संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
श्वेताश्वतरोपनिषत्

श्वेताश्वतरोपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.

Upanishad are highly philosophical and metaphysical part of Vedas.


॥ श्वेताश्वतरोपनिषत् ॥

कृष्ण यजुर्वेद,सामान्य उपनिषद्

ॐ सहनाववतु ।

सह नौ भुनक्तु ।

सह वीर्यं करवावहै ।

तेजस्वि नावधीतमस्तु ।

मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

प्रथमोऽध्यायः ।

हरिः ॐ ॥ ब्रह्मवादिनो वदन्ति ।

किं कारणं ब्रह्म कुतः स्म जाता

जीवाम केन क्व च संप्रतिष्ठा ।

अधिष्ठिताः केन सुखेतरेषु

वर्तामहे ब्रह्मविदो व्यवस्थाम् ॥१॥

कालः स्वभावो नियतिर्यदृच्छा

भूतानि योनिः पुरुष इति चिन्त्या ।

संयोग एषां न त्वात्मभावा-

दात्माप्यनीशः सुखदुःखहेतोः ॥२॥

ते ध्यानयोगानुगता अपश्यन्

देवात्मशक्तिं स्वगुणैर्निगूढाम् ।

यः कारणानि निखिलानि तानि

कालात्मयुक्तान्यधितिष्ठत्येकः ॥३॥

तमेकनेमिं त्रिवृतं षोडशान्तं

शतार्धारं विंशतिप्रत्यराभिः ।

अष्टकैः षड्भिर्विश्वरूपैकपाशं

त्रिमार्गभेदं द्विनिमित्तैकमोहम् ॥४॥

पञ्चस्रोतोम्बुं पञ्चयोन्युग्रवक्रां

पञ्चप्राणोर्मिं पञ्चबुद्ध्यादिमूलाम् ।

पञ्चावर्तां पञ्चदुःखौघवेगां

पञ्चाशद्भेदां पञ्चपर्वामधीमः ॥५॥

सर्वाजीवे सर्वसंस्थे बृहन्ते

अस्मिन् हंसो भ्राम्यते ब्रह्मचक्रे ।

पृथगात्मानं प्रेरितारं च मत्वा

जुष्टस्ततस्तेनामृतत्वमेति ॥६॥

उद्गीतमेतत्परमं तु ब्रह्म

तस्मिंस्त्रयं सुप्रतिष्ठाऽक्षरं च ।

अत्रान्तरं ब्रह्मविदो विदित्वा

लीना ब्रह्मणि तत्परा योनिमुक्ताः ॥७॥

संयुक्तमेतत् क्षरमक्षरं च

व्यक्ताव्यक्तं भरते विश्वमीशः ।

अनीशश्चात्मा बध्यते भोक्तृ-

भावाज् ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥८॥

ज्ञाज्ञौ द्वावजावीशनीशावजा

ह्येका भोक्तृभोग्यार्थयुक्ता ।

अनन्तश्चात्मा विश्वरूपो ह्यकर्ता

त्रयं यदा विन्दते ब्रह्ममेतत् ॥९॥

क्षरं प्रधानममृताक्षरं हरः

क्षरात्मानावीशते देव एकः ।

तस्याभिध्यानाद्योजनात्तत्त्व-

भावात् भूयश्चान्ते विश्वमायानिवृत्तिः ॥ १० ॥

ज्ञात्वा देवं सर्वपाशापहानिः

क्षीणैः वलेशेर्जन्ममृत्युप्रहाणिः ।

तस्याभिध्यानात्तृतीयं देहभेदे

विश्वैश्वर्यं केवल आप्तकामः ॥११॥

एतज्ज्ञेयं नित्यमेवात्मसंस्थं

नातः परं वेदितव्यं हि किञ्चित् ।

भोक्ता भोग्यं प्रेरितारं च मत्वा

सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् ॥१२॥

वह्नेर्यथा योनिगतस्य मूर्तिनर्

दृश्यते नैव च लिङ्गनाशः ।

स भूय एवेन्धनयोनिगृह्य-

स्तद्वोभयं वै प्रणवेन देहे ॥१३॥

स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।

ध्याननिर्मथनाभ्यासादेवं पश्यन्निगूढवत् ॥१४॥

तिलेषु तैलं दधिनीव सर्पि-

रापः स्रोतःस्वरणीषु चाग्निः ।

एवमात्माऽत्मनि गृह्यतेऽसौ

सत्येनैनं तपसायोऽनुपश्यति ॥१५॥

सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम् ।

आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत् परम् ॥१६॥

द्वितीयोऽध्यायः ।

युञ्जानः प्रथमं मनस्तत्त्वाय सविता धियः ।

अग्नेर्ज्योतिर्निचाय्य पृथिव्या अध्याभरत् ॥१॥

युक्तेन मनसा वयं देवस्य सवितुः सवे ।

सुवर्गेयाय शक्त्या ॥२॥

युक्त्वाय मनसा देवान् सुवर्यतो धिया दिवम् ।

बृहज्ज्योतिः करिष्यतः सविता प्रसुवाति तान् ॥३॥

युञ्जते मन उत युञ्जते धियो

विप्रा विप्रस्य बृहतो विपश्चितः ।

वि होत्रा दधे वयुनाविदेक

इन्मही देवस्य सवितुः परिष्टुतिः ॥४॥

युजे वां ब्रह्म पूर्व्यं नमोभिर्विश्लोक

एतु पथ्येव सूरेः ।

शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये

धामानि दिव्यानि तस्थुः ॥५॥

अग्निर्यत्राभिमथ्यते वायुर्यत्राधिरुध्यते ।

सोमो यत्रातिरिच्यते तत्र सञ्जायते मनः ॥६॥

सवित्रा प्रसवेन जुषेत ब्रह्म पूर्व्यम् ।

यत्र योनिं कृणवसे न हि ते पूर्तमक्षिपत् ॥७॥

त्रिरुन्नतं स्थाप्य समं शरीरं

हृदीन्द्रियाणि मनसा सन्निवेश्य ।

ब्रह्मोडुपेन प्रतरेत विद्वान्

स्रोतांसि सर्वाणि भयानकानि ॥८॥

प्राणान् प्रपीड्येह संयुक्तचेष्टः

क्षीणे प्राणे नासिकयोच्छ्वसीत ।

दुष्टाश्वयुक्तमिव वाहमेनं

विद्वान् मनो धारयेताप्रमत्तः ॥९॥

समे शुचौ शर्करावह्निवालिका-

विवर्जिते शब्दजलाश्रयादिभिः ।

मनोनुकूले न तु चक्षुपीडने

गुहानिवाताश्रयणे प्रयोजयेत् ॥ १० ॥

नीहारधूमार्कानिलानलानां

खद्योतविद्युत्स्फटिकशशीनाम् ।

एतानि रूपाणि पुरःसराणि

ब्रह्मण्यभिव्यक्तिकराणि योगे ॥११॥

पृथिव्यप्तेजोऽनिलखे समुत्थिते

पञ्चात्मके योगगुणे प्रवृत्ते ।

न तस्य रोगो न जरा न मृत्युः

प्राप्तस्य योगाग्निमयं शरीरम् ॥१२॥

लघुत्वमारोग्यमलोलुपत्वं

वर्णप्रसादः स्वरसौष्ठवं च ।

गन्धः शुभो मूत्रपुरीषमल्पं

योगप्रवृत्तिं प्रथमां वदन्ति ॥१३॥

यथैव बिंबं मृदयोपलिप्तं

तेजोमयं भ्राजते तत् सुधान्तम् ।

तद्वाऽऽत्मतत्त्वं प्रसमीक्ष्य देही

एकः कृतार्थो भवते वीतशोकः ॥१४॥

यदात्मतत्त्वेन तु ब्रह्मतत्त्वं

दीपोपमेनेह युक्तः प्रपश्येत् ।

अजं ध्रुवं सर्वतत्त्वैर्विशुद्धं

ज्ञात्वा देवं मुच्यते सर्वपापैः ॥१५॥

एषो ह देवः प्रदिशोऽनु सर्वाः ।

पूर्वो ह जातः स उ गर्भे अन्तः ।

स एव जातः स जनिष्यमाणः

प्रत्यङ् जनास्तिष्ठति सर्वतोमुखः ॥१६॥

यो देवो अग्नौ योऽप्सु

यो विश्वं भुवनमाविवेश ।

य ओषधीषु यो वनस्पतिषु

तस्मै देवाय नमो नमः ॥१७॥

तृतीयोऽध्यायः ।

य एको जालवानीशत ईशनीभिः

सर्वांल्लोकानीशत ईशनीभिः ।

य एवैक उद्भवे सम्भवे च

य एतद् विदुरमृतास्ते भवन्ति ॥१॥

एको हि रुद्रो न द्वितीयाय तस्थु-

र्य इमांल्लोकानीशत ईशनीभिः ।

प्रत्यङ् जनास्तिष्ठति सञ्चुकोचान्तकाले

संसृज्य विश्वा भुवनानि गोपाः ॥२॥

विश्वतश्चक्षुरुत विश्वतोमुखो

विश्वतोबाहुरुत विश्वतस्पात् ।

सं बाहुभ्यां धमति संपतत्रै-

र्द्यावाभूमी जनयन् देव एकः ॥३॥

यो देवानां प्रभवश्चोद्भवश्च

विश्वाधिपो रुद्रो महर्षिः ।

हिरण्यगर्भं जनयामास पूर्वं

स नो बुद्ध्या शुभया संयुनक्तु ॥४॥

या ते रुद्र शिवा तनूरघोराऽपापकाशिनी ।

तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि ॥५॥

याभिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे ।

शिवां गिरित्र तां कुरु मा हिंसीः पुरुषं जगत् ॥६॥

ततः परं ब्रह्म परं बृहन्तं

यथानिकायं सर्वभूतेषु गूढम् ।

विश्वस्यैकं परिवेष्टितार-

मीशं तं ज्ञात्वाऽमृता भवन्ति ॥७॥

वेदाहमेतं पुरुषं महान्त-

मादित्यवर्णं तमसः परस्तात् ।

तमेव विदित्वातिमृत्युमेति

नान्यः पन्था विद्यतेऽयनाय ॥८॥

यस्मात् परं नापरमस्ति किंचिद्य-

स्मान्नणीयो न ज्यायोऽस्ति कश्चित् ।

वृक्ष इव स्तब्धो दिवि तिष्ठत्येक-

स्तेनेदं पूर्णं पुरुषेण सर्वम् ॥९॥

ततो यदुत्तरततं तदरूपमनामयम् ।

य एतद्विदुरमृतास्ते भवन्ति अथेतरे दुःखमेवापियन्ति ॥ १० ॥

सर्वानन शिरोग्रीवः सर्वभूतगुहाशयः ।

सर्वव्यापी स भगवांस्तस्मात् सर्वगतः शिवः ॥११॥

महान् प्रभुर्वै पुरुषः सत्वस्यैष प्रवर्तकः ।

सुनिर्मलामिमां प्राप्तिमीशानो ज्योतिरव्ययः ॥१२॥

अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा

सदा जनानां हृदये सन्निविष्टः ।

हृदा मनीषा मनसाभिक्लृप्तो

य एतद् विदुरमृतास्ते भवन्ति ॥१३॥

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।

स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् ॥१४॥

पुरुष एवेदँ सर्वं यद् भूतं यच्च भव्यम् ।

उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥१५॥

सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् ।

सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥१६॥

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।

सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृत् ॥१७॥

नवद्वारे पुरे देही हंसो लेलायते बहिः ।

वशी सर्वस्य लोकस्य स्थावरस्य चरस्य च ॥१८॥

अपाणिपादो जवनो ग्रहीता

पश्यत्यचक्षुः स शृणोत्यकर्णः ।

स वेत्ति वेद्यं न च तस्यास्ति वेत्ता

तमाहुरग्र्यं पुरुषं महान्तम् ॥१९॥

अणोरणीयान् महतो महीया-

नात्मा गुहायां निहितोऽस्य जन्तोः ।

तमक्रतुः पश्यति वीतशोको

धातुः प्रसादान्महिमानमीशम् ॥२०॥

वेदाहमेतमजरं पुराणं

सर्वात्मानं सर्वगतं विभुत्वात् ।

जन्मनिरोधं प्रवदन्ति यस्य

ब्रह्मवादिनो हि प्रवदन्ति नित्यम् ॥२१॥

चतुर्थोऽध्यायः ।

य एकोऽवर्णो बहुधा शक्तियोगाद्

वरणाननेकान् निहितार्थो दधाति ।

विचैति चान्ते विश्वमादौ च देवः

स नो बुद्ध्या शुभया संयुनक्तु ॥१॥

तदेवाग्निस्तदादित्य-

स्तद्वायुस्तदु चन्द्रमाः ।

तदेव शुक्रं तद् ब्रह्म

तदापस्तत् प्रजापतिः ॥२॥

त्वं स्त्री पुमानसि

त्वं कुमार उत वा कुमारी ।

त्वं जीर्णो दण्डेन वञ्चसि

त्वं जातो भवसि विश्वतोमुखः ॥३॥

नीलः पतङ्गो हरितो लोहिताक्ष-

स्तडिद्गर्भ ऋतवः समुद्राः ।

अनादिमत् त्वं विभुत्वेन वर्तसे

यतो जातानि भुवनानि विश्वा ॥४॥

अजामेकां लोहितशुक्लकृष्णां

बह्वीः प्रजाः सृजमानां सरूपाः ।

अजो ह्येको जुषमाणोऽनुशेते

जहात्येनां भुक्तभोगामजोऽन्यः ॥५॥

द्वा सुपर्णा सयुजा सखाया

समानं वृक्षं परिषस्वजाते ।

तयोरन्यः पिप्पलं स्वाद्वत्त्यन-

श्नन्नन्यो अभिचाकशीति ॥६॥

समाने वृक्षे पुरुषो निमग्नोऽ-

नीशया शोचति मुह्यमानः ।

जुष्टं यदा पश्यत्यन्यमीशमस्य

महिमानमिति वीतशोकः ॥७॥

ऋचो अक्षरे परमे व्योमन्

यस्मिन्देवा अधि विश्वे निषेदुः ।

यस्तं न वेद किमृचा करिष्यति

य इत्तद्विदुस्त इमे समासते ॥८॥

छन्दांसि यज्ञाः क्रतवो व्रतानि

भूतं भव्यं यच्च वेदा वदन्ति ।

अस्मान् मायी सृजते विश्वमेत-

त्तस्मिंश्चान्यो मायया सन्निरुद्धः ॥९॥

मायां तु प्रकृतिं विद्यान्मायिनं च महेश्वरम् ।

तस्यवयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥ १० ॥

यो योनिं योनिमधितिष्ठत्येको

यस्मिन्निद.म् सं च विचैति सर्वम् ।

तमीशानं वरदं देवमीड्यं

निचाय्येमां शान्तिमत्यन्तमेति ॥११॥

यो देवानां प्रभवश्चोद्भवश्च

विश्वाधिपो रुद्रो महर्षिः ।

हिरण्यगर्भं पश्यत जायमानं

स नो बुद्ध्या शुभया संयुनक्तु ॥१२॥

यो देवानामधिपो

यस्मिन्ल्लोका अधिश्रिताः ।

य ईशे अस्य द्विपदश्चतुष्पदः

कस्मै देवाय हविषा विधेम ॥१३॥

सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये

विश्वस्य स्रष्ठारमनेकरूपम् ।

विश्वस्यैकं परिवेष्टितारं

ज्ञात्वा शिवं शान्तिमत्यन्तमेति ॥१४॥

स एव काले भुवनस्य गोप्ता

विश्वाधिपः सर्वभूतेषु गूढः ।

यस्मिन् युक्ता ब्रह्मर्षयो देवताश्च

तमेवं ज्ञात्वा मृत्युपाशांश्छिनत्ति ॥१५॥

घृतात् परं मण्डमिवातिसूक्ष्मं

ज्ञात्वा शिवं सर्वभूतेषु गूढम् ।

विश्वस्यैकं परिवेष्टितारं

ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥१६॥

एष देवो विश्वकर्मा महात्मा

सदा जनानां हृदये सन्निविष्टः ।

हृदा मनीषा मनसाभिक्लृप्तो

य एतद् विदुरमृतास्ते भवन्ति ॥१७॥

यदाऽतमस्तान्न दिवा न रात्रिः

न सन्नचासच्छिव एव केवलः ।

तदक्षरं तत् सवितुर्वरेण्यं

प्रज्ञा च तस्मात् प्रसृता पुराणी ॥१८॥

नैनमूर्ध्वं न तिर्यञ्चं

न मध्ये न परिजग्रभत् ।

न तस्य प्रतिमा अस्ति

यस्य नाम महद् यशः ॥१९॥

न संदृशे तिष्ठति रूपमस्य

न चक्षुषा पश्यति कश्चनैनम् ।

हृदा हृदिस्थं मनसा य एन-

मेवं विदुरमृतास्ते भवन्ति ॥२०॥

अजात इत्येवं कश्चिद्भीरुः प्रपद्यते ।

रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्यम् ॥२१॥

मा नस्तोके तनये मा न आयुषि

मा नो गोषु मा न अश्वेषु रीरिषः ।

वीरान् मा नो रुद्र भामितो

वधीर्हविष्मन्तः सदामित् त्वा हवामहे ॥२२॥

पञ्चमोऽध्यायः ।

द्वे अक्षरे ब्रह्मपरे त्वनन्ते

विद्याविद्ये निहिते यत्र गूढे ।

क्षरं त्वविद्या ह्यमृतं तु विद्या

विद्याविद्ये ईशते यस्तु सोऽन्यः ॥१॥

यो योनिं योनिमधितिष्ठत्येको

विश्वानि रूपाणि योनीश्च सर्वाः ।

ऋषिं प्रसूतं कपिलं यस्तमग्रे

ज्ञानैर्बिभर्ति जायमानं च पश्येत् ॥२॥

एकैक जालं बहुधा विकुर्व-

न्नस्मिन् क्षेत्रे संहरत्येष देवः ।

भूयः सृष्ट्वा पतयस्तथेशः

सर्वाधिपत्यं कुरुते महात्मा ॥३॥

सर्वा दिश ऊर्ध्वमधश्च तिर्यक्

प्रकाशयन् भ्राजते यद्वनड्वान् ।

एवं स देवो भगवान् वरेण्यो

योनिस्वभावानधितिष्ठत्येकः ॥४॥

यच्च स्वभावं पचति विश्वयोनिः

पाच्यांश्च सर्वान् परिणामयेद् यः ।

सर्वमेतद् विश्वमधितिष्ठत्येको

गुणांश्च सर्वान् विनियोजयेद् यः ॥५॥

तद् वेदगुह्योपनिषत्सु गूढं

तद् ब्रह्मा वेदते ब्रह्मयोनिम् ।

ये पूर्वं देवा ऋषयश्च तद् विदु-

स्ते तन्मया अमृता वै बभूवुः ॥६ ॥

गुणान्वयो यः फलकर्मकर्ता

कृतस्य तस्यैव स चोपभोक्ता ।

स विश्वरूपस्त्रिगुणस्त्रिवर्त्मा

प्राणाधिपः सञ्चरति स्वकर्मभिः ॥७॥

अङ्गुष्ठमात्रो रवितुल्यरूपः

सङ्कल्पाहङ्कारसमन्वितो यः ।

बुद्धेर्गुणेनात्मगुणेन चैव

आराग्रमात्रोऽप्यपरोऽपि दृष्टः ॥८॥

बालाग्रशतभागस्य शतधा कल्पितस्य च ।

भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥९॥

नैव स्त्री न पुमानेष न चैवायं नपुंसकः ।

यद्यच्छरीरमादत्ते तेने तेने स युज्यते ॥ १० ॥

सङ्कल्पनस्पर्शनदृष्टिमोहै-

र्ग्रासांबुवृष्ट्यात्मविवृद्धिजन्म ।

कर्मानुगान्यनुक्रमेण देही

स्थानेषु रूपाण्यभिसम्प्रपद्यते ॥११॥

स्थूलानि सूक्ष्माणि बहूनि चैव

रूपाणि देही स्वगुणैर्वृणोति ।

क्रियागुणैरात्मगुणैश्च तेषां

संयोगहेतुरपरोऽपि दृष्टः ॥१२॥

अनाद्यनन्तं कलिलस्य मध्ये

विश्वस्य स्रष्ठारमनेकरूपम् ।

विश्वस्यैकं परिवेष्टितारं

ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥१३॥

भावग्राह्यमनीडाख्यं भावाभावकरं शिवम् ।

कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ॥१४॥

षष्ठोऽध्यायः ।

स्वभावमेके कवयो वदन्ति

कालं तथान्ये परिमुह्यमानाः ।

देवस्यैष महिमा तु लोके

येनेदं भ्राम्यते ब्रह्मचक्रम् ॥१॥

येनावृतं नित्यमिदं हि सर्वं ज्ञः

कालकारो गुणी सर्वविद् यः ।

तेनेशितं कर्म विवर्तते ह

पृथिव्यप्तेजोनिलखानि चिन्त्यम् ॥२॥

तत्कर्म कृत्वा विनिवर्त्य भूय-

स्तत्त्वस्य तावेन समेत्य योगम् ।

एकेन द्वाभ्यां त्रिभिरष्टभिर्वा

कालेन चैवात्मगुणैश्च सूक्ष्मैः ॥३॥

आरभ्य कर्माणि गुणान्वितानि

भावांश्च सर्वान् विनियोजयेद्यः ।

तेषामभावे कृतकर्मनाशः

कर्मक्षये याति स तत्त्वतोऽन्यः ॥४॥

आदिः स संयोगनिमित्तहेतुः

परस्त्रिकालादकलोऽपि दृष्टः ।

तं विश्वरूपं भवभूतमीड्यं

देवं स्वचित्तस्थमुपास्य पूर्वम् ॥५॥

स वृक्षकालाकृतिभिः परोऽन्यो

यस्मात् प्रपञ्चः परिवर्ततेऽयम् ।

धर्मावहं पापनुदं भगेशं

ज्ञात्वात्मस्थममृतं विश्वधाम ॥६॥

तमीश्वराणां परमं महेश्वरं

तं देवतानां परमं च दैवतम् ।

पतिं पतीनां परमं परस्ताद्-

विदाम देवं भुवनेशमीड्यम् ॥७॥

न तस्य कार्यं करणं च विद्यते

न तत्समश्चाभ्यधिकश्च दृश्यते ।

परास्य शक्तिर्विविधैव श्रूयते

स्वाभाविकी ज्ञानबलक्रिया च ॥८॥

न तस्य कश्चित् पतिरस्ति लोके

न चेशिता नैव च तस्य लिङ्गम् ।

स कारणं करणाधिपाधिपो

न चास्य कश्चिज्जनिता न चाधिपः ॥९॥

यस्तन्तुनाभ इव तन्तुभिः प्रधानजैः स्वभावतः ।

देव एकः स्वमावृणोति स नो दधातु ब्रह्माप्ययम् ॥ १० ॥

एको देवः सर्वभूतेषु गूढः

सर्वव्यापी सर्वभूतान्तरात्मा.

कर्माध्यक्षः सर्वभूताधिवासः

साक्षी चेता केवलो निर्गुणश्च ॥११॥

एको वशी निष्क्रियाणां बहूना-

मेकं बीजं बहुधा यः करोति ।

तमात्मस्थं येऽनुपश्यन्ति धीरा-

स्तेषां सुखं शाश्वतं नेतरेषाम् ॥१२॥

नित्यो नित्यानां चेतनश्चेतनाना-

मेको बहूनां यो विदधाति कामान् ।

तत्कारणं सांख्ययोगाधिगम्यं

ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥१३॥

न तत्र सूर्यो भाति न चन्द्रतारकं

नेमा विद्युतो भान्ति कुतोऽयमग्निः ।

तमेव भान्तमनुभाति सर्वं

तस्य भासा सर्वमिदं विभाति ॥१४॥

एको हंसः भुवनस्यास्य मध्ये

स एवाग्निः सलिले संनिविष्टः ।

तमेव विदित्वा अतिमृत्युमेति

नान्यः पन्था विद्यतेऽयनाय ॥१५॥

स विश्वकृद् विश्वविदात्मयोनि-

र्ज्ञः कालकालो गुणी सर्वविद् यः ।

प्रधानक्षेत्रज्ञपतिर्गुणेशः

संसारमोक्षस्थितिबन्धहेतुः ॥१६॥

स तन्मयो ह्यमृत ईशसंस्थो

ज्ञः सर्वगो भुवनस्यास्य गोप्ता ।

य ईशेऽस्य जगतो नित्यमेव

नान्यो हेतुर्विद्यत ईशनाय ॥१७॥

यो ब्रह्माणं विदधाति पूर्वं

यो वै वेदांश्च प्रहिणोति तस्मै ।

तं ह देवं आत्मबुद्धिप्रकाशं

मुमुक्षुर्वै शरणमहं प्रपद्ये ॥१८॥

निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् ।

अमृतस्य परं सेतुं दग्धेन्दनमिवानलम् ॥१९॥

यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।

तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ॥२०॥

तपःप्रभावाद् देवप्रसादाच्च

ब्रह्म ह श्वेताश्वतरोऽथ विद्वान् ।

अत्याश्रमिभ्यः परमं पवित्रं

प्रोवाच सम्यगृषिसङ्घजुष्टम् ॥२१॥

वेदान्ते परमं गुह्यं पुराकल्पे प्रचोदितम् ।

नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः ॥२२॥

यस्य देवे परा भक्तिः यथा देवे तथा गुरौ ।

तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥२३॥

प्रकाशन्ते महात्मन इति ।

ॐ सह नाववतु ।

सह नौ भुनक्तु ।

सह वीर्यं करवावहै ।

तेजस्वि नावधीतमस्तु ।

मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

N/A

N/A
Last Updated : December 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP