संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
दशमोऽध्यायः

प्रथम खण्डः - दशमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


वज्र उवाच ॥
निविष्टान्सागरे द्वीपे सप्ताहं कुलपर्वतान् ॥
नामतः श्रोतुमिच्छामि तत्प्रसूताश्च निम्नगाः ॥१॥
मार्कण्डेय उवाच ॥
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥
विन्ध्यश्च पारियात्रश्च सप्तास्मिन्कुलपर्वताः ॥२॥
त्रिसामा ऋषिकुल्याश्च इक्षुगा त्रिदिवालया ॥
लांगूलिनी वंशधरा नद्यस्त्वेता महेन्द्रजाः ॥३॥
कृतमाला ताम्रपर्णी पुष्पजा चोत्पलावती ॥
शीतोदका गिरिवहा नद्यो मलयसम्भवाः ॥४॥
तुङ्गभद्रा सुप्रकारा वाह्या कावेरिका तथा ॥
दक्षिणापथमध्यस्था सह्यपादविनिस्सृताः ॥५॥
ऋषिका सुकुमारी च मन्दगा मन्दवासिनी ॥
नृपमाला शिरी चैव शुक्तिमत्पादनिस्सृताः ॥६॥
मन्दाकिनी दशार्णा च शोणो देवी च नर्मदा ॥
तमसा पिप्पला चेति ऋक्षवत्पादनिःसृताः ॥७॥
वेणा वैतरणी चैव नर्मदा च कुमुद्वती ॥
तोया सेतुशिला चैव विन्ध्यपादविनिस्सृताः ॥८॥
पारा चर्मण्वती पादा विदिशा वेणुवत्यपि ॥
सिप्रा ह्यवन्ती कुन्ती च पारियात्रविनिःसृताः ॥९॥
नद्यः प्रधानाः कथितास्तवैताः पुण्याः पवित्रा ऋषिसेविताश्च ॥
सन्तीह नद्यश्च सहस्रशोऽन्या वक्तुं न शक्या यदुवृन्दनाथ ॥१०॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे सप्तगिर्युद्भवनदीवर्णनो नाम दशमोऽध्यायः ॥१ ०॥

N/A

References : N/A
Last Updated : July 22, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP