संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
अध्यायः ०७५

खण्डः १ - अध्यायः ०७५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
मन्वन्तरे परिक्षीणे यादृशी द्विज
जायते ॥समवस्था महाभाग तादृशीं वक्तुमर्हसि ॥१॥
मार्कण्डेय उवाच॥
मन्वन्तरे परिक्षीणे देवा मन्वन्तरेश्वराः॥
महर्लोकमथासाद्य तिष्ठन्ति गतकल्मषाः ॥२॥
मनुश्च सह शक्रेण देवाश्च यदुनन्दन॥
ब्रह्मलोकं प्रपद्यन्ते पुनरावृत्तिदुर्लभम् ॥३॥
ऋषयश्च तथा सप्त तत्र तिष्ठन्ति ते सदा॥
अधिकारं विना सर्वे सदृशाः परमेष्ठिनः ॥४॥
भूतलं सकलं वज्र तोयरूपी महेश्वरः॥
ऊर्मिमाली महावेगः सर्वमावृत्य तिष्ठति ॥९॥
भूलोकमाश्रितं सर्वं तदा नश्यति यादव॥
न विनश्यन्ति राजेन्द्र विश्रुताः कुलपर्वताः ॥६॥
महेन्द्रो मलयस्सह्यः शुक्तिमानृक्षवानपि॥
विन्ध्यश्च पारियात्रश्च माल्यवान्गन्धमादनः ॥७॥
हिमवान्हेमकूटश्च निषधो नील एव च॥
श्वेतश्च शृङ्गवान्मेरुर्न विनश्यन्ति पर्वताः ॥८॥
शेषं विनश्यति जगत्स्थावरं जङ्गमं च यत्॥
नौर्भूत्वा तु सती देवी तदा यदुकुलोद्वह ! ॥९॥
धारयत्यथ बीजानि सर्वाण्येवा विशेषतः॥
भविष्यश्च मनुस्तस्यां भविष्या ऋषयस्तथा ॥१०॥
तिष्ठन्ति राजशार्दूल सप्त ये प्रथिता भुवि॥
मत्स्यरूपधरो विष्णुः शृङ्गी भूत्वा जगत्पतिः ॥११॥
आकर्षति तु तां नावं स्थानात्स्थानं स लीलया॥
कर्षमाणन्तु तां नावं देवदेवं जगत्पतिम् ॥१२॥
स्तुवन्ति ऋषयः सर्वे दिव्यैः कर्मभिरच्युतम्॥
घूर्णमानस्तदा मत्स्यो जलवेगोर्मिसंकुले ॥१३॥
घूर्णमानां तु तां नावं नयत्यमितविक्रमः॥
हिमाद्रिशिखरं नावं देवदेवो जगत्पतिः ॥१४॥
मत्स्यस्त्वदृश्यो भवति ते च तिष्ठन्ति तत्रगाः ॥१९॥
कृततुल्यं तदा कालं तावत्प्रक्षालनं स्मृतम्॥
आपस्साम्यमथो यान्ति यथापूर्वं नराधिप॥
ऋषयश्च मनुश्चैव सर्वं कुर्वन्ति ते तदा ॥१६॥
मन्वन्तरान्ते जगतामवस्था मयेरिता ते यदुवृन्दनाथ ।
अतः परं यत्तव कीर्तनीयं समासतस्तद्वद भूमिपाल ॥१७॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० मन्वन्तरवर्णनो नाम पञ्चसप्ततितमोऽध्यायः ॥७५॥

N/A

References : N/A
Last Updated : December 02, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP