संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
गर्भाधानसंस्कार

धर्मसिंधु - गर्भाधानसंस्कार

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


१ तत्रादौगर्भाधानसंस्कारउच्यते तदुपयोगितयाप्रथमरजोदर्शनेदुष्टमासादिनिर्णीयते

तत्रचैत्रज्येष्ठाषाढभाद्रपदकार्तिकपौषमासा दुष्टाःप्रतिपद्रिक्ताष्टमीषष्टीद्वादशीपञ्चदश्योऽनिष्टफलास्तिथयःतथा

रविभौममन्दवारेषुभरणीकृत्तिकाऽऽर्द्राश्लेषामघापुर्वात्रयविशाखाज्येष्ठानक्षत्रेषु

विष्कम्भगण्डातिगण्डशूलवयाघातवज्रपरिघपूर्वाधव्यतीपातवैधृतियोगेषुविष्टयां

ग्रहणेरात्रिसंध्यापराह्नकालेषुनिद्रायांजीर्णरक्तनीलाचित्रवस्तेषुनग्नत्वेपरगृहपरग्रामेषु

अल्पाधिकनीलादिरक्तत्वेचानिष्टफलम्‍ संमार्जनीकाष्ठतृणाग्निशूर्पान्हस्तेदधानाकुलटास्यात्

वस्त्रेविषमारक्तबिन्दवःपुत्रफलाः समाःकन्याफलाः अथ प्रथमर्तौ अक्षतैरासनंकृत्वातत्रतामुपवेश्य

पतिपुत्रवत्यःस्त्रियोहरिद्राकुङ्कुमगन्धपुष्पस्त्रक्‌ताम्बूलादितस्यैदत्वादीपैर्नीराज्यसदीपालंकृतेगृहेतांवासयेयुः

सुवासिनीभ्योगन्धादिकंलवणमुद्गादिचद्यात्‍ ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP