संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथऋग्वेदिनांपुत्रप्रतिग्रहप्रयोगः

धर्मसिंधु - अथऋग्वेदिनांपुत्रप्रतिग्रहप्रयोगः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथऋग्वेदिनांपुत्रप्रतिग्रहप्रयोगः पूर्वेद्युः कृतोपवासःपवित्रप्राणिः

प्राणानायम्येदेशकालौसंकीर्त्यममाप्रजत्वप्रयुक्तपैतृकऋणापाकरणपुन्नामनरकत्राणहारा

श्रीपरमेश्वरप्रीत्यर्थशौनकोक्तविधिनापुत्रप्रतीग्रहंकरिष्ये

तदङ्गत्वेनस्वस्तिवाचनमाचार्यवरणंविष्णुपूजनमन्नदानंचकरिष्ये आचार्यमधुपर्कान्तेविष्णुंसंपूज्यब्राह्मणादिभोजनसंकल्पयेत्

आचार्यःयजमनानुज्ञयापुत्रप्रतिग्रहाङ्गत्वेनविहितंहोमंकरिष्ये इतिसंकल्प्य अग्निंप्रतिष्ठाप्य चक्षुषी

आज्येनेत्यन्तेसकृदग्निंसूर्यासावित्रीषड्‌वारंचरुणाअग्निंवायुंसूर्यप्रजापतिंचाज्येनशेषेण

स्विष्टकृतमित्यादिअन्वाधायअष्टाविंशतिमुष्टीस्तूण्णींनिरुप्यतथैवप्रोक्ष्याज्योत्पवनान्तंकुर्यात् दातारंगत्वाएतस्मैपुत्रं

देहीतियाचयेत दातादेशकालौसंकीर्त्य श्रीपरमेश्वरप्रीत्यर्थंपुत्रदानंकरिष्येइतिसंकल्प्यगणपतिपूजनान्तेप्रतिग्रहीतारं

यथाशक्तिसंपूज्य येयज्ञेनेतिपञ्चानांनाभानेदिष्ठोमानवोविश्वेदेवास्त्रिष्टुप पञ्चम्यनुष्तुप पुत्रदानेविनियोगः

येयज्ञेनेतिऋक्पञ्चक्रान्तेइमंपुत्रंतवपैतृकऋणापाकरणपुन्नामनरकत्राणसिद्ध्यर्थंआत्मनःश्रीपरमेश्वरप्रीत्यर्थंतुभ्यमहं

संप्रददेनमम् प्रतिगृह्णातुपुत्रंभवान्‍ इतिप्रतीग्रहीतृहस्तेजलंक्षिपेत् ग्रहीता

देवस्यत्वेतिहस्तद्वयेनप्रतिगृह्यस्वाङ्केउपवेश्यअङ्गादङ्गात्संभवसीतिमन्त्रेणमुर्धनिनिघ्रेत्

वस्त्रकुण्डलाद्यलंकृतंगीतवाद्यैः स्वस्तिमन्त्रैश्चस्वगृहमानीयपादौप्रक्षाल्याचम्याचार्यदक्षिणतःस्वयंस्वदक्षिणेभार्योत्संगेपुत्रइत्युषविशेत्

आचार्योबर्हिरासादनाद्याज्यभागान्तेचरुमवदाय यस्त्वाह्रदेतिद्वयोरात्रेयोवसुश्रुतोग्निष्टुप

पुत्रप्रतिग्रहांगहोमेविनियोगःयस्त्वाह्रदेतिऋकद्वयेनैकमेवावदानंजुहुयात् यजमानोग्नयइदंनमम

तुभ्यमग्रेपर्यवहन्सूर्यासावित्रीसूर्यासावित्र्यनुष्टुप् । सूर्यासावित्र्याइदं० सोमोदितिपञ्चानांसूर्यासावित्रीसूर्यासावित्री

अनुष्टुभौजगतीत्रिष्टुबनुष्टुप । पंचस्वपिसूर्यासावित्र्याइदं०

एवंसप्तचर्वाहुतीर्हुत्वाज्यंव्यस्तसमस्तव्याह्रतिभिर्हुत्वास्विष्टकृदादिसमाप्याचार्याय धेनुंदत्त्वाविप्रान्भोजयेत् ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP