संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथजातकर्म संस्कारः

धर्मसिंधु - अथजातकर्म संस्कारः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथजातकर्म मूलज्येष्ठाव्यतीपातादावनुत्पन्नस्यजातमात्रस्यपुत्रस्य

पितामुखंकुलदेवतावृद्धप्रणामपूर्वकमवलोक्यनद्यादावुदङ्‍मुखःस्नायात्

तदसंभवेगृहेआनीताभिःशीताभिःस्वर्णयुताभिरद्भिःस्नायात् एतच्चरात्रावपिनद्यादौकार्यम्

अशक्तोरात्रावग्निसन्निधौस्वर्णयुतशीतोदकैः मूलादिषुजननेतुमुखदृष्ट्वैवस्नानम्

देशान्तरगतेजनकेपुत्रजन्मश्रवणोत्तरंस्नानम् सर्वत्रस्नानात्प्रागस्पृश्यत्वम्

एवंकन्योत्पत्तावपिस्नानंतत्प्रागस्पृश्यत्वंचज्ञेयम्

अन्यसपिण्डाशौचमध्येजननेपिपितुस्तात्कालिकीस्नानदानादौजातकर्मणिचशुद्धिः

केचिन्मृताशौचेपुत्रजनने जातकर्माशौचान्तेकार्यमित्याहुः

नालच्छेदनात्पूर्वंसंपूर्णसंध्यावन्दनादिकर्मणिनाशौचम् प्रथमदिनेपञ्चमषष्ठदशमदिनेचदानप्रतिग्रहर्योनदोषः

शृतमन्नंनग्राह्यम् ज्योतिष्टोमादिदीक्षावतास्वयमन्येनवाजातकर्मनकार्यम् जातकर्मतुकारयेत्

अतिक्रान्तंतुस्वयमेवकुर्यात् महारोगार्तो जातकर्मस्वयंनकुर्यात् अच्छिन्ननाभिकर्तव्यंश्राद्धंवैपुत्रजन्मनि ।

पुत्रपदेनकन्यापिगृह्यते तथाचसंस्काराङभिन्नंकन्यापुत्रयोर्जन्मनिमित्तकंनान्दीश्राद्धंविधीयते

एतच्चरात्रावपिकार्यम् तच्चहेम्नैवकार्यंनत्वन्नादिना तथाच

स्नातोलंकृतःपिताअकृतनालच्छेदमपीतस्तन्यमन्यैरस्पृष्टंप्रक्षालितंकुमारंमातुरुत्सङ्गेकारयित्वाचमनादिदेशकालादिकीर्तनान्ते

अस्यकुमारस्यगर्भाम्बुपानजनितदोषनिबर्हणायुर्मेधाभिवृद्धिबीजगर्भसमुद्भवैनोनिबर्हणद्वाराश्रीपरमेश्वरप्रीत्यर्थंजातकर्म करिष्ये

तदादौ स्वस्तिपुण्याहवाचनं मातृकापूजनं च करिष्ये हिरण्येनपुत्रजन्मनिमित्तकंजातकर्माङ्गंचनान्दीश्राद्धंतन्त्रेणकरिष्ये

इतिसंकल्प्यथागृह्यंकुर्यात् ततोदद्यात्सुवर्णंचभूमिंगांतुरगंरथम् । छत्रंछागंचमाल्यंचशयनंचासनंगृहम् १

तिलपूर्णानिपात्राणिसहिरण्यानिचैवहि । भक्षयित्वातुपक्वान्नंद्विजश्चान्द्रायणंचरेत् १ सूतकेतुसकुल्यानांनं दोषोमनुरब्रवीत् ।

अथारिक्तपाणिर्ज्योतिर्विदंसंपूज्यतस्माज्जन्मलग्नगतशुभाशुभग्रहनिर्णयंज्ञात्वाप्रतिकूल

ग्रहानुकूल्यार्थंतत्तद्‌ग्रहप्रीत्यर्थंदानानिकुर्यात् ग्रहमन्त्रजपादिशान्तिसूक्तजपादिकर्मणिविप्रान्‌वानियोजयेत्

ततोनालच्छेदंकारयित्वाहिरण्योदकेनमातृर्दक्षिणस्तनंप्रक्षाल्यमात्राकुमारंपाययेत् तत्रइमांकुमार

इत्यादिमन्त्रंविप्रादिःपठेत् जातकर्माद्यन्नप्राशनान्तसंस्कारेषु आश्वलायनानांहोमः कृताकृतः

होमपक्षेनान्दीश्राद्धान्तेजातकर्मांगहोमंकरिष्येइतिसंकल्प्य लौकिकाग्निंप्रतिष्ठाप्यान्वाधानाद्याज्यभागान्ते

अग्निमिन्द्रंप्रजापतिंविश्वान्देवान्ब्रह्माणमाज्येनजुहुयात् मधुसर्पिः प्राशनादिमूर्धावघ्राणान्तेस्विष्टकृदादिकुर्यादितिक्रमः

अन्येषांयथागृह्यंहोमादिज्ञेयम् कुमार्या अपिजातकर्मादिसंस्काराश्चौलान्ताःसर्वेअमन्त्रकंकार्याः विवाहस्तु समन्त्रकः

अतःकन्यायाजातकर्मादिसंस्कारलोपेतत्तत्कालेविवाहकालेवाप्रायश्चित्तंकृत्वाविवाहः कार्यः

अत्रसर्वत्रजातकर्मनामकर्मादौमुख्यकालातिक्रमेगुर्वाद्यस्तरहितेशुभनक्षत्रादौ जातकर्मादिकंकार्यम् तत्रजातकर्मणिनक्षत्राणि

रोहिणीत्र्युत्तराश्विनीहस्तपुष्यानुराधारेवतीमृगचित्राश्रवणादित्रयस्वातीपुनर्वसवः रिक्तापर्वरहितास्तिथयः

भौमशनिभिन्नवाराः भद्रावैधृत्यादिशून्येसुकेन्द्रलग्नेशुभम् ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP