संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
चाक्षुषोपनिषत्

चाक्षुषोपनिषत्

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic


अस्याश्वक्षुषी विद्यायाः अहिर्बुध्न्य ऋषिः । गायत्री छंदः । सूर्योदेवता । चक्षूरोगनिवृत्तये विनियोगः । ॐ चक्षुः चक्षुः चक्षुः तेजस्थिरोभव । मां पाहि पाहि । त्वरितम् चक्षूरोगान् शमय शमय । ममाजातरूपं तेजो दर्शय दर्शय । यथाहमंधोनस्यां तथा कल्पय कल्पय । कल्याण कुरु कुरु । यानि मम पूर्वजन्मोपार्जितानि चक्षुः प्रतिरोधक दुष्कृतानि सर्वाणि निर्मूलय निर्मूलय । ॐ नमश्चक्षुस्तेजोदात्रे दिव्याय भास्कराय । ॐ नमः कल्याणकराय अमृताय । ॐ नमः सूर्याय । ॐ नमो भगवते सूर्याय अक्षितेजसे नमः । खेचराय नमः । महते नमः । रजसे नमः । तमसे नमः । असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । उष्णो भगवान्छुचिरूपः । हंसो भगवान् शुचिप्रतिरूपः । य इमां चाक्षुष्मतीं विद्यां ब्राह्मणो नित्यमधीयते न तस्य अक्षिरोगो भवति । न तस्य कुले अंधो भवति । न तस्य कुले अंधो भवति । अष्टौ ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिर्भवति । विश्वरूपं घृणिनं जातवेदसं हिरण्मयं पुरुषं ज्योतीरूपं तपंतं सहस्ररश्मिः शतधावर्तमानः पुरःप्रजानामुदयत्येष सूर्यः । ॐ नमो भगवते आदित्याय ।
चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः । चक्षुर्धाता दधातु नः । चक्षुर्नो धेहि चक्षुषे चक्षुर्विख्ये तनूच्यः । संचेदं विच पश्येम । सुसंदृशंत्वा वयं प्रति पश्येम सूर्य । विपश्येम नृचक्षसः ॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP