संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथदर्शशान्तिः

धर्मसिंधु - अथदर्शशान्तिः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथदर्शशान्तिः । अथातोदर्शजातानांमातापित्रोर्दरिद्रता ।

तद्दोषपरिहारार्थंशान्ति वक्ष्यामितेसदा १ अस्य० दर्शजननसूचितारिष्टनिरासार्थं

शान्तिंकरिष्येइतिसंकल्प्यः स्थण्डिलात्पूर्वदेशेकलशं प्रतिष्ठाप्यकलशाग्न्योर्मध्ये

सर्वतोभद्रपीठेब्रह्मादिमण्डलदेवताआव्हाह्मतन्मध्येस्वर्नप्रतिमायांयेचेहेतिमन्त्रेणापितृनावाहयेत्

तद्दक्षिणेरजतप्रतिमायामाप्यायस्वेतिसोममुत्तरस्ताम्रप्रतिमायांसवितापश्चातादिसूर्यं

चावाह्यसंपूज्याग्निप्रतिष्ठाप्यसर्वतोभद्रौशान्यां गृहस्थापनादि अन्वाधानेआदित्यादिग्रहान्

अमुकसंख्याभिःसमिच्चर्वाज्याहुतिभिः पितृन्‌अष्टाविंशतिसंख्याकाभिःसमिच्चरुभ्यां

सोमंसूर्यच प्रत्येकमष्टोत्तरशतसंख्यसमिच्चर्वाहुतिभिः शेषेणस्विष्टकृतमित्यादि अत्रस्विष्टकृतःपूर्व

मातापितृशिशूनां कलशोदकेनाभिषेकस्ततःस्विष्टकृद्बलिदानादीतिविशेशः इतिदर्शशान्तिः ॥

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP