संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
एवंस्वस्तिवाचनं

धर्मसिंधु - एवंस्वस्तिवाचनं

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


एवंस्वस्तिवाचनं क्रतुदक्षसंज्ञकविश्वेदेवयुतंचनान्दीश्राद्धंगर्भाधानाङ्गंकृत्वायथाशाखंगर्भाधानसंस्कारःकार्यः

आश्वलायनैः गृह्याग्नौप्राजापत्यंचरुंहुत्वाविष्णुंषङ्वारंसकृत्प्रजापतिंचाज्येनहुत्वा जपोपस्थाननस्तःकरणादिकंकार्यम्

विष्णुर्योनिजपेत्सूक्तंयोनिंस्पृष्ट्वात्रिभिर्व्रती । गर्भधानंततःकुर्यात्सुपुत्रोजायतेध्रुवम् १ एवंनेजमेषेत्यादिजपोपि

सर्वथा होमासंभवेअश्वगन्धारसंउदीर्ष्वातइतिमन्त्रेणदक्षिणनासायामासिच्योपगमनं कार्यम्

एवंगर्भाधानसंस्कारमकृत्वास्त्रीगमनेगर्भोत्पत्तौ तत्प्रायश्चित्तंगोदानंकृत्वापुंसवनंकार्यम् अथमैथुनान्ते

ऋतौतुगर्भशङ्‌कित्वात्स्नानंमैथुनिनः स्मृतम् । अनृतौतुयदागच्छेच्छौचंमूत्रपुरीषवत् १ इत्युक्तरीत्याशौचंकृत्वाचामेत्

आचमनंविनामूत्रपुरीषोत्सर्गेतु तैलाभ्यक्तस्त्वनाचान्तःश्मश्रुकर्मणिमैथुने । मूत्रोच्चारंयदाकुर्यादहोरात्रेणशुध्यति १

इत्येकाहोपवासः स्त्रीणांतुनस्नानम् शयनादुत्थितानारीशुचिःस्यादशुचिःपुमान् । इत्युक्तेः इतिगर्भाधानाद्युपयोगिनिर्णयः ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP