संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
श्रीरामकृष्ण परमहंसोपनिषदं

श्रीरामकृष्ण परमहंसोपनिषदं

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic


ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ अथ श्रीरामकृष्ण परमहंसोपनिषदं व्याख्यास्यामः । सैषाऽपरोक्षानुभवरूढा साधनप्रधाना च ॥१॥
निर्गुणं निराकारं च परं ब्रह्म । तदेव भक्तजनानां शीतल भक्तेः प्रभावात् सगुणः साकारः परमेश्वरो भवति हिममिव जलात् शैत्यात् । स एव परमेश्वरो निखिलजगदंतर्यामी च ॥२॥ राम-कृष्ण-शिव-विष्णु-गाॅडल्लेत्यादि विविधनामभिर्निर्दिष्टं परंतत्त्वमपि स एव । स एव लक्ष्मी-दुर्गा-काली-सरस्वतीत्यादि देवीनामभिरपि निर्दिश्यते ॥३॥
व्यवहारदशायां यत्र पुरुषोऽज्ञो द्वैतमिव पश्यति तदा काल्यादि देव्यः परस्यैव ब्रह्मणः शक्तय इति मन्तव्यम् । दाहिकशक्तिर्यथाग्नेः । वस्तुतस्तु तयोरत्यंतमभेदः एव ॥४॥ परमेश्वरदर्शनमेव मानव जीवनस्य चरमोद्देशः । तथैव मुक्तेः साध्यत्वात् । परमेश्वरस्तु द्रष्टुं स्प्रष्टुं च शक्यः । तेन सहालापोऽपि साध्यः । सर्वे धर्माः समानास्तमेव गमयंति च ॥५॥
अपि तु मायाजवनिकाच्छन्नः स सुखेन द्रष्टुं न लभ्यः । कामकांचन कामनैव माया । तदपगमे सः स्वयमेवाविर्भवति मेघापायेंऽशुमानिव । ज्ञानमिश्रित भक्तिश्च मायानाशोपायः । स एव सर्वमित्यतो दीनदरिद्ररोग्यज्ञादीनां नारायणदृष्ट्या सेवाऽप्यद्यतनकालेऽ- अनुत्तमोपायश्चित्तशुद्धिद्वारा तं साक्षात्कर्तुम् ॥६॥
कथंचित्तं ज्ञात्वा दृष्ट्वा स्पृष्ट्वा भवबन्धनाद्विमुक्ता भवत । विमुक्ता भवतेत्युपनिषत् ॥७॥
ॐ शान्तिः शान्तिः शान्तिः ॥

॥ इति स्वामी हर्षानन्द कृत उपनिशत्समाप्ता ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP