संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
वासुदेवोपनिषत्

वासुदेवोपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.

Upanishad are highly philosophical and metaphysical part of Vedas.


॥ वासुदेवोपनिषत् ॥

यत्सर्वहृदयागारं यत्र सर्वं प्रतिष्ठितम् । वस्तुतो यन्निराधारं वासुदेवपदं भजे ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च ॥

सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम- स्त्वनिराकरणं

मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ नमस्कृत्य भगवान्नारदः सर्वेश्वरं वासुदेवं पप्रच्छ अधीहि भगवन्नूर्ध्वपुण्ड्रविधिं द्रव्यमन्त्रस्थानादिसहितं मे ब्रूहीति ।

तं होवाच भगवान्वासुदेवो वैकुण्ठस्थानादुत्पन्नं मम प्रीतिकरं मद्भक्तैर्ब्रह्मादिभिर्धारितं विष्णुचन्दनं ममाङ्गे प्रतिदिनमालिप्तं

गोपीभिः प्रक्षालनाद्गोपीचन्दन- माख्यातं मदङ्गलेपनं पुण्यं चक्रतीर्थान्तःस्थितं चक्रसमायुक्तं पीतवर्णं मुक्तिसाधनं भवति ।

अथ गोपीचन्दनं नमस्कृत्वोद्धृत्य । गोपीचन्दन पापघ्न विष्णुदेहसमुद्भव । चक्राङ्कित नमस्तुभ्यं धारणान्मुक्तिदो भव ।

इमं मे गङ्गे इति जलमादाय विष्णोर्नुकमिति मर्दयेत् । अतो देवा अवन्तु न इत्येतन्मन्त्रैर्विष्णुगायत्र्या केशवादि- नामभिर्वा धारयेत् ।

ब्रह्मचारी वानप्रस्थो वा ललाटहृदयकण्ठबाहूमूलेषु वैष्णवगायत्र्या कृष्णादिनामभिर्वा धारयेत् ।

इति त्रिवारमभिमन्त्र्य शङ्खचक्रगदापाणे द्वारकानिलयाच्युत । गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागतम् ।

इति ध्यात्वा गृहस्थो ललाटादिद्वादशस्थलेष्वनामिकाङ्गुल्या वैष्णवगायत्र्या केशवादिनामभिर्वा धारयेत् ।

ब्रह्मचारी गृहस्थो वा ललाटहृदयकण्ठबाहूमूलेषु वैष्णवगायत्र्या कृष्णादिनामभिर्वा धारयेत् ।

यतिस्तर्जन्या शिरोललाटहृदयेषु प्रणवेनैव धारयेत् ।

ब्रह्मादयस्त्रयो मूर्तयस्तिस्रो व्याहृतयस्त्रीणि छन्दांसि त्रयोऽग्नय इति ज्योतिष्मन्तस्त्रयः कालास्तिस्रोऽवस्थास्त्रय आत्मानः

पुण्ड्रात्रय ऊर्ध्वा अकार उकारो मकार एते प्रणवमयोर्ध्वपुण्ड्रास्तदात्मा सदेतदोमिति । तानेकधा समभवत् ।

ऊर्ध्वमुन्नमयत इत्योङ्काराधिकारी । तस्मादूर्ध्वपुण्ड्रं धारयेत् । परमहंसो ललाटे प्रणवेनैकमूर्ध्वपुण्ड्रं वा धारयेत् ।

तत्त्वप्रदीपप्रकाशं स्वात्मानं पश्यन्योगी मत्सायुज्यमवाप्नोति । अथ वा न्यस्तहृदयपुण्ड्रमध्ये वा हृदयकमलमध्ये वा ।

तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता । नीलतोयदमध्यस्थाद्विद्युल्लेखेव भास्वरा ।

नीवारशूकवत्तन्वी परमात्मा व्यवस्थित इति । अतः पुण्ड्रस्थं हृदयपुण्डरीकेषु तमभ्यसेत् ।

क्रमादेवं स्वात्मानं भावयेन्मां परं हरिम् । एकाग्रमनसा यो मां ध्यायते हरिमव्ययम् ।

हृत्पङ्कजे च स्वात्मानं स मुक्तो नात्र संशयः । मद्रूपमद्वयं ब्रह्म आदिमध्यान्तवर्जितम् ।

स्वप्रभं सच्चिदानन्दं भक्त्या जानाति चाव्ययम् । एको विष्णुरनेकेएषु जङ्गमस्थावरेषु च ।

अनुस्युतो वसत्यात्मा भूतेष्वहमवस्थितः । तैलं तिलेषु काष्ठेषु वह्निः क्षीरे घृतं यथा ।

गन्धः पुष्पेषु भूतेषु तथात्मावस्थितो ह्यहम् । ब्रह्मरन्ध्रे भ्रुवोर्मध्ये हृदये चिद्रविं हरिम् ।

गोपीचन्दनमालिप्य तत्र ध्यात्वाप्नुयात्परम् । ऊर्ध्वदण्डोर्ध्वरेताश्च ऊर्ध्वपुण्ड्रोर्ध्वयोगवान् ।

ऊर्ध्वं पदमवाप्नोति यतिरूर्ध्वचतुष्कवान् । इत्येतन्निश्चितं ज्ञानं मद्भक्त्या सिध्यति स्वयम् ।

नित्यमेकाग्रभक्तिः स्याद्गोपीचन्दनधारणात् । ब्राह्माणानां तु सर्वेषां वैदिकानामनुत्तमम् ।

गोपीचन्दनवारिभ्यामूर्ध्वपुण्ड्रं विधीयते । यो गोपीचन्दनाभावे तुलसीमूलमृत्तिकाम् ।

मुमुक्षुर्धारयेन्नित्यमपरोक्षात्मसिद्धये ।

अतिरात्राग्निहोत्रभस्मनाग्नेर्भसितमिदंविष्णुस्त्रीणि पदेति मन्त्रैर्वैष्णवगायत्र्या प्रणवेनोद्धूलनं कुर्यात् ।

एवं विधिना गोपीचन्दनं च धारयेत् । यस्त्वधीते वा स सर्वपातकेभ्यः पूतो भवति ।

पापबुद्धिस्तस्य न जायते । स सर्वेषु तीर्थेषु स्नातो भवति । स सर्वैर्यज्ञैर्याजितो भवति । स सर्वैर्देवैः पूज्यो भवति ।

श्रीमन्नारायणे मय्यचञ्चला भक्तिश्च भवति । स सम्यग्ज्ञानं च लब्ध्वा विष्णुसायुज्यमवाप्नोति ।

न च पुनरावर्तते न च पुनरावर्तते इत्याह भगवान्वासुदेवः । यस्त्वेतद्वाधीते सोऽप्येवमेव भवतीत्यों सत्यमित्युपनिषत् ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिद्रियाणि च ॥

सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकणं मेस्तु

तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥

॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इति वासुदेवोपनिषत्समाप्ता ॥

N/A

N/A
Last Updated : December 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP