संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथपञ्चमषष्ठदिनपूजनम्

धर्मसिंधु - अथपञ्चमषष्ठदिनपूजनम्

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथपञ्चमषष्ठदिनयोर्जन्मदानांपूजनम् । रात्रेःप्रथमयामेपित्रादिःस्नात्वाचम्यदेशकालौसंकीर्त्य

अस्यशिशौःसमातृकस्यायुरारोग्यप्राप्तिसकलानिष्टशान्तिद्वाराश्रीपरमेश्वरप्रीत्यर्थ विघ्नेशस्य

जन्मदानां जीवन्त्यपरनाम्न्याः षष्ठीदेव्याः शस्त्रगर्भाभगवत्याश्च

पूजनंकरिष्येइतिसंकल्प्यतण्डुलपुञ्जेषुविघ्नेशंजन्मदाश्चनाममन्त्रेणावाह्य आयाहिवरदेदेविमहाषष्ठीतिविश्रुते ।

शक्तिभिःसहबाल्म्मेरक्षजागरवासरे १ इतिषष्ठीदेवीमावाह्य नाम्नाभगवतीमावाह्य नामभिःशक्तिस्त्वंसर्वदेवानांलोकानां हितकारिणी ।

मातर्बालमिमंरक्षमहाषष्ठिनमोस्तुते १ इति मन्त्रेणच षोडशोपचारैःसंपूज्यप्रार्थयेत लम्बोदरमहाभागसर्वोपद्रवनाशन

त्वत्प्रसादादविघ्नेशचिरंजीवतुबालकः १ जननीसर्वभुतानांबालानांच विशेषतः ।

नारायणीस्वरुपेण बालंमेरक्षसर्वदा २ प्रेतभूतपिशाचेभ्योशाकिनीडाकिनीषुच

मातेवरक्षलबालंमेश्वापदे पन्नगेषुच ३ गौरीपुत्रोयथास्कन्दः शिशुत्वेरक्षितःपुरा ।

तथाममाप्ययंबालःषष्ठिकेरक्ष्यतां नमः ४

इति विप्रेभ्यस्तांबूलदक्षिनादिदद्यात् रात्रौजागरणंकुर्यात् पञ्चमषष्ठदिनयोर्दानप्रतिग्रहयोर्नदोषः

दशमदिनेबलिदानंस्वीयेभ्योन्नदानंचकार्यम् ॥

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP