संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
मुण्डकोपनिषत्

मुण्डकोपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद् .

Upanishad are highly philosophical and metaphysical part of Vedas.


॥ मुण्डकोपनिषत् ॥ अथर्व वेद,मुख्य उपनिषद्

॥ श्रीः ॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ।

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।

॥ ॐ शान्तिः शान्तिः शान्तिः ॥

॥ ॐ ब्रह्मणे नमः ॥

॥ प्रथममुण्डके प्रथमः खण्डः ॥

ॐ ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ता

भुवनस्य गोप्ता ।

स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय

ज्येष्ठपुत्राय प्राह ॥१॥

अथर्वणे यां प्रवदेत ब्रह्माऽथर्वा तं

पुरोवाचाङ्गिरे ब्रह्मविद्याम् ।

स भारद्वाजाय सत्यवाहाय प्राह

भारद्वाजोऽङ्गिरसे परावराम् ॥२॥

शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ ।

कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥३॥

तस्मै स होवाच ।

द्वे विद्ये वेदितव्ये इति ह स्म

यद्ब्रह्मविदो वदन्ति परा चैवापरा च ॥४॥

तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः

शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति ।

अथ परा यया तदक्षरमधिगम्यते ॥५॥

यत्तदद्रेश्यमग्राह्यमगोत्रमवर्ण-

मचक्षुःश्रोत्रं तदपाणिपादम् ।

नित्यं विभुं सर्वगतं सुसूक्ष्मं

तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ॥६॥

यथोर्णनाभिः सृजते गृह्णते च

यथा पृथिव्यामोषधयः संभवन्ति ।

यथा सतः पुरुषात् केशलोमानि

तथाऽक्षरात् संभवतीह विश्वम् ॥७॥

तपसा चीयते ब्रह्म ततोऽन्नमभिजायते ।

अन्नात् प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥८॥

यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तापः ।

तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायाते ॥९॥

॥ इति मुण्डकोपनिषदि प्रथममुण्डके प्रथमः खण्डः ॥

॥ प्रथममुण्डके द्वितीयः खण्डः ॥

तदेतत् सत्यं मन्त्रेषु कर्माणि कवयो

यान्यपश्यंस्तानि त्रेतायां बहुधा संततानि ।

तान्याचरथ नियतं सत्यकामा एष वः

पन्थाः सुकृतस्य लोके ॥१॥

यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने ।

तदाऽऽज्यभागावन्तरेणाऽऽहुतीः प्रतिपादयेत् ॥२॥

यस्याग्निहोत्रमदर्शमपौर्णमास-

मचातुर्मास्यमनाग्रयणमतिथिवर्जितं च ।

अहुतमवैश्वदेवमविधिना हुत-

मासप्तमांस्तस्य लोकान् हिनस्ति ॥३॥

काली कराली च मनोजवा च

सुलोहिता या च सुधूम्रवर्णा ।

स्फुलिङ्गिनी विश्वरुची च देवी

लेलायमाना इति सप्त जिह्वाः ॥४॥

एतेषु यश्चरते भ्राजमानेषु यथाकालं

चाहुतयो ह्याददायन् ।

तं नयन्त्येताः सूर्यस्य रश्मयो यत्र

देवानां पतिरेकोऽधिवासः ॥५॥

एह्येहीति तमाहुतयः सुवर्चसः

सूर्यस्य रश्मिभिर्यजमानं वहन्ति ।

प्रियां वाचमभिवदन्त्योऽर्चयन्त्य

एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥६॥

प्लवा ह्येते अदृढा यज्ञरूपा

अष्टादशोक्तमवरं येषु कर्म ।

एतच्छ्रेयो येऽभिनन्दन्ति मूढा

जरामृत्युं ते पुनरेवापि यन्ति ॥७॥

अविद्यायामन्तरे वर्तमानाः

स्वयं धीराः पण्डितं मन्यमानाः ।

जङ्घन्यमानाः परियन्ति मूढा

अन्धेनैव नीयमाना यथान्धाः ॥८॥

अविद्यायं बहुधा वर्तमाना वयं

कृतार्था इत्यभिमन्यन्ति बालाः ।

यत् कर्मिणो न प्रवेदयन्ति रागात्

तेनातुराः क्षीणलोकाश्च्यवन्ते ॥९॥

इष्टापूर्तं मन्यमाना वरिष्ठं

नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ।

नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं

लोकं हीनतरं वा विशन्ति ॥१०॥

तपःश्रद्धे ये ह्युपवसन्त्यरण्ये

शान्ता विद्वांसो भैक्ष्यचर्यां चरन्तः ।

सूर्यद्वारेण ते विरजाः प्रयान्ति

यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥११॥

परीक्ष्य लोकान् कर्मचितान् ब्रह्मणो

निर्वेदमायान्नास्त्यकृतः कृतेन ।

तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्

समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥१२॥

तस्मै स विद्वानुपसन्नाय सम्यक्

प्रशान्तचित्ताय शमान्विताय ।

येनाक्षरं पुरुषं वेद सत्यं प्रोवाच

तां तत्त्वतो ब्रह्मविद्याम् ॥१३॥

॥ इति मुण्डकोपनिषदि प्रथममुण्डके द्वितीयः खण्डः ॥

॥ द्वितीय मुण्डके प्रथमः खण्डः ॥

तदेतत् सत्यं

यथा सुदीप्तात् पावकाद्विस्फुलिङ्गाः

सहस्रशः प्रभवन्ते सरूपाः ।

तथाऽक्षराद्विविधाः सोम्य भावाः

प्रजायन्ते तत्र चैवापि यन्ति ॥१॥

दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः ।

अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात् परतः परः ॥२॥

एतस्माज्जायते प्रणो मनः सर्वेन्द्रियाणि च ।

खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥३॥

अग्नीर्मूर्धा चक्षुषी चन्द्रसूर्यौ

दिशः श्रोत्रे वाग् विवृताश्च वेदाः ।

वायुः प्रणो हृदयं विश्वमस्य पद्भ्यां

पृथिवी ह्येष सर्वभूतान्तरात्मा ॥४॥

तस्मादग्निः समिधो यस्य सूर्यः

सोमात् पर्जन्य ओषधयः पृथिव्याम् ।

पुमान् रेतः सिञ्चति योषितायां

बह्वीः प्रजाः पुरुषात् संप्रसूताः ॥५॥

तस्मादृचः साम यजूंषि दीक्षा

यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च ।

संवत्सरश्च यजमानश्च लोकाः

सोमो यत्र पवते यत्र सूर्यः ॥६॥

तस्माच्च देवा बहुधा संप्रसूताः

साध्या मनुष्याः पशवो वयांसि ।

प्राणापानौ व्रीहियवौ तपश्च

श्रद्ध सत्यं ब्रह्मचर्यं विधिश्च ॥७॥

सप्त प्राणाः प्रभवन्ति तस्मात्

सप्तार्चिषः समिधः सप्त होमाः ।

सप्त इमे लोका येषु चरन्ति प्राणा

गुहाशया निहिताः सप्त सप्त ॥८॥

अतः समुद्रा गिरयश्च सर्वेऽस्मात्

स्यन्दन्ते सिन्धवः सर्वरूपाः ।

अतश्च सर्वा ओषधयो रसश्च

येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥९॥

पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् ।

एतद्यो वेद निहितं गुहायां

सोऽविद्याग्रन्थिं विकिरतीह सोम्य ॥१०॥

॥ इति मुण्डकोपनिषदि द्वितीयमुण्डके प्रथमः खण्डः ॥

॥ द्वितीय मुण्डके द्वितीयः खण्डः ॥

आविः संनिहितं गुहाचरं नाम

महत्पदमत्रैतत् समर्पितम् ।

एजत्प्राणन्निमिषच्च यदेतज्जानथ

सदसद्वरेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानाम् ॥१॥

यदर्चिमद्यदणुभ्योऽणु च

यस्मिँल्लोका निहिता लोकिनश्च ।

तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः

तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य विद्धि ॥२॥

धनुर् गृहीत्वौपनिषदं महास्त्रं

शरं ह्युपासा निशितं सन्धयीत ।

आयम्य तद्भावगतेन चेतसा

लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥३॥

प्रणवो धनुः शारो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।

अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् ॥४॥

यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं

मनः सह प्राणैश्च सर्वैः ।

तमेवैकं जानथ आत्मानमन्या वाचो

विमुञ्चथामृतस्यैष सेतुः ॥५॥

अरा इव रथनाभौ संहता यत्र नाड्यः ।

स एषोऽन्तश्चरते बहुधा जायमानः ।

ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः

पाराय तमसः परस्तात् ॥६॥

यः सर्वज्ञः सर्वविद् यस्यैष महिमा भुवि ।

दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः ॥

मनोमयः प्राणशरीरनेता

प्रतिष्ठितोऽन्ने हृदयं सन्निधाय ।

तद् विज्ञानेन परिपश्यन्ति धीरा

आनन्दरूपममृतं यद् विभाति ॥७॥

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।

क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥८॥

हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् ।

तच्छुभ्रं ज्योतिषं ज्योतिस्तद् यदात्मविदो विदुः ॥९॥

न तत्र सूर्यो भाति न चन्द्रतारकं

नेमा विद्युतो भान्ति कुतोऽयमग्निः ।

तमेव भान्तमनुभाति सर्वं

तस्य भासा सर्वमिदं विभाति ॥१०॥

ब्रह्मैवेदममृतं पुरस्ताद् ब्रह्म पश्चाद् ब्रह्म दक्षिणतश्चोत्तरेण ।

अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ॥११॥

॥ इति मुण्डकोपनिषदि द्वितीयमुण्डके द्वितीयः खण्डः ॥

॥ तृतीय मुण्डके प्रथमः खण्डः ॥

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।

तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥१॥

समाने वृक्षे पुरुषो निमग्नोऽनिशया शोचति मुह्यमानः ।

जुष्टं यदा पश्यत्यन्यमीशमस्य

महिमानमिति वीतशोकः ॥२॥

यदा पश्यः पश्यते रुक्मवर्णं

कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।

तदा विद्वान् पुण्यपापे विधूय

निरञ्जनः परमं साम्यमुपैति ॥३॥

प्रणो ह्येष यः सर्वभूतैर्विभाति

विजानन् विद्वान् भवते नातिवादी ।

आत्मक्रीड आत्मरतिः क्रियावा-

नेष ब्रह्मविदां वरिष्ठः ॥४॥

सत्येन लभ्यस्तपसा ह्येष आत्मा

सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् ।

अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो

यं पश्यन्ति यतयः क्षीणदोषाः ॥५॥

सत्यमेव जयते नानृतं

सत्येन पन्था विततो देवयानः ।

येनाऽऽक्रमन्त्यृषयो ह्याप्तकामा

यत्र तत् सत्यस्य परमं निधानम् ॥६॥

बृहच्च तद् दिव्यमचिन्त्यरूपं

सूक्ष्माच्च तत् सूक्ष्मतरं विभाति ।

दूरात् सुदूरे तदिहान्तिके च

पश्यन्त्विहैव निहितं गुहायाम् ॥७॥

न चक्षुषा गृह्यते नापि वाचा

नान्यैर्देवैस्तपसा कर्मण वा ।

ज्ञानप्रसादेन विशुद्धसत्त्व-

स्ततस्तु तं पश्यते निष्कलं

ध्यायमानः ॥८॥

एषोऽणुरात्मा चेतसा वेदितव्यो

यस्मिन् प्राणः पञ्चधा संविवेश ।

प्राणैश्चित्तं सर्वमोतं प्रजानां

यस्मिन् विशुद्धे विभवत्येष आत्मा ॥९॥

यं यं लोकं मनसा संविभाति

विशुद्धसत्त्वः कामयते यांश्च कामान् ।

तं तं लोकं जयते तांश्च कामां-

स्तस्मादात्मज्ञं ह्यर्चयेत् भूतिकामः ॥१०॥

॥ इति मुण्डकोपनिषदि तृतीयमुण्डके प्रथमः खण्डः ॥

॥ तृतीयमुण्डके द्वितीयः खण्डः ॥

स वेदैतत् परमं ब्रह्म धाम

यत्र विश्वं निहितं भाति शुभ्रम् ।

उपासते पुरुषं ये ह्यकामास्ते

शुक्रमेतदतिवर्तन्ति धीराः ॥१॥

कामान् यः कामयते मन्यमानः

स कामभिर्जायते तत्र तत्र ।

पर्याप्तकामस्य कृतात्मनस्तु

इहैव सर्वे प्रविलीयन्ति कामाः ॥२॥

नायमात्मा प्रवचनेन लभ्यो

न मेधया न बहुना श्रुतेन ।

यमेवैष वृणुते तेन लभ्य-

स्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥३॥

नायमात्मा बलहीनेन लभ्यो

न च प्रमादात् तपसो वाप्यलिङ्गात् ।

एतैरुपायैर्यतते यस्तु विद्वां-

स्तस्यैष आत्मा विशते ब्रह्मधाम ॥४॥

संप्राप्यैनमृषयो ज्ञानतृप्ताः

कृतात्मानो वीतरागाः प्रशान्ताः

ते सर्वगं सर्वतः प्राप्य धीरा

युक्तात्मानः सर्वमेवाविशन्ति ॥५॥

वेदान्तविज्ञानसुनिश्चितार्थाः

संन्यासयोगाद् यतयः शुद्धसत्त्वाः ।

ते ब्रह्मलोकेषु परान्तकाले

परामृताः परिमुच्यन्ति सर्वे ॥६॥

गताः कलाः पञ्चदश प्रतिष्ठा

देवाश्च सर्वे प्रतिदेवतासु ।

कर्माणि विज्ञानमयश्च आत्मा

परेऽव्यये सर्वे एकीभवन्ति ॥७॥

यथा नद्यः स्यन्दमानाः समुद्रेऽ

स्तं गच्छन्ति नामरूपे विहाय ।

तथा विद्वान् नामरूपाद्विमुक्तः

परात्परं पुरुषमुपैति दिव्यम् ॥८॥

स यो ह वै तत् परमं ब्रह्म वेद

ब्रह्मैव भवति नास्याब्रह्मवित्कुले भवति ।

तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो

विमुक्तोऽमृतो भवति ॥९॥

तदेतदृचाऽभ्युक्तम् ।

क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः

स्वयं जुह्वत एकर्षिं श्रद्धयन्तः ।

तेषामेवैतां ब्रह्मविद्यां वदेत

शिरोव्रतं विधिवद् यैस्तु चीर्णम् ॥१०॥

तदेतत् सत्यमृषिरङ्गिराः

पुरोवाच नैतदचीर्णव्रतोऽधीते ।

नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥११॥

॥ इति मुण्डकोपनिषदि तृतीयमुण्डके द्वितीयः खण्डः ॥

॥ इत्यथर्ववेदीय मुण्डकोपनिषत्समाप्ता ॥

ॐ भद्रं कर्णेभिः ॥

शान्तिः ॥

॥ ॐ शान्तिः शान्तिः शान्तिः ॥

N/A

N/A
Last Updated : December 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP