संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
केन उपनिषद्

केन उपनिषद्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोंचविणारी विद्या म्हणजे उपनिषद् .

Upanishad are highly philosophical and metaphysical part of Vedas.


साम वेद, मुख्य उपनिषद्

॥ अथ केनोपनिषत् ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः

श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।

सर्वं ब्रह्मौपनिषदं

माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म

निराकारोदनिराकरणमस्त्वनिराकरणं मेऽस्तु ।

तदात्मनि निरते य

उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ केनेषितं पतति प्रेषितं मनः

केन प्राणः प्रथमः प्रैति युक्तः ।

केनेषितां वाचमिमां वदन्ति

चक्षुः श्रोत्रं क उ देवो युनक्ति ॥१॥

श्रोत्रस्य श्रोत्रं मनसो मनो यद्

वाचो ह वाचं स उ प्राणस्य प्राणः ।

चक्षुषश्चक्षुरतिमुच्य धीराः

प्रेत्यास्माल्लोकादमृता भवन्ति ॥२॥

न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः ।

न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥३॥

अन्यदेव तद्विदितादथो अविदितादधि ।

इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥४॥

यद्वाचाऽनभ्युदितं येन वागभ्युद्यते ।

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥५॥

यन्मनसा न मनुते येनाहुर्मनो मतम् ।

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥६॥

यच्चक्षुषा न पश्यति येन चक्षूँषि पश्यति ।

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥७॥

यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् ।

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥८॥

यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते ।

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥९॥

॥ इति केनोपनिषदि प्रथमः खण्डः ॥

यदि मन्यसे सुवेदेति दहरमेवापि

नूनं त्वं वेत्थ ब्रह्मणो रूपम् ।

यदस्य त्वं यदस्य देवेष्वथ नु

मीमाँस्येमेव ते मन्ये विदितम् ॥१॥

नाहं मन्ये सुवेदेति नो न वेदेति वेद च ।

यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥२॥

यस्यामतं तस्य मतं मतं यस्य न वेद सः ।

अविज्ञातं विजानतां विज्ञातमविजानताम् ॥३॥

प्रतिबोधविदितं मतममृतत्वं हि विन्दते ।

आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥४॥

इह चेदवेदीदथ सत्यमस्ति

न चेदिहावेदीन्महती विनष्टिः ।

भूतेषु भूतेषु विचित्य धीराः

प्रेत्यास्माल्लोकादमृता भवन्ति ॥५॥

॥ इति केनोपनिषदि द्वितीयः खण्डः ॥

ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो

विजये देवा अमहीयन्त ॥१॥

त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ।

तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत

किमिदं यक्षमिति ॥२॥

तेऽग्निमब्रुवञ्जातवेद एतद्विजानीहि

किमिदं यक्षमिति तथेति ॥३॥

तदभ्यद्रवत्तमभ्यवदत्कोऽसीत्यग्निर्वा

अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥४॥

तस्मिँस्त्वयि किं वीर्यमित्यपीदँ सर्वं

दहेयं यदिदं पृथिव्यामिति ॥५॥

तस्मै तृणं निदधावेतद्दहेति ।

तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव

निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥६॥

अथ वायुमब्रुवन्वायवेतद्विजानीहि

किमेतद्यक्षमिति तथेति ॥७॥

तदभ्यद्रवत्तमभ्यवदत्कोऽसीति वायुर्वा

अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ॥८॥

तस्मिँस्त्वयि किं वीर्यमित्यपीदँ

सर्वमाददीय यदिदं पृथिव्यामिति ॥९॥

तस्मै तृणं निदधावेतदादत्स्वेति

तदुपप्रेयाय सर्वजवेन तन्न शशाकादतुं स तत एव

निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥१०॥

अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति

तदभ्यद्रवत्तस्मात्तिरोदधे ॥११॥

स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमाँ

हैमवतीं ताँहोवाच किमेतद्यक्षमिति ॥१२॥

॥ इति केनोपनिषदि तृतीयः खण्डः ॥

सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति

ततो हैव विदाञ्चकार ब्रह्मेति ॥१॥

तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्रस्ते

ह्येनन्नेदिष्ठं पस्पर्शुस्ते ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥२॥

तस्माद्वा इन्द्रोऽतितरामिवान्यान्देवान्स

ह्येनन्नेदिष्ठं पस्पर्श स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥३॥

तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा इतीन् न्यमीमिषदा

न्यमीमिषदा न्यमीमिषदा इत्यधिदैवतम् ॥४॥

अथाध्यात्मं यद्देतद्गच्छतीव च मनोऽनेन

चैतदुपस्मरत्यभीक्ष्णँ सङ्कल्पः ॥५॥

तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभि

हैनँ सर्वाणि भूतानि संवाञ्छन्ति ॥६॥

उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव त

उपनिषदमब्रूमेति ॥७॥

तसै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि

सत्यमायतनम् ॥८॥

यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे

लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥९॥

॥ इति केनोपनिषदि चतुर्थः खण्डः ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः

श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।

सर्वं ब्रह्मौपनिषदं

माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म

निराकारोदनिराकरणमस्त्वनिराकरणं मेऽस्तु ।

तदात्मनि निरते य

उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।

ॐ शान्तिः शान्तिः शान्तिः ॥

॥ इति केनोपनिषद् ॥

N/A

N/A
Last Updated : December 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP