संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
वज्रसूचिका उपनिषद्

वज्रसूचिका उपनिषद्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.

Upanishad are highly philosophical and metaphysical part of Vedas.


॥ वज्रसूचिका उपनिषद् ॥ साम वेद,सामान्य उपनिषद्

॥ श्री गुरुभ्यो नमः हरिः ॐ ॥

यज्ञ्ज्ञानाद्यान्ति मुनयो ब्राह्मण्यं परमाद्भुतम् ।

तत्रैपद्ब्रह्मतत्त्वमहमस्मीति चिंतये ॥

ॐ आप्यायन्त्विति शान्तिः ॥

चित्सदानन्दरूपाय सर्वधीवृत्तिसाक्षिणे ।

नमो वेदान्तवेद्याय ब्रह्मणेऽनन्तरूपिणे ॥

ॐ वज्रसूचीं प्रवक्ष्यामि शास्त्रमज्ञानभेदनम् ।

दूषणं ज्ञानहीनानां भूषणं ज्ञानचक्षुषाम् ॥१॥

ब्राह्मक्षत्रियवैष्यशूद्रा इति चत्वारो वर्णास्तेषां वर्णानां ब्राह्मण एव

प्रधान इति वेदवचनानुरूपं स्मृतिभिरप्युक्तम् ।

तत्र चोद्यमस्ति को वा ब्राह्मणो नाम किं जीवः किं देहः किं जातिः किं

ज्ञानं किं कर्म किं धार्मिक इति ॥

तत्र प्रथमो जीवो ब्राह्मण इति चेत् तन्न ।

अतीतानागतानेकदेहानां

जीवस्यैकरूपत्वात् एकस्यापि कर्मवशादनेकदेहसंभवात् सर्वशरीराणां

जीवस्यैकरूपत्वाच्च ।

तस्मात् न जीवो ब्राह्मण इति ॥

तर्हि देहो ब्राह्मण इति चेत् तन्न ।

आचाण्डालादिपर्यन्तानां मनुष्याणां

पञ्चभौतिकत्वेन देहस्यैकरूपत्वात्

जरामरणधर्माधर्मादिसाम्यदर्शनत् ब्राह्मणः श्वेतवर्णः क्षत्रियो

रक्तवर्णो वैश्यः पीतवर्णः शूद्रः कृष्णवर्णः इति नियमाभावात् ।

पित्रादिशरीरदहने पुत्रादीनां ब्रह्महत्यादिदोषसंभवाच्च ।

तस्मात् न देहो ब्राह्मण इति ॥

तर्हि जाति ब्राह्मण इति चेत् तन्न ।

तत्र

जात्यन्तरजन्तुष्वनेकजातिसंभवात् महर्षयो बहवः सन्ति ।

ऋष्यशृङ्गो मृग्याः,कौशिकः कुशात्,जाम्बूको जाम्बूकात्,वाल्मीको

वाल्मीकात्,व्यासः कैवर्तकन्यकायाम्,शशपृष्ठात् गौतमः

वसिष्ठ उर्वश्याम्,अगस्त्यः कलशे जात इति शृतत्वात् ।

एतेषां

जात्या विनाप्यग्रे ज्ञानप्रतिपादिता ऋषयो बहवः सन्ति ।

तस्मात्

न जाति ब्राह्मण इति ॥

तर्हि ज्ञानं ब्राह्मण इति चेत् तन्न ।

क्षत्रियादयोऽपि

परमार्थदर्शिनोऽभिज्ञा बहवः सन्ति ।

तस्मात् न ज्ञानं ब्राह्मण इति ॥

तर्हि कर्म ब्राह्मण इति चेत् तन्न ।

सर्वेषां प्राणिनां

प्रारब्धसञ्चितागामिकर्मसाधर्म्यदर्शनात्कर्माभिप्रेरिताः सन्तो जनाः

क्रियाः कुर्वन्तीति ।

तस्मात् न कर्म ब्राह्मण इति ॥

तर्हि धार्मिको ब्राह्मण इति चेत् तन्न ।

क्षत्रियादयो हिरण्यदातारो बहवः

सन्ति ।

तस्मात् न धार्मिको ब्राह्मण इति ॥

तर्हि को वा ब्रह्मणो नाम ।

यः कश्चिदात्मानमद्वितीयं जातिगुणक्रियाहीनं

षडूर्मिषड्भावेत्यादिसर्वदोषरहितं सत्यज्ञानानन्दानन्तस्वरूपं

स्वयं निर्विकल्पमशेषकल्पाधारमशेषभूतान्तर्यामित्वेन

वर्तमानमन्तर्यहिश्चाकाशवदनुस्यूतमखण्डानन्दस्वभावमप्रमेयं

अनुभवैकवेद्यमपरोक्षतया भासमानं करतळामलकवत्साक्षादपरोक्षीकृत्य

कृतार्थतया कामरागादिदोषरहितः शमदमादिसंपन्नो भाव मात्सर्य

तृष्णा आशा मोहादिरहितो दम्भाहङ्कारदिभिरसंस्पृष्टचेता वर्तत

एवमुक्तलक्षणो यः स एव ब्राह्मणेति शृतिस्मृतीतिहासपुराणाभ्यामभिप्रायः

अन्यथा हि ब्राह्मणत्वसिद्धिर्नास्त्येव ।

सच्चिदानान्दमात्मानमद्वितीयं ब्रह्म भावयेदित्युपनिषत् ॥

ॐ आप्यायन्त्विति शान्तिः ॥

॥ इति वज्रसूच्युपनिषत्समाप्ता ॥

॥ भारतीरमणमुख्यप्राणंतर्गत श्रीकृष्णार्पणमस्तु ॥

N/A

N/A
Last Updated : December 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP