसि च लावण्यललितम् ।भुजाश्लिष्टो हर्षादनुभवसि हस्ताहृतिकलाम्अये वीणादण्ड प्रकटय फलं कस्य तपसः ॥९५४॥वाचस्पतेः । (सु.र. ४२२)न नीलाब्जं चक्षुः सरसिरुहमेतन्न वदनंन बन्धूकस्येदं मुकुलमधरस्तद्द्युतिधरः ।ममाप्येषा भ्रान्तिः प्रथममभवद्भृङ्ग किमु तेकृतं यत्नैरेभ्यो विरम विरमेत्यञ्जलिरयम् ॥९५५॥राजशेखरस्य । (सु.र. ४०९)९७. नायिकाभिलाषःतिर्यग्वर्तितगात्रयष्टिविषमोद्वृत्तस्तनास्फालनत्रुट्यन्मौक्तिकमालया सपुलकस्वेदोल्लसद्गण्डया ।दूरादेव विलोकयेत्यभिमते तद्वक्त्रदत्तेक्षणंदुर्वारस्मरया तया सहचरी गाढं समालिङ्गिता ॥९५६॥रुद्रटस्य । (शृ.ति. १.५६अ)अभिमुखगते यस्मिन्नेव प्रिये बहुशो वदत्य्अवनतमुखं तूष्णीमेव स्थितं मृगनेत्रया ।अथ किल वलल्लीलालोकं स एष तथेक्षितःकथमपि यथा दृष्टा मन्ये कृतं श्रुतिलङ्घनम् ॥९५७॥तस्यैव । (शृ.ति. १.५६अ)व्याजृम्भणोन्नमितदन्तमयूखजालव्यालम्बिमौक्तिकगुणं रमणे मुदेव ।ऊर्ध्वं मिलद्भुजलतावलयप्रपञ्चसत्तोरणं हृदि विशत्यपरा व्युदासे ॥९५८॥तस्यैव । (शृ.ति. १.५७ब्)प्रविशति यथा गेहेऽकस्माद्बहिश्च विचेष्टतेवदति च यथा सख्या सार्धं सहासमिहोत्सुका !दयितवदनालोके मन्दं यथा च चलत्यसौमृगदृशि तथैतस्यां मन्ये स्मरेण कृतं पदम् ॥९५९॥तस्यैव । (शृ.ति. २.७अ)न जाने संमुखायाते प्रियाणि वदति प्रिये ।सर्वाण्यङ्गानि मे यान्ति श्रोत्रतां किमु नेत्रताम् ॥९६०॥ अमरोः (अमरु ६३, पद्या.. २३४, स्व. २०३८, शा.प.. ३५२२) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP