संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
दक्षिणामूर्त्युपनिषत्

दक्षिणामूर्त्युपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.

Upanishad are highly philosophical and metaphysical part of Vedas.


॥ दक्षिणामूर्त्युपनिषत् ॥ कृष्ण यजुर्वेद,शैव उपनिषद्

यन्मौनव्याख्यया मौनिपटलं क्षणमात्रतः ।

महामौनपदं याति स हि मे परमा गतिः ॥

ॐ सह नाववतु ।

सह नौ भुनक्तु ।

सह वीर्यं करवावहै ।

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ ब्रह्मावर्ते महाभाण्डीरवटमूले महासत्राय समेता

महर्षयः शौनकादयस्ते ह समित्पाणयस्तत्त्वजिज्ञासवो

मार्कण्डेयं चिर~जीविनमुपसमेत्य पप्रच्छुः केन त्वं

चिरं जीवसि केन वानन्दमनुभवसीति ।

परमरहस्यशिव-

तत्त्वज्ञानेनेति स होवाच ।

किं तत्परमरहस्यशिवतत्त्वज्ञानम् ।

तत्र को देवः ।

के मन्त्राः ।

को जपः ।

का मुद्रा ।

का निष्ठा ।

किं तज्ज्ञानसाधनम् ।

कः परिकरः ।

को बलिः ।

कः कालः ।

किं तत्स्थानमिति ।

स होवाच ।

येन दक्षिणामुखः शिवोऽपरोक्षीकृतो

भवति तत्परमरहस्यशिवतत्त्वज्ञानम् ।

यः सर्वोपरमे काले

सर्वानात्मन्युपसंहृत्य स्वात्मानन्दसुखे मोदते प्रकाशते

वा स देवः ।

अत्रैते मन्त्ररहस्यश्लोका भवन्ति ।

मेधा

दक्षिणामूर्तिमन्त्रस्य ब्रह्मा ऋषिः ।

गायत्री छन्दः ।

देवता दक्षिणास्यः ।

मन्त्रेणाङ्गन्यासः ।

ॐ आदौ नम उच्चार्य

ततो भगवते पदम् ।

दक्षिणेति पदं पश्चान्मूर्तये पदमुद्धरेत् ॥१॥

अस्मच्छब्दं चतुर्थ्यन्तं मेधां प्रज्ञां पदं वदेत् ।

समुच्चार्य ततो वायुबीजं च्छं च ततः पठेत् ।

अग्निजायां ततस्त्वेष चतुर्विंशाक्षरो मनुः ॥२॥

ध्यानम् ॥

स्फटिकरजतवर्णं मौक्तिकीमक्षमाला-

ममृतकलशविद्यां ज्ञानमुद्रां कराग्रे ।

दधतमुरगकक्ष्यं चन्द्रचूडं त्रिनेत्रं

विधृतविविधभूषं दक्षिणामूर्तिमीडे ॥३॥

मन्त्रेण न्यासः ।

आदौ वेदादिमुच्चार्य स्वराद्यं सविसर्गकम् ।

पञ्चार्णं तत उद्धृत्य अन्तरं सविसर्गकम् ।

अन्ते समुद्धरेत्तारं मनुरेष नवाक्षरः ॥४॥

मुद्रां भद्रार्थदात्रीं स परशुहरिणं बाहुभिर्बाहुमेकं

जान्वासक्तं दधानो भुजगबिलसमाबद्धकक्ष्यो वटाधः ।

आसीनश्चन्द्रखण्डप्रतिघटितजटाक्षीरगौरस्त्रिनेत्रो

दद्यादाद्यः शुकाद्यैर्मुनिभिरभिवृतो भावशुद्धिं भवो नः ॥५॥

मन्त्रेण न्यासः ब्रह्मर्षिन्यासः -

तारं ब्रूंनम उच्चार्य मायां वाग्भवमेव च ।

दक्षिणापदमुच्चार्य ततः स्यान्मूर्तये पदम् ॥६॥

ज्ञानं देहि पदं पश्चाद्वह्निजायां ततो न्यसेत् ।

मनुरष्टादशार्णोऽयं सर्वमन्त्रेषु गोपितः ॥७॥

भस्मव्यापाण्डुरङ्गः शशिशकलधरो ज्ञानमृद्राक्षमाला-

वीणापुस्तैर्विराजत्करकमलधरो योगपट्टाभिरामः ।

व्याख्यापीठे निषण्णो मुनिवरनिकरैः सेव्यमानः प्रसन्नः

सव्यालः कृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः ॥८॥

मन्त्रेण न्यासः ।

(ब्रह्मर्षिन्यासः )

तारं परं रमाबीजं वदेत्सांबशिवाय च ।

तुभ्यं चानलजायां मनुर्द्वादशवर्णकः ॥९॥

वीणां करैः पुस्तकमक्षमालां

बिभ्राणमभ्राभगलं वराढ्यम् ।

फणीन्द्रकक्ष्यं मुनिभिः शुकाद्यैः

सेव्यं वटाधः कृतनीडमीडे ॥१०॥

विष्णू ऋषिरनुष्टुप् छन्दः ।

देवता दक्षिणास्यः ।

मन्त्रेण न्यासः ।

तारं नमो भगवते तुभ्यं वटपदं ततः ।

मूलेति पदमुच्चार्य वासिने पदमुद्धरेत् ॥११॥

प्रज्ञामेधापदं पश्चादादिसिद्धिं ततो वदेत् ।

दायिने पदमुच्चार्य मायिने नम उद्धरेत् ॥१२॥

वागीशाय ततः पश्चान्महाज्ञानपदं ततः ।

वह्निजायां ततस्त्वेष द्वात्रिंशद्वर्णको मनुः ।

आनुष्टुभो मन्त्रराजः सर्वमन्त्रोत्तमोतमः ॥१३॥

ध्यानम् ।

मुद्रापुस्तकवह्निनागविलसद्बाहुं प्रसन्नाननं

मुक्ताहारविभूषणं शशिकलाभास्वत्किरीटोज्ज्वलम् ।

अज्ञानापहमादिमादिमगिरामर्थं भवानीपतिं

न्यग्रोधान्तनिवासिनं परगुरुं ध्यायाम्यभीष्टाप्तये ॥१४॥

मौनमुद्रा ।

सोऽहमिति यावदास्थितिः सनिष्ठा भवति ।

तदभेदेन मन्त्राम्रेडनं ज्ञानसाधनम् ।

चित्ते तदेकतानता परिकरः ।

अङ्गचेष्टार्पणं बलिः ।

त्रीणि धामानि कालः ।

द्वादशान्तपदं स्थानमिति ।

ते ह पुनः श्रद्दधानास्तं प्रत्यूचुः ।

कथं वाऽस्योदयः ।

किं स्वरूपम् ।

को वाऽस्योपासक इति ।

स होवाच ।

वैराग्यतैलसंपूर्णे भक्तिवर्तिसमन्विते ।

प्रबोधपूर्णपात्रे तु ज्ञप्तिदीपं विलोकयेत् ॥१५॥

मोहान्धकारे निःसारे उदेति स्वयमेव हि ।

वैराग्यमरणिं कृत्वा ज्ञानं कृत्वोत्तरारणिम् ॥१६॥

गाढतामिस्रसंशान्त्यै गूढमर्थं निवेदयेत् ।

मोहभानुजसंक्रान्तं विवेकाख्यं मृकण्डुजम् ॥१७॥

तत्त्वाविचारपाशेन बद्धं द्वैतभयातुरम् ।

उज्जीवयन्निजानन्दे स्वस्वरूपेण संस्थितः ॥१८॥

शेमुषी दक्षिणा प्रोक्ता सा यस्याभीक्षणे मुखम् ।

दक्षिणाभिमुखः प्रोक्तः शिवोऽसौ ब्रह्मवादिभिः ॥१९॥

सर्गादिकाले भगवान्विरिञ्चि-

रुपास्यैनं सर्गसामर्थ्यमाप्य ।

तुतोष चित्ते वाञ्छितार्थांश्च लब्ध्वा

धन्यः सोपास्योपासको भवति धाता ॥२०॥

य इमां परमरहस्यशिवतत्त्वविद्यामधीते स सर्वपापेभ्यो मुक्तो भवति ।

य एवं वेद स कैवल्यमनुभवतीत्युपनिषत् ॥

ॐ सह नाववतु ।

सह नौ भुनक्तु ।

सह वीर्यं करवावहै ।

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

इति दक्षिणामूर्त्युपनिषत्समाप्ता ॥

N/A

N/A
Last Updated : December 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP