संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
तेजोबिन्दूपनिषत्

तेजोबिन्दूपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.

Upanishad are highly philosophical and metaphysical part of Vedas.


॥ तेजोबिन्दूपनिषत् ॥ कृष्ण यजुर्वेद,संन्यास उपनिषद्

यत्र चिन्मात्रकलना यात्यपह्नवमञ्जसा । तच्चिन्मात्रमखण्डैकरसं ब्रह्म भवाम्यहम् ॥

ॐ सह नाववतु ॥सह नौ भुनक्तु ॥सह वीर्यं करवावहै ॥तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ तेजोबिन्दुः परं ध्यानं विश्वात्महृदिसंस्थितम् । आणवं शाम्भवं शान्तं स्थूलं सूक्ष्मं परं च यत् ॥१॥

दुःखाढ्यं च दुराराध्यं दुष्प्रेक्ष्यं मुक्तमव्ययम् । दुर्लभं तत्स्वयं ध्यानं मुनीनां च मनीषिणाम् ॥२॥

यताहारो जितक्रोधो जितसङ्गो जितेन्द्रियः । निर्द्वन्द्वो निरहङ्कारो निराशीरपरिग्रहः ॥३॥

अगम्यागमकर्ता यो गम्याऽगमयमानसः । मुखे त्रीणि च विन्दन्ति त्रिधामा हंस उच्यते ॥४॥

परं गुह्यतमं विद्धि ह्यस्ततन्द्रो निराश्रयः । सोमरूपकला सूक्ष्मा विष्णोस्तत्परमं पदम् ॥५॥

त्रिवक्त्रं त्रिगुणं स्थानं त्रिधातुं रूपवर्जितम् । निश्चलं निर्विकल्पं च निराकारं निराश्रयम् ॥६॥

उपाधिरहितं स्थानं वाङ्मनोऽतीतगोचरम् । स्वभावं भावसंग्राह्यमसङ्घातं पदाच्च्युतम् ॥७॥

अनानानन्दनातीतं दुष्प्रेक्ष्यं मुक्तिमव्ययम् । चिन्त्यमेवं विनिर्मुक्तं शाश्वतं ध्रुवमच्युतम् ॥८॥

तद्ब्रह्मणस्तदध्यात्मं तद्विष्णोस्तत्परायणम् । अचिन्त्यं चिन्मयात्मानं यद्व्योम परमं स्थितम् ॥९॥

अशून्यं शून्यभावं तु शून्यातीतं हृदि स्थितम् । न ध्यानं च न च ध्याता न ध्येयो ध्येय एव च ॥१०॥

सर्वं च न परं शून्यं न परं नापरात्परम् । अचिन्त्यमप्रबुद्धं च न सत्यं न परं विदुः ॥११॥

मुनीनां संप्रयुक्तं च न देवा न परं विदुः । लोभं मोहं भयं दर्पं कामं क्रोधं च किल्बिषम् ॥१२॥

शीतोष्णे क्षुत्पिपासे च सङ्कल्पकविकल्पकम् । न ब्रह्मकुलदर्पं च न मुक्तिग्रन्थिसञ्चयम् ॥१३॥

न भयं न सुखं दुःखं तथा मानावमानयोः । एतद्भावविनिर्मुक्तं तद्ग्राह्यं ब्रह्म तत्परम् ॥१४॥

यमो हि नियमस्त्यागो मौनं देशश्च कालतः । आसनं मूलबन्धश्च देहसाम्यं च दृक्स्थितिः ॥१५॥

प्राणसंयमनं चैव प्रत्याहारश्च धारणा । आत्मध्यानं समाधिश्च प्रोक्तान्यङ्गानि वै क्रमात् ॥१६॥

सर्वं ब्रह्मेति वै ज्ञानादिन्द्रियग्रामसंयमः । यमोऽऽयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ॥१७॥

सजातीयप्रवाहश्च विजातीयतिरस्कृतिः । नियमो हि परानन्दो नियमात्क्रियते बुधैः ॥१८॥

त्यागो हि महता पूज्यः सद्यो मोक्षप्रदायकः ॥१९॥

यस्माद्वाचो निवर्तन्ते अप्राप्य मनसा सह । यन्मौनं योगिभिर्गम्यं तद्भजेत्सर्वदा बुधः ॥२०॥

वाचो यस्मान्निवर्तन्ते तद्वक्तुं केन शक्यते । प्रपञ्चो यदि वक्तव्यः सोऽपि शब्दविवर्जितः ॥२१॥

इति वा तद्भवेन्मौनं सर्वं सहजसंज्ञितम् । गिरां मौनं तु बालानामयुक्तं ब्रह्मवादिनाम् ॥२२॥

आदावन्ते च मध्ये च जनो यस्मिन्न विद्यते । येनेदं सततं व्याप्तं स देशो विजनः स्मृतः ॥२३॥

कल्पना सर्वभूतानां ब्रह्मादीनां निमेषतः । कालशब्देन निर्दिष्टं ह्यखण्डानन्दमद्वयम् ॥२४॥

सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम् । आसनं तद्विजानीयादन्यत्सुखविनाशनम् ॥२५॥

सिद्धये सर्वभूतादि विश्वाधिष्ठानमद्वयम् । यस्मिन्सिद्धिं गताः सिद्धास्तत्सिद्धासनमुच्यते ॥२६॥

यन्मूलं सर्वलोकानां यन्मूलं चित्तबन्धनम् । मूलबन्धः सदा सेव्यो योग्योऽसौ ब्रह्मवादिनाम् ॥२७॥

अङ्गानां समतां विद्यात्समे ब्रह्मणि लीयते । नो चेन्नैव समानत्वमृजुत्वं शुष्कवृक्षवत् ॥२८॥

दृष्टीं ज्ञानमयीं कृत्वा पश्येद्ब्रह्ममयं जगत् । सा दृष्टिः परमोदारा न नासाग्रावलोकिनी ॥२९॥

द्रष्टृदर्शनदृश्यानां विरामो यत्र वा भवेत् । दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलोकिनी ॥३०॥

चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् । निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते ॥३१॥

निषेधनं प्रपञ्चस्य रेचकाख्यः समीरितः । ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरुच्यते ॥३२॥

ततस्तद्वृत्तिनैश्चल्यं कुम्भकः प्राणसंयमः । अयं चापि प्रबुद्धानामज्ञानां घ्राणपीडनम् ॥३३॥

विषयेष्वात्मतां दृष्ट्वा मनसश्चित्तरञ्जकम् । प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुहुर्मुहुः ॥३४॥

यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् । मनसा धारणं चैव धारणा सा परा मता ॥३५॥

ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः । ध्यानशब्देन विख्यातः परमानन्ददायकः ॥३६॥

निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः । वृत्तिविस्मरणं सम्यक्समाधिरभिधीयते ॥३७॥

इमं चाकृत्रिमानन्दं तावत्साधु समभ्यसेत् । लक्ष्यो यावत्क्षणात्पुंसः प्रत्यक्त्वं सम्भवेत्स्वयम् ॥३८॥

ततः साधननिर्मुक्तः सिद्धो भवति योगिराट् । तत्स्वं रूपं भवेत्तस्य विषयो मनसो गिराम् ॥३९॥

समाधौ क्रियमाणे तु विघ्नान्याअयान्ति वै बलात् । अनुसन्धानराहित्यमालस्यं भोगलालसम् ॥४०॥

लयस्तमश्च विक्षेपस्तेजः स्वेदश्च शून्यता । एवं हि विघ्नबाहुल्यं त्याज्यं ब्रह्मविशारदैः ॥४१॥

भाववृत्त्या हि भावत्वं शून्यवृत्त्या हि शून्यता । ब्रह्मवृत्त्या हि पूर्णत्वं तया पूर्णत्वमभ्यसेत् ॥४२॥

ये हि वृत्तिं विहायैनां ब्रह्माख्यां पावनीं पराम् । वृथैव ते तु जीवन्ति पशुभिश्च समा नराः ॥४३॥

ये तु वृत्तिं विजानन्ति ज्ञात्वा वै वर्धयन्ति ये । ते वै सत्पुरुषा धन्या वन्द्यास्ते भुवनत्रये ॥४४॥

येषां वृत्तिः समा वृद्धा परिपक्वा च सा पुनः । ते वै सद्ब्रह्मतां प्राप्ता नेतरे शब्दवादिनः ॥४५॥

कुशला ब्रह्मवार्तायां वृत्तिहीनाः सुरागिणः । तेऽप्यज्ञानतया नूनं पुनरायान्ति यान्ति च ॥४६॥

निमिषार्धं न तिष्ठन्ति वृत्तिं ब्रह्ममयीं विना । यथा तिष्ठन्ति ब्रह्माद्याः सनकाद्याः शुकादयः ॥४७॥

कारणं यस्य वै कार्यं कारणं तस्य जायते । कारणं तत्त्वतो नश्येत्कार्याभावे विचारतः ॥४८॥

अथ शुद्धं भवेद्वस्तु यद्वै वाचामगोचरम् । उदेति शुद्धचित्तानां वृत्तिज्ञानं ततः परम् ॥४९॥

भावितं तीव्रवेगेन यद्वस्तु निश्चयात्मकम् । दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत् ॥५०॥

विद्वान्नित्यं सुखे तिष्ठेद्धिया चिद्रसपूर्णया ॥ इति प्रथमोऽध्यायः ॥१॥

अथ ह कुमारः शिवं पप्रच्छाऽखण्डैकरस- चिन्मात्रस्वरूपमनुब्रूहीति । स होवाच परमः शिवः ।

अखण्डैकरसं दृश्यमखण्डैकरसं जगत् । अखण्डैकरसं भावमखण्डैकरसं स्वयम् ॥१॥

अखण्डैकरसो मन्त्र अखण्डैकरसा क्रिया । अखण्डैकरसं ज्ञानमखण्डैकरसं जलम् ॥२॥

अखण्डैकरसा भूमिरखण्डैकरसं वियत् । अखण्डैकरसं शास्त्रमखण्डैकरसा त्रयी ॥३॥

अखण्डैकरसं ब्रह्म चाखण्डैकरसं व्रतम् । अखण्डैकरसो जीव अखण्डैकरसो ह्यजः ॥४॥

अखण्डैकरसो ब्रह्मा अखण्डैकरसो हरिः । अखण्डैकरसो रुद्र अखण्डैकरसोऽस्म्यहम् ॥५॥

अखण्डैकरसो ह्यात्मा ह्यखण्डैकरसो गुरुः । अखण्डैकरसं लक्ष्यमखण्डैकरसं महः ॥६॥

अखण्डैकरसो देह अखण्डैकरसं मनः । अखण्डैकरसं चित्तमखण्डैकरसं सुखम् ॥७॥

अखण्डैकरसा विद्या अखण्डैकरसोऽव्ययः । अखण्डैकरसं नित्यमखण्डैकरसं परम् ॥८॥

अखण्डैकरसं किञ्चिदखण्डैकरसं परम् । अखण्डैकरसादन्यन्नास्ति नास्ति षडानन ॥९॥

अखण्डैकरसान्नास्ति अखण्डैकरसान्न हि । अखण्डैकरसात्किञ्चिदखण्डैकरसादहम् ॥१०॥

अखण्डैकरसं स्थूलं सूक्ष्मं चाखण्डरूपकम् । अखण्डैकरसं वेद्यमखण्डैकरसो भवान् ॥११॥

अखण्डैकरसं गुह्यमखण्डैकरसादिकम् । अखण्डैकरसो ज्ञाता ह्यखण्डैकरसा स्थितिः ॥१२॥

अखण्डैकरसा माता अखण्डैकररसः पिता । अखण्डैकरसो भ्राता अखण्डैकरसः पतिः ॥१३॥

अखण्डैकरसं सूत्रमखण्डैकरसो विराट् । अखण्डैकरसं गात्रमखण्डैकरसं शिरः ॥१४॥

अखण्डैकरसं चान्तरखण्डैकरसं बहिः । अखण्डैकरसं पूर्णमखण्डैकरसामृतम् ॥१५॥

अखैण्डैकरसं गोत्रमखण्डैकरसं गृहम् । अखण्डैकरसं गोप्यमखण्डैकरसशशशी ॥१६॥

अखण्डैकरसास्तारा अखण्डैकरसो रविः । अखण्डैकरसं क्षेत्रमखण्डैकरसा क्षमा ॥१७॥

अखण्डैकरस शान्त अखण्डैकरसोऽगुणः । अखण्डैकरसः साक्षी अखण्डैकरसः सुहृत् ॥१८॥

अखण्डैकरसो बन्धुरखण्डैकरसः सखा । अखण्डैकरसो राजा अखण्डैकरसं पुरम् ॥१९॥

अखण्डैकरसं राज्यमखण्डैकरसाः प्रजाः । अखण्डैकरसं तारमखण्डैकरसो जपः ॥२०॥

अखण्डैकरसं ध्यानमखण्डैकरसं पदम् । अखण्डैकरसं ग्राह्यमखण्डैकरसं महत् ॥२१॥

अखण्डैकरसं ज्योतिरखण्डैकरसं धनम् । अखण्डैकरसं भोज्यमखण्डैकरसं हविः ॥२२॥

अखण्डैकरसो होम अखण्डैकरसो जपः । अखण्डैकरसं स्वर्गमखण्डैकरसः स्वयम् ॥२३॥

अखण्डैकरसं सर्वं चिन्मात्रमिति भावयेत् । चिन्मात्रमेव चिन्मात्रमखण्डैकरसं परम् ॥२४॥

भववर्जितचिन्मात्रं सर्वं चिन्मात्रमेव हि । इदं च सर्वं चिन्मात्रमयं चिन्मयमेव हि ॥२५॥

आत्मभावं च चिन्मात्रमखण्डैकरसं विदुः । सर्वलोकं च चिन्मात्रं वत्ता मत्ता च चिन्मयम् ॥२६॥

आकाशो भूर्जलं वायुरग्निर्ब्रह्मा हरिः शिवः । यत्किञ्चिद्यन्न किञ्चिच्च सर्वं चिन्मात्रमेव हि ॥२७॥

अखण्डैकरसं सर्वं यद्यच्चिन्मात्रमेव हि । भूतं भव्यं भविष्यच्च सर्वं चिन्मात्रमेव हि ॥२८॥

द्रव्यं कालं च चिन्मात्रं ज्ञानं ज्ञेयं चिदेव हि । ज्ञाता चिन्मात्ररूपश्च सर्वं चिन्मयमेव हि ॥२९॥

संभाषणं च चिन्मात्रं यद्यच्चिन्मात्रमेव हि । असच्च सच्च चिन्मात्रमाद्यन्तं चिन्मयं सदा ॥३०॥

आदिरन्तश्च चिन्मात्रं गुरुशिष्यादि चिन्मयम् । दृग्दृश्यं यदि चिन्मात्रमस्ति चेच्चिन्मयं सदा ॥३१॥

सर्वाश्चर्यं हि चिन्मात्रं देहं चिन्मात्रमेव हि । लिङ्गं च कारणं चैव चिन्मात्रान्न हि विद्यते ॥३२॥

अहं त्वं चैव चिन्मात्रं मूर्तामूर्तादिचिन्मयम् । पुण्यं पापं च चिन्मात्रं जीवश्चिन्मात्रविग्रहः ॥३३॥

चिन्मात्रान्नास्ति सङ्कल्पश्चिन्मात्रान्नास्ति वेदनम् । चिन्मात्रान्नास्ति मन्त्रादि चिन्मात्रान्नास्ति देवता ॥३४॥

चिन्मात्रान्नास्ति दिक्पालाश्चिन्मात्राद्व्यावहारिकम् । चिन्मात्रात्परमं ब्रह्म चिन्मात्रान्नास्ति कोऽपि हि ॥३५॥

चिन्मात्रान्नास्ति माया च चिन्मात्रान्नास्ति पूजनम् । चिन्मात्रान्नास्ति मन्तव्यं चिन्मात्रान्नास्ति सत्यकम् ॥३६॥

चिन्मात्रान्नास्ति कोशादि चिन्मात्रान्नास्ति वै वसु । चिन्मात्रान्नास्ति मौनं च चिन्मात्रान्नस्त्यमौनकम् ॥३७॥

चिन्मात्रान्नास्ति वैराग्यं सर्वं चिन्मात्रमेव हि । यच्च यावच्च चिन्मात्रं यच्च यावच्च दृश्यते ॥३८॥

यच्च यावच्च दूरस्थं सर्वं चिन्मात्रमेव हि । यच्च यावच्च भूतादि यच्च यावच्च लक्ष्यते ॥३९॥

यच्च यावच्च वेदान्ताः सर्वं चिन्मात्रमेव हि । चिन्मात्रान्नास्ति गमनं चिन्मात्रान्नास्ति मोक्षकम् ॥४०॥

चिन्मात्रान्नास्ति लक्ष्यं च सर्वं चिन्मात्रमेव हि । अखण्डैकरसं ब्रह्म चिन्मात्रान्न हि विद्यते ॥४१॥

शास्त्रे मयि त्वयीशे च ह्यखण्डैकरसो भवान् । इत्येकरूपतया यो वा जानात्यहं त्विति ॥४२॥

सकृज्ज्ञानेन मुक्तिः स्यात्सम्यग्ज्ञाने स्वयं गुरुः ॥४३॥

इति द्वितीयोऽध्यायः ॥२॥

कुमारः पितरमात्मानुभवमनुब्रूहीति पप्रच्छ । स होवाच परः शिवः ।

परब्रह्मस्वरूपोऽहं परमानन्दमस्म्यहम् । केवलं ज्ञानरूपोऽहं केवलं परमोऽस्म्यहम् ॥१॥

केवलं शान्तरूपोऽहं केवलं चिन्मयोऽस्म्यहम् । केवलं नित्यरूपोऽहं केवलं शाश्वतोऽस्म्यहम् ॥२॥

केवलं सत्त्वरूपोऽहमहं त्यक्त्वाहमस्म्यहम् । सर्वहीनस्वरूपोऽहं चिदाकाशमयोऽस्म्यहम् ॥३॥

केवलं तुर्यरूपोऽस्मि तुर्यातीतोऽस्मि केवलः । सदा चैतन्यरूपोऽस्मि चिदानन्दमयोऽस्म्यहम् ॥४॥

केवलाकाररूपोऽस्मि शुद्धरूपोऽस्म्यहं सदा । केवलं ज्ञानरूपोऽस्मि केवलं प्रियमस्म्यहम् ॥५॥

निर्विकल्पस्वरूपोऽस्मि निरीहोऽस्मि निरामयः । सदाऽसङ्गस्वरूपोऽस्मि निर्विकारोऽहमव्ययः ॥६॥

सदैकरसरूपोऽस्मि सदा चिन्मात्रविग्रहः । अपरिच्छिन्नरूपोऽस्मि ह्यखण्डानन्दरूपवान् ॥७॥

सत्परानन्दरूपोऽस्मि चित्परानन्दमस्म्यहम् । अन्तरान्तररूपोऽहमवाङ्मनसगोचरः ॥८॥

आत्मानन्दस्वरूपोऽहं सत्यानन्दोऽस्म्यहं सदा । आत्मारामस्वरूपोऽस्मि ह्ययमात्मा सदाशिवः ॥९॥

आत्मप्रकाशरूपोऽस्मि ह्यात्मज्योतिरसोऽस्म्यहम् । आदिमध्यान्तहीनोऽस्मि ह्याकाशसदृशोऽस्म्यहम् ॥१०॥

नित्यशुद्धचिदानन्दसत्तामात्रोऽहमव्ययः । नित्यबुद्धविशुद्धैकसच्चिदानन्दमस्म्यहम् ॥१॥

नित्यशेषस्वरूपोऽस्मि सर्वातीतोऽस्म्यहं सदा । रूपातीतस्वरूपोऽस्मि परमाकाशविग्रहः ॥१२॥

भूमानन्दस्वरूपोऽस्मि भाषाहीनोऽस्म्यहं सदा । सर्वाधिष्ठानरूपोऽस्मि सर्वदा चिद्घनोऽस्म्यहम् ॥१३॥

देहभावविहीनोऽस्मि चिन्ताहीनोऽस्मि सर्वदा । चित्तवृत्तिविहीनोऽहं चिदात्मैकरसोऽस्म्यहम् ॥१४॥

सर्वदृश्यविहीनोऽहं दृग्रूपोऽस्म्यहमेव हि । सर्वदा पूर्णरूपोऽस्मि नित्यतृप्तोऽस्म्यहं सदा ॥१५॥

अहं ब्रह्मैव सर्वं स्यादहं चैतन्यमेव हि । अहमेवाहमेवास्मि भूमाकाशस्वरूपवान् ॥१६॥

अहमेव महानात्मा ह्यहमेव परात्परः । अहमन्यवदाभामि ह्यहमेव शरीरवत् ॥१७॥

अहं शिष्यवदाभामि ह्ययं लोकत्रयाश्रयः । अहं कालत्रयातीत अहं वेदैरुपासितः ॥१८॥

अहं शास्त्रेण निर्णीत अहं चित्ते व्यवस्थितः । मत्त्यक्तं नास्ति किञ्चिद्वा मत्त्यक्तं पृथिवी च वा ॥१९॥

मयातिरिक्तं यद्यद्वा तत्तन्नास्तीति निश्चिनु । अहं ब्रह्मास्मि सिद्धोऽस्मि नित्यशुद्धोऽस्म्यहं सदा ॥२०॥

निर्गुणः केवलात्मास्मि निराकारोऽस्म्यहं सदा । केवलं ब्रह्ममात्रोऽस्मि ह्यजरोऽस्म्यमरोऽस्म्यहम् ॥२१॥

स्वयमेव स्वयं भामि स्वयमेव सदात्मकः । स्वयमेवात्मनि स्वस्थः स्वयमेव परा गतिः ॥२२॥

स्वयमेव स्वयं भञ्जे स्वयमेव स्वयं रमे । स्वयमेव स्वयं ज्योतिः स्वयमेव स्वयं महः ॥२३॥

स्वस्यात्मनि स्वयं रंस्ये स्वात्मन्येव विलोकये । स्वात्मन्येव सुखासीनः स्वात्ममात्रावशेषकः ॥२४॥

स्वचैतन्ये स्वयं स्थास्ये स्वात्मराज्ये सुखे रमे । स्वात्मसिंहासने स्थित्वा स्वात्मनोऽन्यन्न चिन्तये ॥२५॥

चिद्रूपमात्रं ब्रह्मैव सच्चिदानन्दमद्वयम् । आनन्दघन एवाहमहं ब्रह्मास्मि केवलम् ॥२६॥

सर्वदा सर्वशून्योऽहं सर्वात्मानन्दवानहम् । नित्यानन्दस्वरूपोऽहमात्माकाशोऽस्मि नित्यदा ॥२७॥

अहमेव हृदाकाशश्चिदादित्यस्वरूपवान् । आत्मनात्मनि तृप्तोऽस्मि ह्यरूपोऽस्म्यहमव्ययः ॥२८॥

एकसंख्याविहीनोऽस्मि नित्यमुक्तस्वरूपवान् । आकाशादपि सूक्ष्मोऽहमाद्यन्ताभाववानहम् ॥२९॥

सर्वप्रकाशरूपोऽहं परावरसुखोऽस्म्यहम् । सत्तामात्रस्वरूपोऽहं शुद्धमोक्षस्वरूपवान् ॥३०॥

सत्यानन्दस्वरूपोऽहं ज्ञानानन्दघनोऽस्म्यहम् । विज्ञानमात्ररूपोऽहं सच्चिदानन्दलक्षणः ॥३१॥

ब्रह्ममात्रमिदं सर्वं ब्रह्मणोऽन्यन्न किञ्चन । तदेवाहं सदानन्दं ब्रह्मैवाहं सनातनम् ॥३२॥

त्वमित्येतत्तदित्येतन्मत्तोऽन्यन्नास्ति किञ्चन । चिच्चैतन्यस्वरूपोऽहमहमेव शिवः परः ॥३३॥

अतिभावस्वरूपोऽहमहमेव सुखात्मकः । साक्षिवस्तुविहीनत्वात्साक्षित्वं नास्ति मे सदा ॥३४॥

केवलं ब्रह्ममात्रत्वादहमात्मा सनातनः । अहमेवादिशेषोऽहमहं शेषोऽहमेव हि ॥३५॥

नामरूपविमुक्तोऽहमहमानन्दविग्रहः । इन्द्रियाभावरूपोऽहं सर्वभावस्वरूपकः ॥३६॥

बन्धमुक्तिविहीनोऽहं शाश्वतानन्दविग्रहः । आदिचैतन्यमात्रोऽहमखण्डैकरसोऽस्म्यहम् ॥३७॥

वाङ्मनोऽगोचरश्चाहं सर्वत्र सुखवानहम् । सर्वत्र पूर्णरूपोऽहं भूमानन्दमयोऽस्म्यहम् ॥३८॥

सर्वत्र तृप्तिरूपोऽहं परामृतरसोऽस्म्यहम् । एकमेवाद्वितीयं सद्ब्रह्मैवाहं न संशयः ॥३९॥

सर्वशून्यस्वरूपोऽहं सकलागमगोचरः । मुक्तोऽहं मोक्षरूपोऽहं निर्वाणसुखरूपवान् ॥४०॥

सत्यविज्ञानमात्रोऽहं सन्मात्रानन्दवानहम् । तुरीयातीतरूपोऽहं निर्विकल्पस्वरूपवान् ॥४१॥

सर्वदा ह्यजरूपोऽहं नीरागोऽस्मि निरञ्जनः । अहं शुद्धोऽस्मि बुद्धोऽस्मि नित्योऽस्मि प्रभुरस्म्यहम् ॥४२॥

ओङ्कारार्थस्वरूपोऽस्मि निष्कलङ्कमयोऽस्म्यहम् । चिदाकारस्वरूपोऽस्मि नाहमस्मि न सोऽस्म्यहम् ॥४३॥

न हि किञ्चित्स्वरूपोऽस्मि निर्व्यापारस्वरूपवान् । निरंशोऽस्मि निराभासो न मनो नेन्द्रियोऽस्म्यहम् ॥४४॥

न बुद्धिर्न विकल्पोऽहं न देहादित्रयोऽस्म्यहम् । न जाग्रत्स्वप्नरूपोऽहं न सुषुप्तिस्वरूपवान् ॥४५॥

न तापत्रयरूपोऽहं नेषणात्रयवानहम् । श्रवणं नास्ति मे सिद्धेर्मननं च चिदात्मनि ॥४६॥

सजातीयं न मे किञ्चिद्विजातीयं न मे क्वचित् । स्वगतं च न मे किञ्चिन्न मे भेदत्रयं क्वचित् ॥४७॥

असत्यं हि मनोरूपमसत्यं बुद्धिरूपकम् । अहङ्कारमसिद्धीति नित्योऽहं शाश्वतो ह्यजः ॥४८॥

देहत्रयमसद्विद्धि कालत्रयमसत्सदा । गुणत्रयमसत्विद्धि ह्ययं सत्यात्मकः शुचिः ॥४९॥

श्रुतं सर्वमसत्द्विद्धि वेदं सर्वमसत्सदा । शास्त्रं सर्वमसत्द्विद्धि ह्यहं सत्यचिदात्मकः ॥५०॥

मूर्तित्रयमसद्विद्धि सर्वभूतमसत्सदा । सर्वतत्त्वमसद्विद्धि ह्ययं भूमा सदाशिवः ॥५१॥

गुरुशिष्यमसद्विद्धि गुरोर्मन्त्रमसत्ततः । यद्दृश्यं तदसद्विद्धि न मां विद्धि तथाविधम् ॥५२॥

यच्चिन्त्यं तदसद्विद्धि यन्न्यायं तदसत्सदा । यद्धितं तदसद्विद्धि न मां विद्धि तथाविधम् ॥५३॥

सर्वान्प्राणानसद्विद्धि सर्वान्भोगानसत्त्विति । दृष्टं श्रुतमसद्विद्धि ओतं प्रोतमसन्मयम् ॥५४॥

कार्याकार्यमसद्विद्धि नष्टं प्राप्तमसन्मयम् । दुःखादुःखमसद्विद्धि सर्वासर्वमन्मयम् ॥५५॥

पूर्णापूर्णमसद्विद्धि धर्माधर्ममसन्मयम् । लाभालाभावसद्विद्धि जयाजयमसन्मयम् ॥५६॥

शब्दं सर्वमसद्विद्धि स्पर्शं सर्वमसत्सदा । रूपं सर्वमसद्विद्धि रसं सर्वमसन्मयम् ॥५७॥

गन्धं सर्वमसद्विद्धि सर्वाज्ञानमसन्मयम् । असदेव सदा सर्वमसदेव भवोद्भवम् ॥५८॥

असदेव गुणं सर्वं सन्मात्रमहमेव हि । स्वात्ममन्त्रं सदा पश्येत्स्वात्ममन्त्रं सदाभ्यसेत् ॥५९॥

अहं ब्रह्मास्मि मन्त्रोऽयं दृश्यपापं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयमन्यमन्त्रं विनाशयेत् ॥६०॥

अहं ब्रह्मास्मि मन्त्रोऽयं देहदोषं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं जन्मपापं विनाशयेत् ॥६१॥

अहं ब्रह्मास्मि मन्त्रोऽयं मृत्युपाशं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं द्वैतदुःखं विनाशयेत् ॥६२॥

अहं ब्रह्मास्मि मन्त्रोऽयं भेदबुद्धिं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं चिन्तादुःखं विनाशयेत् ॥६३॥

अहं ब्रह्मास्मि मन्त्रोऽयं बुद्धिव्याधिं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं चित्तबन्धं विनाशयेत् ॥६४॥

अहं ब्रह्मास्मि मन्त्रोऽयं सर्वव्याधीन्विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं सर्वशोकं विनाशयेत् ॥६५॥

अहं ब्रह्मास्मि मन्त्रोऽयं कामादीन्नाशयेत्क्षणात् । अहं ब्रह्मास्मि मन्त्रोऽयं क्रोधशक्तिं विनाशयेत् ॥६६॥

अहं ब्रह्मास्मि मन्त्रोऽयं चित्तवृत्तिं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं सङ्कल्पादीन्विनाशयेत् ॥६७॥

अहं ब्रह्मास्मि मन्त्रोऽयं कोटिदोषं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयं सर्वतन्त्रं विनाशयेत् ॥६८॥

अहं ब्रह्मास्मि मन्त्रोऽयमात्माज्ञानं विनाशयेत् । अहं ब्रह्मास्मि मन्त्रोऽयमात्मलोकजयप्रदः ॥६९॥

अहं ब्रह्मास्मि मन्त्रोऽयमप्रतर्क्यसुखप्रदः । अहं ब्रह्मास्मि मन्त्रोऽयमजडत्वं प्रयच्छति ॥७०॥

अहं ब्रह्मास्मि मन्त्रोऽयमनात्मासुरमर्दनः । अहं ब्रह्मास्मि वज्रोऽयमनात्माख्यगिरीन्हरेत् ॥७१॥

अहं ब्रह्मास्मि मन्त्रोऽयमनात्माख्यासुरान्हरेत् । अहं ब्रह्मास्मि मन्त्रोऽयं सर्वांस्तान्मोक्षयिष्यति ॥७२॥

अहं ब्रह्मास्मि मन्त्रोऽयं ज्ञानानन्दं प्रयच्छति । सप्तकोटिमहामन्त्रं जन्मकोटिशतप्रदम् ॥७३॥

सर्वमन्त्रान्समुत्सृज्य एतं मन्त्रं समभ्यसेत् । सद्यो मोक्षमवाप्नोति नात्र सन्देहमण्वपि ॥७४॥

इति तृतीयोध्यायः ॥३॥

कुमारः परमेश्वरं पप्रच्छ जीवन्मुक्तविदेहमुक्तयोः स्थितिमनुब्रूहीति । स होवाच परः शिवः ।

चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः । आत्ममात्रेण यस्तिष्ठेत्स जीवन्मुक्त उच्यते ॥१॥

देहत्रयातिरिक्तोऽहं शुद्धचैतन्यमस्म्यहम् । ब्रह्माहमिति यस्यान्तः स जीवनमुक्त उच्यते ॥२॥

आनन्दघनरूपोऽस्मि परानन्दघनोऽस्म्यहम् । यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः ।

परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते ॥३॥यस्य किञ्चिदहं नास्ति चिन्मात्रेणावतिष्ठते ।

चैतन्यमात्रो यस्यान्तश्चिन्मात्रैकस्वरूपवान् ॥४॥

सर्वत्र पूर्णरूपात्मा सर्वत्रात्मावशेषकः । आनन्दरतिरव्यक्तः परिपूर्णश्चिदात्मकः ॥५॥

शुद्धचैतन्यरूपात्मा सर्वसङ्गविवर्जितः । नित्यानन्दः प्रसन्नात्मा ह्यन्यचिन्ताविवर्जितः ॥६॥

किञ्चिदस्तित्वहीनो यः स जीवन्मुक्त उच्यते । न मे चित्तं न मे बुद्धिर्नाहङ्कारो न चेन्द्रियम् ॥७॥

न मे देहः कदाचिद्वा न मे प्राणादयः क्वचित् । न मे माया न मे कामो न मे क्रोधः परोऽस्म्यहम् ॥८॥

न मे किञ्चिदिदं वापि न मे किञ्चित्क्वचिज्जगत् । न मे दोषो न मे लिङ्गं न मे चक्षुर्न मे मनः ॥९॥

न मे श्रोत्रं न मे नासा न मे जिह्वा न मे करः । न मे जाग्रन्न मे स्वप्नं न मे कारणमण्वपि ॥१०॥

न मे तुरीयमिति यः स जीवन्मुक्त उच्यते । इदं सर्वं न मे किञ्चिदयं सर्वं न मे क्वचित् ॥११॥

न मे कालो न मे देशो न मे वस्तु न मे मतिः । न मे स्नानं न मे सन्ध्या न मे दैवं न मे स्थलम् ॥१२॥

न मे तीर्थं न मे सेवा न मे ज्ञानं न मे पदम् । न मे बन्धो न मे जन्म न मे वाक्यं न मे रविः ॥१३॥

न मे पुण्यं न मे पापं न मे कार्यं न मे शुभम् । ने मे जीव इति स्वात्मा न मे किञ्चिज्जगत्रयम् ॥१४॥

न मे मोक्षो न मे द्वैतं न मे वेदो न मे विधिः । न मेऽन्तिकं न मे दूरं न मे बोधो न मे रहः ॥१५॥

न मे गुरुर्न मे शिष्यो न मे हीनो न चाधिकः । न मे ब्रह्म न मे विष्णुर्न मे रुद्रो न चन्द्रमाः ॥१६॥

न मे पृथ्वी न मे तोयं न मे वायुर्न मे वियत् । न मे वह्निर्न मे गोत्रं न मे लक्ष्यं न मे भवः ॥१७॥

न मे ध्याता न मे ध्येयं न मे ध्यानं न मे मनुः । न मे शीतं न मे चोष्णं न मे तृष्णा न मे क्षुधा ॥१८॥

न मे मित्रं न मे शत्रुर्न मे मोहो न मे जयः । न मे पूर्वं न मे पश्चान्न मे चोर्ध्वं न मे दिशः ॥१९॥

न मे वक्तव्यमल्पं वा न मे श्रोतव्यमण्वपि । न मे गन्तव्यमीषद्वा न मे ध्यातव्यमण्वपि ॥२०॥

न मे भोक्तव्यमीषद्वा न मे स्मर्तव्यमण्वपि । न मे भोगो न मे रागो न मे यागो न मे लयः ॥२१॥

न मे मौर्ख्यं न मे शान्तं न मे बन्धो न मे प्रियम् । न मे मोदः प्रमोदो वा न मे स्थूलं न मे कृशम् ॥२२॥

न मे दीर्घं न मे ह्रस्वं न मे वृद्धिर्न मे क्षयः । अध्यारोपोऽपवादो वा न मे चैकं न मे बहु ॥२३॥

न मे आन्ध्यं न मे मान्द्यं न मे पट्विदमण्वपि । न मे मांसं न मे रक्तं न मे मेदो न मे ह्यसृक् ॥२४॥

न मे मज्जा न मेऽस्थिर्वा न मे त्वग्धातु सप्तकम् । न मे शुक्लं न मे रक्तं न मे नीलं नमे पृथक् ॥२५॥

न मे तापो न मे लाभो मुख्यं गौणं न मे क्वचित् । न मे भ्रान्तिर्न मे स्थैर्यं न मे गुह्यं न मे कुलम् ॥२६॥

न मे त्याज्यं न मे ग्राह्यं न मे हास्यं न मे नयः । न मे वृत्तं न मे ग्लानिर्न मे शोष्यं न मे सुखम् ॥२७॥

न मे ज्ञाता न मे ज्ञानं न मे ज्ञेयं न मे स्वयम् । न मे तुभ्यं नमे मह्यं न मे त्वं च न मे त्वहम् ॥२८॥

न मे जरा न मे बाल्यं न मे यौवनमण्वपि । अहं ब्रह्मास्म्यहं ब्रह्मास्म्यहं ब्रह्मेति निश्चयः ॥२९॥

चिदहं चिदहं चेति स जीवन्मुक्त उच्यते । ब्रह्मैवाहं चिदेवाहं परो वाहं न संशयः ॥३०॥

स्वयमेव स्वयं हंसः स्वयमेव स्वयं स्थितः । स्वयमेव स्वयं पश्येत्स्वात्मराज्ये सुखं वसेत् ॥३१॥

स्वात्मानन्दं स्वयं भोक्ष्येत्स जीवन्मुक्त उच्यते । स्वयमेवैकवीरोऽग्रे स्वयमेव प्रभुः स्मृतः ॥३२॥

ब्रह्मभूतः प्रशान्तात्मा ब्रह्मानन्दमयः सुखी । स्वच्छरूपो महामौनी वैदेही मुक्त एव सः ॥३३॥

सर्वात्मा समरूपात्मा शुद्धात्मा त्वहमुत्थितः । एकवर्जित एकात्मा सर्वात्मा स्वात्ममात्रकः ॥३४॥

अजात्मा चामृतात्माहं स्वयमात्माहमव्ययः । लक्ष्यात्मा ललितात्माहं तूष्णीमात्मस्वभाववान् ॥३५॥

आनन्दात्मा प्रियो ह्यात्मा मोक्षात्मा बन्धवर्जितः । ब्रह्मैवाहं चिदेवाहमेवं वापि न चिन्त्यते ॥३६॥

चिन्मात्रेणैव यस्तिष्ठेद्वैदेही मुक्त एव सः ॥३७॥

निश्चयं च परित्यज्य अहं ब्रह्मेति निश्चयम् । आनन्दभरितस्वान्तो वैदेही मुक्त एव सः ॥३८॥

सर्वमस्तीति नास्तीति निश्चयं त्यज्य तिष्ठति । अहं ब्रह्मास्मि नास्मीति सच्चिदानन्दमात्रकः ॥३९॥

किञ्चित्क्वचित्कदाचिच्च आत्मानं न स्पृशत्यसौ । तूष्णीमेव स्थितस्तूष्णीं तूष्णीं सत्यं न किञ्चन ॥४०॥

परमात्मा गुणातीतः सर्वात्मा भूतभावनः । कालभेदं वस्तुभेदं देशभेदं स्वभेदकम् ॥४१॥

किञ्चिद्भेदं न तस्यास्ति किञ्चिद्वापि न विद्यते । अहं त्वं तदिदं सोऽयं कालात्मा कालहीनकः ॥४२॥

शून्यात्मा सूक्ष्मरूपात्मा विश्वात्मा विश्वहीनकः । देवात्मादेवहीनात्मा मेयात्मा मेयवर्जितः ॥४३॥

सर्वत्र जडहीनात्मा सर्वेषामन्तरात्मकः । सर्वसङ्कल्पहीनात्मा चिन्मात्रोऽस्मीति सर्वदा ॥४४॥

केवलः परमात्माहं केवलो ज्ञानविग्रहः । सत्तामात्रस्वरूपात्मा नान्यत्किञ्चिज्जगद्भयम् ॥४५॥

जीवेश्वरेति वाक्क्वेति वेदशास्त्राद्यहं त्विति । इदं चैतन्यमेवेति अहं चैतन्यमित्यपि ॥४६॥

इति निश्चयशून्यो यो वैदेही मुक्त एव सः । चैतन्यमात्रसंसिद्धः स्वात्मारामः सुखासनः ॥४७॥

अपरिच्छिन्नरूपात्मा अणुस्थूलादिवर्जितः । तुर्यतुर्या परानन्दो वैदेही मुक्त एव सः ॥४८॥

नामरूपविहीनात्मा परसंवित्सुखात्मकः । तुरीयातीतरूपात्मा शुभाशुभविवर्जितः ॥४९॥

योगात्मा योगयुक्तात्मा बन्धमोक्षविवर्जितः । गुणागुणविहीनात्मा देशकालादिवर्जितः ॥५०॥

साक्ष्यसाक्षित्वहीनात्मा किञ्चित्किञ्चिन्न किञ्चन । यस्य प्रपञ्चमानं न ब्रह्माकारमपीह न ॥५१॥

स्वस्वरूपे स्वयंज्योतिः स्वस्वरूपे स्वयंरतिः । वाचामगोचरानन्दो वाङ्मनोगोचरः स्वयम् ॥५२॥

अतीतातीतभावो यो वैदेही मुक्त एव सः । चित्तवृत्तेरतीतो यश्चित्तवृत्त्यवभासकः ॥५३॥

सर्ववृत्तिविहीनात्मा वैदेही मुक्त एव सः । तस्मिन्काले विदेहीति देहस्मरणवर्जितः ॥५४॥

ईषन्मात्रं स्मृतं चेद्यस्तदा सर्वसमन्वितः । परैरदृष्टबाह्यात्मा परमानन्दचिद्धनः ॥५५॥

परैरदृष्टबाह्यात्मा सर्ववेदान्तगोचरः । ब्रह्मामृतरसास्वादो ब्रह्मामृतरसायनः ॥५६॥

ब्रह्मामृतरसासक्तो ब्रह्मामृतरसः स्वयम् । ब्रह्मामृतरसे मग्नो ब्रह्मानन्दशिवार्चनः ॥५७॥

ब्रह्मामृतरसे तृप्तो ब्रह्मानन्दानुभावकः । ब्रह्मानन्दशिवानन्दो ब्रह्मानन्दरसप्रभः ॥५८॥

ब्रह्मानन्दपरं ज्योतिर्ब्रह्मानन्दनिरन्तरः । ब्रह्मानन्दरसान्नादो ब्रह्मानन्दकुटुम्बकः ॥५९॥

ब्रह्मानन्दरसारूढो ब्रह्मानन्दैकचिद्धनः । ब्रह्मानन्दरसोद्बाहो ब्रह्मानन्दरसम्भरः ॥६०॥

ब्रह्मानन्दजनैर्युक्तो ब्रह्मानन्दात्मनि स्थितः । आत्मरूपमिद।म् सर्वमात्मनोऽन्यन्न कञ्चन ॥६१॥

सर्वमात्माहमात्मास्मि परमात्मा परात्मकः । नित्यानन्द स्वरूपात्मा वैदेही मुक्त एव सः ॥६२॥

पूर्णरूपो महानात्मा प्रीतात्मा शाश्वतात्मकः । सर्वान्तर्यामिरूपात्मा निर्मलात्मा निरात्मकः ॥६३॥

निर्विकारस्वरूपात्मा शुद्धात्मा शान्तरूपकः । शान्ताशान्तस्वरूपात्मा नैकात्मत्वविवर्जितः ॥६४॥

जीवात्मपरमात्मेति चिन्तासर्वस्ववर्जितः । मुक्तामुक्तस्वरूपात्मा मुक्तामुक्तविवर्जितः ॥६५॥

बन्धमोक्षस्वरूपात्मा बन्धमोक्षविवर्जितः । द्वैताद्वैतस्वरूपात्मा द्वैताद्वैतविवर्जितः ॥६६॥

सर्वासर्वस्वरूपात्मा सर्वासर्वविवर्जितः । मोदप्रमोदरूपात्मा मोदादिविनिवर्जितः ॥६७॥

सर्वसङ्कल्पहीनात्मा वैदेही मुक्त एव सः । निष्कलात्मा निर्मलात्मा बुद्धात्मापुरुषात्मकः ॥६८॥

आनन्दादिविहीनात्मा अमृतात्मामृतात्मकः । कालत्रयस्वरूपात्मा कालत्रयविवर्जितः ॥६९॥

अखिलात्मा ह्यमेयात्मा मानात्मा मानवर्जितः । नित्यप्रत्यक्षरूपात्मा नित्यप्रत्यक्षनिर्णयः ॥७०॥

अन्यहीनस्वभावात्मा अन्यहीनस्वयंप्रभः । विद्याविद्यादिमेयात्मा विद्याविद्यादिवर्जितः ॥७१॥

नित्यानित्यविहीनात्मा इहामुत्रविवर्जितः । शमादिषट्कशून्यात्मा मुमुक्षुत्वादिवर्जितः ॥७२॥

स्थूलदेहविहीनात्मा सूक्ष्मदेहविवर्जितः । कारणादिविहीनात्मा तुरीयादिविवर्जितः ॥७३॥

अन्नकोशविहीनात्मा प्राणकोशविवर्जितः । मनःकोशविहीनात्मा विज्ञानादिविवर्जितः ॥७४॥

आनन्दकोशहीनात्मा पञ्चकोशविवर्जितः । निर्विकल्पस्वरूपात्मा सविकल्पविवर्जितः ॥७५॥

दृश्यानुविद्धहीनात्मा शब्दविद्धविवर्जितः । सदा समाधिशून्यात्मा आदिमध्यान्तवर्जितः ॥७६॥

प्रज्ञानवाक्यहीनात्मा अहंब्रह्मास्मिवर्जितः । तत्त्वमस्यादिहीनात्मा अयमात्मेत्यभावकः ॥७७॥

ओङ्कारवाच्यहीनात्मा सर्ववाच्यविवर्जितः । अवस्थात्रयहीनात्मा अक्षरात्मा चिदात्मकः ॥७८॥

आत्मज्ञेयादिहीनात्मा यत्किञ्चिदिदमात्मकः । भानाभानविहीनात्मा वैदेही मुक्त एव सः ॥७९॥

आत्मानमेव वीक्षस्व आत्मानं बोधय स्वकम् । स्वमात्मानं स्वयं भुङ्क्ष्व स्वस्थो भव षडानन ॥८०॥

स्वमात्मनि स्वयं तृप्तः स्वमात्मानं स्वयं चर । आत्मानमेव मोदस्व वैदेही मुक्तिको भवेत्युपनिषत् ॥

इति चतुर्थोऽध्यायः ॥४॥

निदाघो नाम वै मुनिः पप्रच्छ ऋभुं भगवन्तमात्मानात्मविवेकमनुब्रूहीति । स होवाच ऋभुः ।

सर्ववाचोऽवधिर्ब्रह्म सर्वचिन्तावधिर्गुरुः । सर्वकारणकार्यात्मा कार्यकारणवर्जितः ॥१॥

सर्वसङ्कल्परहितः सर्वनादमयः शिवः । सर्ववर्जितचिन्मात्रः सर्वानन्दमयः परः ॥२॥

सर्वतेजःप्रकाशात्मा नादानन्दमयात्मकः । सर्वानुभवनिर्मुक्तः सर्वध्यानविवर्जितः ॥३॥

सर्वनादकलातीत एष आत्माहमव्ययः । आत्मानात्मविवेकादिभेदाभेदविवर्जितः ॥४॥

शान्ताशान्तादिहीनात्मा नादान्तर्ज्योतिरूपकः । महावाक्यार्थतो दूरो ब्रह्मास्मीत्यतिदूरतः ॥५॥

तच्छब्दवर्ज्यस्त्वंशब्दहीनो वाक्यार्थवर्जितः । क्षराक्षरविहीनो यो नादान्तर्ज्योतिरेव सः ॥६॥

अखण्डैकरसो वाहमानन्दोऽस्मीति वर्जितः । सर्वातीतस्वभावात्मा नादान्तर्ज्योतिरेव सः ॥७॥

आत्मेति शब्दहीनो य आत्मशब्दार्थवर्जितः । सच्चिदानन्दहीनो य एषैवात्मा सनातनः ॥८॥

स निर्देष्टुमशक्यो यो वेदवाक्यैरगम्यतः । यस्य किञ्चिद्बहिर्नास्ति किञ्चिदन्तः कियन्न च ॥९॥

यस्य लिङ्गं प्रपञ्चं वा ब्रह्मैवात्मा न संशयः । नास्ति यस्य शरीरं वा जीवो वा भूतभौतिकः ॥१०॥

नामरूपादिकं नास्ति भोज्यं वा भोगभुक्च वा । सद्वाऽसद्वा स्थितिर्वापि यस्य नास्ति क्षराक्षरम् ॥११॥

गुणं वा विगुणं वापि सम आत्मा न संशयः । यस्य वाच्यं वाचकं वा श्रवणं मननं च वा ॥१२॥

गुरुशिष्यादिभेदं वा देवलोकाः सुरासुराः । यत्र धर्ममधर्मं वा शुद्धं वाशुद्धमण्वपि ॥१३॥

यत्र कालमकालं वा निश्चयः संशयो न हि । यत्र मन्त्रममन्त्रं वा विद्याविद्ये न विद्यते ॥१४॥

द्रष्टृदर्शनदृश्यं वा ईषन्मात्रं कलात्मकम् । अनात्मेति प्रसङ्गो वा ह्यनात्मेति मनोऽपि वा ॥१५॥

अनात्मेति जगद्वापि नास्ति नास्ति निश्चिनु । सर्वसङ्कल्पशून्यत्वात्सर्वकार्यविवर्जनात् ॥१६॥

केवलं ब्रह्ममात्रत्वान्नास्त्यनात्मेति निश्चिनु । देहत्रयविहीनत्वात्कालत्रयविवर्जनात् ॥१७॥

जीवत्रयगुणाभावात्तापत्रयविवर्जनात् । लोकत्रयविहीनत्वात्सर्वमात्मेति शासनात् ॥१८॥

चित्ताभाच्चिन्तनीयं देहाभावाज्जरा न च । पादाभावाद्गतिर्नास्ति हस्ताभावात्क्रिया न च ॥१९॥

मृत्युर्नास्ति जनाभावाद्बुद्ध्यभावात्सुखादिकम् । धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च ॥२०॥

अक्षरोच्चारणं नास्ति गुरुशिष्यादि नास्त्यपि । एकाभावे द्वितीयं न न द्वितीये न चैकता ॥२१॥

सत्यत्वमस्ति चेत्किञ्चिदसत्यं न च संभवेत् । असत्यत्वं यदि भवेत्सत्यत्वं न घटिष्यति ॥२२॥

शुभं यद्यशुभं विद्धि अशुभाच्छुभमिष्यते । भयं यद्यभवं विद्धि अभयाद्भयमापतेत् ॥२३॥

बन्धत्वमपि चेन्मोक्षो बन्धाभावे क्व मोक्षता । मरणं यदि चेज्जन्म जन्माभावे मृतिर्न च ॥२४॥

त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न । इदं यदि तदेवास्ति तदभादिदं न च ॥२५॥

अस्तीति चेन्नास्ति तदा नास्ति चेदस्ति किञ्चन । कार्यं चेत्कारणं किञ्चित्कार्याभावे न कारणम् ॥२६॥

द्वैतं यदि तदाऽद्वैतं द्वैताभावे द्वयं न च । दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेन न ॥२७॥

अन्तर्यदि बहिः सत्यमन्ता भावे बहिर्न च । पूर्णत्वमस्ति चेत्किञ्चिदपूर्णत्वं प्रसज्यते ॥२८॥

तस्मादेतत्क्वचिन्नास्ति त्वं चाहं वा इमे इदम् । नास्ति दृष्टान्तिकं सत्ये नास्ति दार्ष्टान्तिकं ह्यजे ॥२९॥

परंब्रह्माहमस्मीति स्मरणस्य मनो न हि । ब्रह्ममात्रं जगदिदं ब्रह्ममात्रं त्वमप्यहम् ॥३०॥

चिन्मात्रं केवल।म् चाहं नास्त्यनात्म्येति निश्चिनु । इदं प्रपञ्चं नास्त्येव नोत्पन्नं नो स्थितं क्वचित् ॥३१॥

चित्तं प्रपञ्चमित्याहुर्नास्ति नास्त्येव सर्वदा । न प्रपञ्चं न चित्तादि नाहङ्कारो न जीवकः ॥३२॥

मायाकार्यादिकं नास्ति माया नास्ति भयं नहि । कर्ता नास्ति क्रिया नास्ति श्रवणं मननं नहि ॥३३॥

समाधिद्वितयं नास्ति मातृमानादि नास्ति हि । अज्ञानं चापि नास्त्येव ह्यविवेकं कदाचन ॥३४॥

अनुबन्धचतुष्कं न सम्बन्धत्रयमेव न । न गङ्गा न गया सेतुर्न भूतं नान्यदस्ति हि ॥३५॥

न भूमिर्न जलं नाग्निर्न न वायुर्न च खं क्वचित् । न देवा न च दिक्पाला न वेदा न गुरुः क्वचित् ॥३६॥

न दूरं नास्तिकं नालं न मध्यं न क्वचित्स्थितम् । नाद्वैतं द्वैतसत्यं वा ह्यसत्यं वा इदं न च ॥३७॥

बन्धमोक्षादिकं नास्ति सद्वाऽसद्वा सुखादि वा । जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम् ॥३८॥

सर्वं ब्रह्मेति नास्त्येव ब्रह्म इत्यपि नास्ति हि । चिदित्येवेति नास्त्येव चिदहंभाषणं न हि ॥३९॥

अहं ब्रह्मास्मि नास्त्येव नित्यशुद्धोऽस्मि न क्वचित् । वाचा यदुच्यते किञ्चिन्मनसा मनुते क्वचित् ॥४०॥

बुद्ध्या निश्चिनुते नास्ति चित्तेन ज्ञायते नहि । योगी योगादिकं नास्ति सदा सर्वं सदा न च ॥४१॥

अहोरात्रादिकं नास्ति स्नानध्यानादिकं नहि । भ्रान्तिरभ्रान्तिर्नास्त्येव नास्त्यनात्मेति निश्चिनु ॥४२॥

वेदशास्त्रं पुराणं च कार्यं कारणमीश्वरः । लोको भूतं जनस्त्वैक्यं सर्वं मिथ्या न संशयः ॥४३॥

बन्धो मोक्षः सुखं दुःखं ध्यानं चित्तं सुरासुराः । गौणं मुख्यं परं चान्यत्सर्वं मिथ्या न संशयः ॥४४॥

वाचा वदति यत्किञ्चित्सङ्कल्पैः कल्प्यते च यत् । मनसा चिन्त्यते यद्यत्सर्वं मिथ्या न संशयः ॥४५॥

बुद्ध्या निश्चीयते किञ्चिच्चित्ते निश्चीयते क्वचित् । शास्त्रैः प्रपञ्च्यते यद्यन्नेत्रेणैव निरीक्ष्यते ॥४६॥

श्रोत्राभ्यां श्रूयते यद्यदन्यत्सद्भावमेव च । नेत्रं श्रोत्रं गात्रमेव मिथ्येति च सुनिश्चितम् ॥४७॥

इदमित्येव निर्दिष्टमयमित्येव कल्प्यते । त्वमहं तदिदं सोऽहमन्यत्सद्भावमेव च ॥४८॥

यद्यत्संभाव्यते लोके सर्वसङ्कल्पसंभ्रमः । सर्वाध्यासं सर्वगोप्यं सर्वभोगप्रभेदकम् ॥४९॥

सर्वदोषप्रभेदाच्च नास्त्यनात्मेति निश्चिनु । मदीयं च त्वदीयं च ममेति च तवेति च ॥५०॥

मह्यं तुभ्यं मयेत्यादि तत्सर्वं वितथं भवेत् । रक्षको विष्णुरित्यादि ब्रह्मा सृष्टेस्तु कारणम् ॥५१॥

संहारे रुद्र इत्येवं सर्वं मिथ्येति निश्चिनु । स्नानं जपस्तपो होमः स्वाध्यायो देवपूजनम् ॥५२॥

मन्त्रं तन्त्रं च सत्सङ्गो गुणदोषविजृम्भणम् । अन्तःकरणसद्भाव अविद्याश्च संभवः ॥५३॥

अनेककोटिब्रह्माण्डं सर्वं मिथ्येति निश्चिनु । सर्वदेशिकवाक्योक्तिर्येन केनापि निश्चितम् ॥५४॥

दृश्यते जगति यद्यद्यद्यज्जगति वीक्ष्यते । वर्तते जगति यद्यत्सर्वं मिथ्येति निश्चिनु ॥५५॥

येन केनाक्षरेणोक्तं येन केन विनिश्चितम् । येन केनापि गदितं येन केनापि मोदितम् ॥५६॥

येन केनापि यद्दत्तं येन केनापि यत्कृतम् । यत्र यत्र शुभं कर्म यत्र यत्र च दुष्कृतम् ॥५७॥

यद्यत्करोषि सत्येन सर्वं मिथ्येति निश्चिनु । त्वमेव परमात्मासि त्वमेव परमो गुरुः ॥५८॥

त्वमेवाकाशरूपोऽसि साक्षिहीनोऽसि सर्वदा । त्वमेव सर्वभावोऽसि त्वं ब्रह्मासि न संशयः ॥५९॥

कालहीनोऽसि कालोऽसि सदा ब्रह्मासि चिद्घनः । सर्वतः स्वस्वरूपोऽसि चैतन्यघनवानसि ॥६०॥

सत्योऽसि सिद्धोऽसि सनातनोऽसि

मुक्तोऽसि मोक्षोऽसि मुदामृतोऽसि ।

देवोऽसि शान्तोऽसि निरामयोऽसि

ब्रह्मासि पूर्णोऽसि परात्परोऽसि ॥६१॥

समोऽसि सच्चापि सनातनोऽसि

सत्यादिवाक्यैः प्रतिबोधितोऽसि ।

सर्वाङ्गहीनोऽसि सदा स्थितोऽसि

ब्रह्मेन्द्ररुद्रादिविभावितोऽसि ॥६२॥

सर्वप्रपञ्चभ्रमवर्जितोऽसि

सर्वेषु भूतेषु च भासितोऽसि ।

सर्वत्र सङ्कल्पविवर्जितोऽसि

सर्वागमान्तार्थविभावितोऽसि ॥६३॥

सर्वत्र सन्तोषसुखासनोऽसि

सर्वत्र गत्यादिविवर्जितोऽसि ।

सर्वत्र लक्ष्यादिविवर्जितोऽसि

ध्यातोऽसि विष्ण्वादिसुरैरजस्रम् ॥६४॥

चिदाकारस्वरूपोऽसि चिन्मात्रोऽसि निरङ्कुशः । आत्मन्येव स्थितोऽसि त्वं सर्वशून्योऽसि निर्गुणः ॥६५॥

आनन्दोऽसि परोऽसि त्वमेक एवाद्वितीयकः । चिद्घनानन्दरूपोऽसि परिपूर्णस्वरूपकः ॥६६॥

सदसि त्वमसि ज्ञोऽसि सोऽसि जानासि वीक्षसि । सच्चिदानन्दरूपोऽसि वासुदेवोऽसि वै प्रभुः ॥६७॥

अमृतोऽसि विभुश्चासि चञ्चलो ह्यचलो ह्यसि । सर्वोऽसि सर्वहीनोऽसि शान्ताशान्तविवर्जितः ॥६८॥

सत्तामात्रप्रकाशोऽसि सत्तासामान्यको ह्यसि । नित्यसिद्धिस्वरूपोऽसि सर्वसिद्धिविवर्जितः ॥६९॥

ईषन्मात्रविशून्योऽसि अणुमात्रविवर्जितः । अस्तित्ववर्जितोऽसि त्वं नास्तित्वादिविवर्जितः ॥७०॥

लक्ष्यलक्षणहीनोऽसि निर्विकारो निरामयः । सर्वनादान्तरोऽसि त्वं कलाकाष्ठाविवर्जितः ॥७१॥

ब्रह्मविष्ण्वीशहीनोऽसि स्वस्वरूपं प्रपश्यसि । स्वस्वरूपावशेषोऽसि स्वानन्दाब्धौ निमज्जसि ॥७२॥

स्वात्मराज्ये स्वमेवासि स्वयंभावविवर्जितः । शिष्टपूर्णस्वरूपोऽसि स्वस्मात्किञ्चिन्न पश्यसि ॥७३॥

स्वस्वरूपान्न चलसि स्वस्वरूपेण जृम्भसि । स्वस्वरूपादनन्योऽसि ह्यहमेवासि निश्चिनु ॥७४॥

इदं प्रपञ्चं यत्किञ्चिद्यद्यज्जगति विद्यते । दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् ॥७५॥

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कारश्च तेजश्च लोकं भुवनमण्डलम् ॥७६॥

नाशो जन्म च सत्यं च पुण्यपापजयादिकम् । रागः कामः क्रोधलोभौ ध्यानं ध्येयं गुणं परम् ॥७७॥

गुरुशिष्योपदेशादिरादिरन्तं शमं शुभम् । भूतं भव्यं वर्तमानं लक्ष्यं लक्षणमद्वयम् ॥७८॥

शमो विचारः सन्तोषो भोक्तृभोज्यादिरूपकम् । यमाद्यष्टाङ्गयोगं च गमनागमनात्मकम् ॥७९॥

आदिमध्यान्तरङ्गं च ग्राह्यं त्याज्यं हरिः शिवः । इन्द्रियाणि मनश्चैव अवस्थात्रितयं तथा ॥८०॥

चतुर्विंशतितत्त्वं च साधनानां चतुष्टयम् । सजातीयं विजातीयं लोका भूरादयः क्रमात् ॥८१॥

सर्ववर्णाश्रमाचारं मन्त्रतन्त्रादिसंग्रहम् । विद्याविद्यादिरूपं च सर्ववेदं जडाजडम् ॥८२॥

बन्धमोक्षविभागं च ज्ञानविज्ञानरूपकम् । बोधाबोधस्वरूपं वा द्वैताद्वैतादिभाषणम् ॥८३॥

सर्ववेदान्तसिद्धान्तं सर्वशास्त्रार्थनिर्णयम् । अनेकजीवसद्भावमेकजीवादिनिर्णयम् ॥८४॥

यद्यद्ध्यायति चित्तेन यद्यत्सङ्कल्पते क्वचित् । बुद्ध्या निश्चीयते यद्यद्गुरुणा संशृणोति यत् ॥८५॥

यद्यद्वाचा व्याकरोति यद्यदाचार्यभाषणम् । यद्यत्स्वरेन्द्रियैर्भाव्यं यद्यन्मीमांसते पृथक् ॥८६॥

यद्यन्न्यायेन निर्णीतं महद्भिर्वेदपारगैः । शिवः क्षरति लोकान्वै विष्णुः पाति जगत्त्रयम् ॥८७॥

ब्रह्मा सृजति लोकान्वै एवमादिक्रियादिकम् । यद्यदस्ति पुराणेषु यद्यद्वेदेषु निर्णयम् ॥८८॥

सर्वोपनिषदां भावं सर्वं शशविषाणवत् । देहोऽहमिति सङ्कल्पं तदन्तःकरणं स्मृतम् ॥८९॥

देहोऽहमिति सङ्कल्पो महत्संसार उच्यते । देहोऽहमिति सङ्कल्पस्तद्बन्धमिति चोच्यते ॥९०॥

देहोऽहमिति सङ्कल्पस्तद्दुःखमिति चोच्यते । देहोऽहमिति यद्भानं तदेव नरकं स्मृतम् ॥९१॥

देहोऽहमिति सङ्कल्पो जगत्सर्वमितीर्यते । देहोऽहमिति सङ्कल्पो हृदयग्रन्थिरीरितिः ॥९२॥

देहोऽहमिति यज्ज्ञानं तदेवाज्ञानमुच्यते । देहोऽहमिति यज्ज्ञानं तदसद्भावमेव च ॥९३॥

देहोऽहमिति या बुद्धिः सा चाविद्येति भण्यते । देहोऽहमिति यज्ज्ञानं तदेव द्वैतमुच्यते ॥९४॥

देहोऽहमिति सङ्कल्पः सत्यजीवः स एव हि । देहोऽहमिति यज्ज्ञानं परिच्छिन्नमितीरितम् ॥९५॥

देहोऽहमिति सङ्कल्पो महापापमिति स्फुटम् । देहोऽहमिति या बुद्धिस्तृष्णा दोषामयः किल ॥९६॥

यत्किञ्चिदपि सङ्कल्पस्तापत्रयमितीरितम् । कामं क्रोधं बन्धनं सर्वदुःखं

विश्वं दोषं कालनानास्वरूपम् ।

यत्किञ्चेदं सर्वसङ्कल्पजालं

तत्किञ्चेदं मानसं सोम विद्धि ॥९७॥

मन एव जगत्सर्वं मन एव महारिपुः । मन एव हि संसारो मन एव जगत्त्रयम् ॥९८॥

मन एव महद्दुःखं मन एव जरादिकम् । मन एव हि कालश्च मन एव मलं तथा ॥९९॥

मन एव हि सङ्कल्पो मन एव हि जीवकः । मन एव हि चित्तं च मनोऽहङ्कार एव च ॥१००॥

मन एव महद्बन्धं मनोऽन्तःकरणं च तत् । मन एव हि भूमिश्च मन एव हि तोयकम् ॥१०१॥

मन एव हि तेजश्च मन एव मरुन्महान् । मन एव हि चाकाशं मन एव हि शब्दकम् ॥१०२॥

स्पर्शं रूपं रसं गन्धं कोशाः पञ्च मनोभवाः । जाग्रत्स्वप्नसुषुप्त्यादि मनोमयरितीरितम् ॥१०३॥

दिक्पाला वसवो रुद्रा आदित्याश्च मनोमयाः । दृश्यं जडं द्वन्द्वजातमज्ञानं मानसं स्मृतम् ॥१०४॥

सङ्कल्पमेव यत्किञ्चित्तत्तन्नास्तीति निश्चिनु । नास्ति नास्ति जगत्सर्वं गुरुशिष्यादिकं नहीत्युपनिषत् ॥१०५॥

इति पञ्चमोऽध्यायः ॥५॥ऋभुः ॥

सर्वं सच्चिन्मयं विद्धि सर्वं सच्चिन्मयं ततम् । सच्चिदानन्दमद्वैतं सच्चिदानन्दमद्वयम् ॥१॥

सच्चिदानन्दमात्रं हि सच्चिदानन्दमन्यकम् । सच्चिदानन्दरूपोऽहं सच्चिदानन्दमेव खम् ॥२॥

सच्चिदानन्दमेव त्वं सच्चिदानन्दकोऽस्म्यहम् । मनोबुद्धिरहङ्कारचित्तसङ्घातका अमी ॥३॥

न त्वं नाहं न चान्यद्वा सर्वं ब्रह्मैव केवलम् । न वाक्यं न पदं वेदं नाक्षरं न जडं क्वचित् ॥४॥

न मध्यं नादि नान्तं वा न सत्यं न निबन्धजम् । न दुःखं न सुखं भावं न माया प्रकृतिस्तथा ॥५॥

न देहं न मुखं घ्राणं न जिह्वा न च तालुनी । न दन्तोष्ठौ ललाटं च निश्वासोच्छ्वास एव च ॥६॥

न स्वेदमस्थि मांसं च न रक्तं न च मूत्रकम् । न दूरं नान्तिकं नाङ्गं नोदरं न किरीटकम् ॥७॥

न हस्तपादचलनं न शास्त्रं न च शासनम् । न वेत्ता वेदनं वेद्यं न जाग्रत्स्वप्नसुप्तयः ॥८॥

तुर्यातीतं न मे किञ्चित्सर्वं सच्चिन्मयं ततम् । नाध्यात्मिकं नाधिभूतं नाधिदैवं न मायिकम् ॥९॥

न विश्वतैजसः प्राज्ञो विराट्सूत्रात्मकेश्वरः । न गमागमचेष्टा च न नष्टं न प्रयोजनम् ॥१०॥

त्याज्यं ग्राह्यं न दूष्यं वा ह्यमेध्यामेध्यकं तथा । न पीनं न कृशं क्लेदं न कालं देशभाषणम् ॥११॥

न सर्वं न भयं द्वैतं न वृक्षतृणपर्वताः । न ध्यानं योगसंसिद्धिर्न ब्रह्मवैश्यक्षत्रकम् ॥१२॥

न पक्षी न मृगो नाङ्गी न लोभो मोह एव च । न मदो न च मात्सर्यं कामक्रोधादयस्तथा ॥१३॥

न स्त्रीशूद्रबिडालादि भक्ष्यभोज्यादिकं च यत् । न प्रौढहीनो नास्तिक्यं न वार्तावसरोऽति हि ॥१४॥

न लौकिको न लोको वा न व्यापारो न मूढता । न भोक्ता भोजनं भोज्यं न पात्रं पानपेयकम् ॥१५॥

न शत्रुमित्रपुत्रादिर्न माता न पिता स्वसा । न जन्म न मृतिर्वृद्धिर्न देहोऽहमिति भ्रमः ॥१६॥

न शून्यं नापि चाशून्यं नान्तःकरणसंसृतिः । न रात्रिर्न दिवा नक्तं न ब्रह्मा न हरिः शिवः ॥१७॥

न वारपक्षमासादि वत्सरं न च चञ्चलम् । न ब्रह्मलोको वैकुण्ठो न कैलासो न चान्यकः ॥१८॥

न स्वर्गो न च देवेन्द्रो नाग्निलोको न चाग्निकः । न यमो यमलोको वा न लोका लोकपालकाः ॥१९॥

न भूर्भुवःस्वस्त्रैलोक्यं न पातालं न भूतलम् । नाविद्या न च विद्या च न माया प्रकृतिर्जडा ॥२०॥

न स्थिरं क्षणिकं नाशं न गतिर्न च धावनम् । न ध्यातव्यं न मे ध्यानं न मन्त्रो न जपः क्वचित् ॥२१॥

न पदार्था न पूजार्हं नाभिषेको न चार्चनम् । न पुष्पं न फलं पत्रं गन्धपुष्पादिधूपकम् ॥२२॥

न स्तोत्रं न नमस्कारो न प्रदक्षिणमण्वपि । न प्रार्थना पृथग्भावो न हविर्नाग्निवन्दनम् ॥२३॥

न होमो न च कर्माणि न दुर्वाक्यं सुभाषणम् । न गायत्री न वा सन्धिर्न मनस्यं न दुःस्थितिः ॥२४॥

न दुराशा न दुष्टात्मा न चाण्डालो न पौल्कसः । न दुःसहं दुरालापं न किरातो न कैतवम् ॥२५॥

न पक्षपातं न पक्षं वा न विभूषणतस्करौ । न च दम्भो दाम्भिको वा न हीनो नाधिको नरः ॥२६॥

नैकं द्वयं त्रयं तुर्यं न महत्वं न चाल्पता । न पूर्णं न परिच्छिन्नं न काशी न व्रतं तपः ॥२७॥

न गोत्रं न कुलं सूत्रं न विभुत्वं न शून्यता । न स्त्री न योषिन्नो वृद्धा न कन्या न वितन्तुता ॥२८॥

न सूतकं न जातं वा नान्तर्मुखसुविभ्रमः । न महावाक्यमैक्यं वा नाणिमादिविभूतयः ॥२९॥

सर्वचैतन्यमात्रत्वात्सर्वदोषः सदा न हि । सर्वं सन्मात्ररूपत्वात्सच्चिदानन्दमात्रकम् ॥३०॥

ब्रह्मैव सर्वं नान्योऽस्ति तदहं तदहं तथा । तदेवाहं तदेवाहं ब्रह्मैवाहं सनातनम् ॥३१॥

ब्रह्मैवाहं न संसारी ब्रह्मैवाहं न मे मनः । ब्रह्मैवाहं न मे बुद्धिर्ब्रह्मैवाहं न चेन्द्रियः ॥३२॥

ब्रह्मैवाहं न देहोऽहं ब्रह्मैवाहं न गोचरः । ब्रह्मैवाहं न जीवोऽहं ब्रह्मैवाहं न भेदभूः ॥३३॥

ब्रह्मैवाहं जडो नाहमहं ब्रह्म न मे मृतिः । ब्रह्मैवाहं न च प्राणो ब्रह्मैवाहं परात्परः ॥३४॥

इदं ब्रह्म परं ब्रह्म सत्यं ब्रह्म प्रभुर्हि सः । कालो ब्रह्म कला ब्रह्म सुखं ब्रह्म स्वयंप्रभम् ॥३५॥

एकं ब्रह्म द्वयं ब्रह्म मोहो ब्रह्म शमादिकम् । दोषो ब्रह्म गुणो ब्रह्म दमः शान्तं विभुः प्रभुः ॥३६॥

लोको ब्रह्म गुरुर्ब्रह्म शिष्यो ब्रह्म सदाशिवः । पूर्वं ब्रह्म परं ब्रह्म शुद्धं ब्रह्म शुभाशुभम् ॥३७॥

जीव एव सदा ब्रह्म सच्चिदानन्दमस्म्यहम् । सर्वं ब्रह्ममयं प्रोक्तं सर्वं ब्रह्ममयं जगत् ॥३८॥

स्वयं ब्रह्म न सन्देहः स्वस्मादन्यन्न किञ्चन । सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमद्वयम् ॥३९॥

नित्यनिर्मलरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन । अणुमात्रलसद्रूपमणुमात्रमिदं जगत् ॥४०॥

अणुमाअत्रं शरीरं वा ह्यणुमात्रमसत्यकम् । अणुमात्रमचिन्त्यं वा चिन्त्यं वा ह्यणुमात्रकम् ॥४१॥

ब्रह्मैव सर्वं चिन्मात्रं ब्रह्ममात्रं जगत्त्रयम् । आनन्दं परमानन्दमन्यत्किञ्चिन्न किञ्चन ॥४२॥

चैतन्यमात्रमोङ्कारं ब्रह्मैव सकलं स्वयम् । अहमेव जगत्सर्वमहमेव परं पदम् ॥४३॥

अहमेव गुणातीत अहमेव परात्परः । अहमेव परं ब्रह्म अहमेव गुरोर्गुरुः ॥४४॥

अहमेवाखिलाधार अहमेव सुखात्सुखम् । आत्मनोऽन्यज्जगन्नास्ति आत्मनोऽन्यत्सुखं न च ॥४५॥

आत्मनोऽन्या गतिर्नास्ति सर्वमात्ममयं जगत् । आत्मनोऽन्यन्नहि क्वापि आत्मनोऽन्यत्तृणं नहि ॥४६॥

आत्मनोऽन्यत्तुषं नास्ति सर्वमात्ममयं जगत् । ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्न हि ॥४७॥

ब्रह्ममात्रं श्रुतं सर्वं स्वयं ब्रह्मैव केवलम् । ब्रह्ममात्रं वृतं सर्वं ब्रह्ममात्रं रसं सुखम् ॥४८॥

ब्रह्ममात्रं चिदाकाशं सच्चिदानन्दमव्ययम् । ब्रह्मणोऽन्यतरन्नास्ति ब्रह्मणोऽन्यज्जगन्न च ॥४९॥

ब्रह्मणोऽन्यदह नास्ति ब्रह्मणोऽन्यत्फलं नहि । ब्रह्मणोऽन्यत्तृणं नास्ति ब्रह्मणोऽन्यत्पदं नहि ॥५०॥

ब्रह्मणोऽन्यद्गुरुर्नास्ति ब्रह्मणोऽन्यमसद्वपुः । ब्रह्मणोऽन्यन्न चाहन्ता त्वत्तेदन्ते नहि क्वचित् ॥५१॥

स्वयं ब्रह्मात्मकं विद्धि स्वस्मादन्यन्न किञ्चन । यत्किञ्चिद्दृश्यते लोके यत्किञ्चिद्भाष्यते जनैः ॥५२॥

यत्किञ्चिद्भुज्यते क्वापि तत्सर्वमसदेव हि । कर्तृभेदं क्रियाभेदं गुणभेदं रसादिकम् ॥५३॥

लिङ्गभेदमिदं सर्वमसदेव सदा सुखम् । कालभेदं देशभेदं वस्तुभेदं जयाजयम् ॥५४॥

यद्यद्भेदं च तत्सर्वमसदेव हि केवलम् । असदन्तःकरणकमसदेवेन्द्रियादिकम् ॥५५॥

असत्प्राणादिकं सर्वं सङ्घातमसदात्मकम् । असत्यं पञ्चकोशाख्यमसत्यं पञ्च देवताः ॥५६॥

असत्यं षड्विकारादि असत्यमरिवर्गकम् । असत्यं षडृतुश्चैव असत्यं षड्रसस्तथा ॥५७॥

सच्चिदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् । आत्मैवाहं परं सत्यं नान्याः संसारदृष्टयः ॥५८॥

सत्यमानन्दरूपोऽहं चिद्घनानन्दविग्रहः । अहमेव परानन्द अहमेव परात्परः ॥५९॥

ज्ञानाकारमिदं सर्वं ज्ञानानन्दोऽहमद्वयः । सर्वप्रकाशरूपोऽहं सर्वाभावस्वरूपकम् ॥६०॥

अहमेव सदा भामीत्येवं रूपं कुतोऽप्यसत् । त्वमित्येवं परं ब्रह्म चिन्मयानन्दरूपवान् ॥६१॥

चिदाकारं चिदाकाशं चिदेव परमं सुखम् । आत्मैवाहमसन्नाहं कूटस्थोऽहं गुरुः परः ॥६२॥

सच्चिदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् । कालो नास्ति जगन्नास्ति मायाप्रकृतिरेव न ॥६३॥

अहमेव हरिः साक्षादहमेव सदाशिवः । शुद्धचैतन्यभावोऽहं शुद्धसत्त्वानुभावनः ॥६४॥

अद्वयानन्दमात्रोऽहं चिद्घनैकरसोऽस्म्यहम् । सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव केवलम् ॥६५॥

सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव चेतनम् । सर्वान्तर्यामिरूपोऽहं सर्वसाक्षित्वलक्षणः ॥६६॥

परमात्मा परं ज्योतिः परं धाम परा गतिः । सर्ववेदान्तसारोऽहं सर्वशास्त्रसुनिश्चितः ॥६७॥

योगानन्दस्वरूपोऽहं मुख्यानन्दमहोदयः । सर्वज्ञानप्रकाशोऽस्मि मुख्यविज्ञानविग्रहः ॥६८॥

तुर्यातुर्यप्रकाशोऽस्मि तुर्यातुर्यादिवर्जितः । चिदक्ष्रोऽन् सत्योऽहं वासुदवोऽजररोऽमरः ॥६९॥

अहं ब्रह्म चिदाकाशं नित्यं ब्रह्म निरञ्जनम् । शुद्धं बुद्धं सदामुक्तमनामकमरूपकम् ॥७०॥

सच्चिदानन्दरूपोऽहमनुन्त्पन्नमिदं जगत् । सत्यासत्यं जगन्नास्ति सङ्कल्पकलनादिकम् ॥७१॥

नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् । अनन्तमव्ययं शान्तमेकरूपमनामयम् ॥७२॥

मत्तोऽन्यदस्ति चेन्मिथ्या यथा मरुमरीचिका । वन्ध्याकुमारवचने भीतिश्चेदस्ति किञ्चन ॥७३॥

शशशृङ्गेण नागेन्द्रो मृतश्चेज्जगदस्ति तत् । मृगतृष्णाजलं पीत्वा तृप्तश्चेदस्त्विदं जगत् ॥७४॥

नरशृङ्गेण नष्टश्चेत्कश्चिदस्त्विदमेव हि । गन्धर्वनगरे सत्ये जगद्भवति सर्वदा ॥७५॥

गगने नीलिमासत्ये जगत्सत्यं भविष्यति । शुक्तिकारजतं सत्यं भूषणं चेज्जगद्भवेत् ॥७६॥

रज्जुसर्पेण दष्टश्चेन्नरो भवतु संसृतिः । जातरूपेण बाणेन ज्वालाग्नौ नाशिते जगत् ॥७७॥

विन्ध्याटव्यां पायसान्नमस्ति चेज्जगदुद्भवः । रम्भास्तम्भेन काष्ठेन पाकसिद्धौ जगद्भवेत् ॥७८॥

सद्यः कुमारिकरूपैः पाके सिद्धे जगद्भवेत् । चित्रस्थदीपैस्तमसो नाशश्चेदस्त्विदं जगत् ॥७९॥

मासात्पूर्वं मृतो मर्त्यो ह्यागतश्चेज्जगद्भवेत् । तक्रं क्षीरस्वरूपं चेत्क्वचिन्नित्यं जगद्भवेत् ॥८०॥

गोस्तनादुद्भवं क्षीरं पुनरारोपणे जगत् । भूरजोऽब्धौ समुत्पन्ने जगद्भवतु सर्वदा ॥८१॥

कूर्मरोम्णा गजे बद्धे जगदस्तु मदोत्कटे । नालस्थतन्तुना मेरुश्चालितश्चेज्जगद्भवेत् ॥८२॥

तरङ्गमालया सिन्धुर्बद्धश्चेदस्त्विदं जगत् । अग्नेरधश्चेज्ज्वलनं जगद्भवतु सर्वदा ॥८३॥

ज्वालावह्निः शीतलश्चेदस्तिरूपमिदं जगत् । ज्वालाग्निमण्डले पद्मवृद्धिश्चेज्जगदस्त्विदम् ॥८४॥

महच्छैलेन्द्रनीलं वा सम्भवच्चेदिदं जगत् । मेरुरागत्य पद्माक्षे स्थितश्चेदस्त्विदं जगत् ॥८५॥

निगिरेच्चेद्भृङ्गसूनुर्मेरुं चलवदस्त्विदम् । मशकेन हते सिंहे जगत्सत्यं तदास्तु ते ॥८६॥

अणुकोटरविस्तीर्णे त्रैलोक्यं चेज्जगद्भवेत् । तृणानलश्च नित्यश्चेत्क्षणिकं तज्जगद्भवेत् ॥८७॥

स्वप्नदृष्टं च यद्वस्तु जागरे चेज्जगद्भवः । नदीवेगो निश्चलश्चेत्केनापीदं भवेज्जगत् ॥८८॥

क्षुधितस्याग्निर्भोज्यश्चेन्निमिषं कल्पितं भवेत् । जात्यन्धै रत्नविषयः सुज्ञातश्चेज्जगत्सदा ॥८९॥

नपुंसककुमारस्य स्त्रीसुखं चेद्भवज्जगत् । निर्मितः शशशृङ्गेण रथश्चेज्जगदस्ति तत् ॥९०॥

सद्योजाता तु या कन्या भोगयोग्या भवेज्जगत् । वन्ध्या गर्भाप्ततत्सौख्यं ज्ञाता चेदस्त्विदं जगत् ॥९१॥

काको वा हंसवद्गच्छेज्जगद्भवतु निश्चलम् । महाखरो वा सिंहेन युध्यते चेज्जगत्स्थितिः ॥९२॥

महाखरो गजगतिं गतश्चेज्जगदस्तु तत् । सम्पूर्णचन्द्रसूर्यश्चेज्जगद्भातु स्वयं जडम् ॥९३॥

चन्द्रसूर्यादिकौ त्यक्त्वा राहुश्चेद्दृश्यते जगत् । भृष्टबीजसमुत्पन्नवृद्धिश्चेज्जगदस्तु सत् ॥९४॥

दरिद्रो धनिकानां च सुखं भुङ्क्ते तदा जगत् । शुना वीर्येण सिंहस्तु जितो यदि जगत्तदा ॥९५॥

ज्ञानिनो हृदयं मूढैर्ज्ञातं चेत्कल्पनं तदा । श्वानेन सागरे पीते निःशेषेण मनो भवेत् ॥९६॥

शुद्धाकाशो मनुष्येषु पतितश्चेत्तदा जगत् । भूमौ वा पतितं व्योम व्योमपुष्पं सुगन्धकम् ॥९७॥

शुद्धाकाशे वने जाते चलिते तु तदा जगत् । केवले दर्पणे नास्ति प्रतिबिम्बं तदा जगत् ॥९८॥

अजकुक्षौ जगन्नास्ति ह्यात्मकुक्षौ जगन्नहि । सर्वथा भेदकलनं द्वैताद्वैतं न विद्यते ॥९९॥

मायाकार्यमिदं भेदमस्ति चेद्ब्रह्मभावनम् । देहोऽहमिति दुःखं चेद्ब्रह्माहमिति निश्चयः ॥१००॥

हृदयग्रन्थिरस्तित्वे छिद्यते ब्रह्मचक्रकम् । संशये समनुप्राप्ते ब्रह्मनिश्चयमाश्रयेत् ॥१०१॥

अनात्मरूपचोरश्चेदात्मरत्नस्य रक्षणम् । नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥१०२॥

एवमादिसुदृष्टान्तैः साधितं ब्रह्ममात्रकम् । ब्रह्मैव सर्वभवनं भुवनं नाम सन्त्यज ॥१०३॥

अहं ब्रह्मेति निश्चित्य अहंभावं परित्यज । सर्वमेव लयं याति सुप्तहस्तस्थपुष्पवत् ॥१०४॥

न देहो न च कर्माणि सर्वं ब्रह्मैव केवलम् । न भूतं न च कार्यं च न चावस्थाचतुष्टयम् ॥१०५॥

लक्षणात्रयविज्ञानं सर्वं ब्रह्मैव केवलम् । सर्वव्यापारमुत्सृज्य ह्यहं ब्रह्मेति भावय ॥१०६॥

अहं ब्रह्म न सन्देहो ह्यहं ब्रह्म चिदात्मकम् । सच्चिदानन्दमात्रोऽहमिति निश्चित्य तत्त्यज ॥१०७॥

शाङ्करीयं महाशास्त्रं न देयं यस्य कस्यचित् । नास्तिकाय कृतघ्नाय दुर्वृत्ताय दुरात्मने ॥१०८॥

गुरुभक्तिविशुद्धान्तःकरणाय महात्मने । सम्यक्परीक्ष्य दातव्यं मासं षाण्मासवत्सरम् ॥१०९॥

सर्वोपनिषदभ्यासं दूरतस्त्यज्य सादरम् । तेजोबिन्दूपनिषदमभ्यसेत्सर्वदा मुदा ॥११०॥

सकृदभ्यासमात्रेण ब्रह्मैव भवति स्वयम् । ब्रह्मैव भवति स्वयमित्युपनिषत् ॥ॐ सह नाववतु ॥

सह नौ भुनक्तु ॥सह वीर्यं करवावहै ॥तेजस्विनावधीतमस्तु मा विद्विषावहै ॥इति तेजोबिन्दूपनिषत्समाप्ता॥

N/A

N/A
Last Updated : December 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP