संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
पञ्चगव्यविधिः

धर्मसिंधु - पञ्चगव्यविधिः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


पञ्चगव्यविधिस्तुताम्रे पालाशेवापात्रेताम्रायागोर्मूत्रमष्टमाषप्रमाणंगायत्र्यादाय

गन्धद्वारामितिश्वेतगोशकृत्षोडशमाषमादाय आप्यायस्वेतिपीतगोक्षीरंद्वादशमाषंदधिक्राव्ण

इतिनीलगोदधिदशमाषंतेजोसिशुक्रमसीतिकृष्णगोघृतमष्टमाषमादायतत्रदेवस्यत्वेतिकुशोदकं

चतुर्माषंप्रक्षिप्यप्रणवेनालोडयेत् अत्रमाषःपञ्चगुञ्जात्मकः तत्सप्तपत्रैःसाग्रैःकुशैर्जुहुयात्

इरावतीतिपृथ्वी इदंविष्णुरितिविष्णुं मानस्तोकेतिरुद्रं शन्नोदेवीत्यपःब्रह्मजज्ञानमितिब्रह्माणंवाअग्निसोमंचनाम्ना

गायत्र्यासुर्यं प्रजापतेनत्वेतिसमस्तव्याह्रतिभिर्वाप्रजापतिं प्रणवेनप्रजापतिं अग्निंस्विष्टकृतंचनाम्नेत्येताः

पञ्चगव्येनाग्निंवायुंसूर्यप्रजापतिंचेतिवामहाविष्णुंवाज्येनाष्टाविशंतिसंख्याहुतिभिरित्यन्वाधानम् स्त्रीशूद्राणांहोमोनकार्यः

केचिद्ब्राह्मणद्वाराहोमःकार्य इत्याहुः स्त्रीशूद्राणांपञ्चगव्यपानेविकल्पइतिमहार्णवः

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP