संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
द्वात्रिंशत्तमोऽध्यायः

प्रथम खण्डः - द्वात्रिंशत्तमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


 ॥मार्कण्डेय उवाच  ॥
सर्वदेवातिदेवस्य ब्रह्मणस्तनयो भृगुः ॥
पौलोम्यां जनयामास च्यवनं भगवान्भृगुः ॥१॥
ययातिजा सुकन्यापि च्यवनाद्भृगुनन्दनात् ॥
आत्मवानं दधीचञ्च जनयामास धार्मिकौ ॥२॥
ऋषिपत्नी महाभागा चाऽऽत्मवानस्य नाहुषी ॥
और्वं संजनयामास ऋचीकापरसंज्ञितम् ॥३॥
येन क्रोधाभिभूतेन दृष्टोऽग्निर्वडवामुखः ॥
तस्य सत्यवती भार्या कौशिकी गाधिजा शुभा ॥४॥
तस्यां सञ्जनयामास पुत्राणां शतमूर्जितम् ॥
जमदग्निश्च वत्सश्च तेषां श्रेष्ठतमावुभौ ॥५॥
स्त्रीणां चरुविपर्यासाज्जमदग्निरजायत ॥६॥
वज्र उवाच ॥
कथ्यताम्मे यतो ब्रह्मन्वाडवस्य च संभवः ॥
संभवं जमदग्नेश्च श्रोतुमिच्छामि तत्त्वतः ॥७॥
मार्कण्डेय उवाच ॥
भृगूणां हैहयानाञ्च वैरमासीत्सुदारुणम् ॥
धनहेतोस्तदा पापैर्हैहयैर्भृगवो हताः ॥८॥
येऽपि गर्भगता बालास्तेऽपि तैविनिषूदिताः ॥
गर्भेषु हन्यमानेषु ऋषिः परमदुःखितः ॥९॥
अरुणं धारयामास गर्भेष्टं दीप्ततेजसम् ॥
पूर्णे काले तदा बाल ऊरुं भित्त्वा व्यजायत ॥१०॥
जातमात्रस्तु चुक्रोध देवतानां महातपा ॥
हैहयैर्हन्यमानानां बन्धूनां सुमहात्मनाम् ॥११॥
भवद्भिर्न कृतं त्राणं तस्मात्सर्वाञ्शपाम्यहम् ॥
तं क्रुद्धं पितरो हन्तुं वारयामासुरोजसा ॥१२॥
क्रोधः पुत्र न कर्तव्यः स हि शत्रुर्नृणां सदा ॥
वयं सर्वे जितक्रोधाः क्षत्रियैर्विनिपातिताः ॥१३॥
अस्माकं न वधे शक्ताः क्षत्रिया हैहयाधिपाः ॥
एवमुक्तः पितृगणैर्ऋचीकस्तानथाऽब्रवीत् ॥१४॥
न हि मे शाम्यति क्रोधो युष्मन्निधनकारितः ॥
तस्माद्देवगणान्सर्वान्निहनिष्यामि तेजसा ॥१५॥
एतस्मिन्नेव काले तु महीतोयसमाकुला ॥
जगाम शरणं विष्णुं सर्वभूतभवोद्भवम् ॥१६॥
श्रीभगवानुवाच ॥
देवान्प्रति समुत्पन्नं क्रोधमौर्वस्य यच्छुभम् ॥
तं प्रविश्य ग्रसिष्यामि तोयं सर्वं वसुन्धरे ॥१७॥
मार्कण्डेय उवाच॥
इत्येवमुक्त्वा वसुधामौर्वं क्रोधं समाविशत् ॥
भूत्वा च वडवावक्त्रस्तच्छरीराद्विनिस्सृतः ॥१८॥
न त्रातारो भविष्यन्ति पुत्र सर्वे दिवौकसः ॥
क्रोधश्चाऽयं तव वृथा न भविष्यति पुत्रक ॥१९॥
एवमुक्तस्तु भृगुणा ऋचीकाऽग्निमभाषत ॥
पूर्वोत्तरे समासाद्य समुद्रे वस पुत्रक ॥२०॥।
पिबँस्तत्र सदा वेगमम्भसां सुमहाद्युते ॥
अस्माकं तु कुले भावी क्षत्रधर्मा द्विजोत्तमः ॥२१॥
क्षत्रियाणां समुच्छेदं यः करिष्यत्यनेकशः ॥।
एवमुक्तस्तु पित्रा वै पिबन्मासाष्टकं जलम् ॥२२॥
चैत्रमासं समारभ्य नित्यमास्ते सुखी जले ॥
पीतं मासाष्टकं तोयं जठरे भस्मसाद्गतम् ॥२३॥
कृत्कृत्य मासाँश्चतुरः शिशिराख्ये महीतले ॥
नित्यं हिमोघं सृजति तस्मादपि समीरणः ॥२४॥
हिमाचले पातयति प्रवाहो नाम पार्थिव ॥
एषा तोयाद्धिमोत्पत्तिर्हिमतौ यस्य संभवः ॥२५॥
वृद्धिक्षयविहीनस्य कथितं तव धार्मिक ॥२६॥
उत्पत्तिरेषा तव वाडवाग्नेः प्रोक्ता मया भूमिपतिप्रधान ॥
श्रुत्वाऽपि यां मुञ्चति मोहजालं संसारजातेश्च यथा प्रबुद्धः ॥२७॥
इति श्रीविष्णु धर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे वडवाग्न्युत्पत्तिर्नाम द्वात्रिंशत्तमोऽध्यायः ॥३२॥

N/A

References : N/A
Last Updated : July 23, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP