संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
त्रयोविंशोऽध्यायः

प्रथम खण्डः - त्रयोविंशोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


वज्र उवाच ॥
भगीरथस्य राजर्षेर्वंशमुत्तमपूरुषं ॥
त्वत्तोऽहं श्रोतुमिच्छामि गङ्गा येनावतारिता ॥१॥
मार्कण्डेय उवाच ॥
भगीरथसुतः श्रीमान्विश्रुतो नाम धार्मिकः ॥
विश्रुतस्यात्मजः श्रीमान्नाभाग इति विश्रुतः ॥२॥
अम्बरीषस्तु नाभागिरयुतारिस्तदात्मजः ॥
तत्सुतो ऋतुपर्णश्च राजा नलसखो बली ॥३॥
शर्वकामः सुतस्तस्य सुदासस्तस्य चात्मजः ॥
तस्य मित्रसहः पुत्रः तस्य पुत्रोश्मको नृप ॥४॥
मूलकस्तत्सुतो राजा महाबुद्धिर्नरेश्वरः ॥
क्षत्रियाणां वधे घोरे रामेण विनिपातितः ॥५॥
पुरा पितृवधामर्षाद्रामो भार्गवनन्दनः ॥
त्रिःसप्तकृत्वः पृथिवीं चक्रे निःक्षत्रियामिमाम् ॥६॥
भगीरथकुलोत्पन्नं मूलकं नाम जघ्निवान् ॥
वज्र उवाच ॥
कथं रामेण वसुधा पुरा निःक्षत्त्रिया कृता ॥
किमर्थं च महाभाग तन्ममाचक्ष्व पृच्छतः ॥७॥
मार्कण्डेय उवाच॥
सोमवंशसमुत्पन्नो ययातिर्नाम पार्थिवः ॥
तस्यापि संहतः पुत्रो बभूव पृथिवीपतिः ॥८॥
सहस्रजित्सुतस्तस्य नभजित्तस्य चात्मजः ॥
तस्यापि हैहयः पुत्रः कुन्तिस्तस्यापि चात्मजः ॥९॥
तस्यापि संहतः पुत्रो महिष्मांऽस्तस्य चात्मजः ॥
माहिष्मती कृता येन नगरी सुमनोहरा ॥१०॥
भद्रश्रेण्यः सुतस्तस्य दुर्मदस्तस्य चात्मजः ॥
कनकस्तत्सुतो राजा कृतवीर्यस्तदात्मजः ॥११॥
अर्जुनस्तनयस्तस्य सप्तद्वीपेश्वरोऽभवत् ॥
दत्तात्रेयोऽथ भगवान्विष्णुरूपानुरूपधृक् ॥१२॥
आराध्य तपसा येन प्राप्तं राज्यं सुदुर्लभम् ॥
तथा बाहुसहस्रं च मतिं धर्मे तथोत्तमाम् ॥१३॥
अधर्मे वर्त्तमानस्य मरणं च जनार्दनात् ॥
युद्धेन पृथिवीं जित्वा धर्मेणैवानुरंजयन् ॥१४॥
 तेनेयं पृथिवी सर्वा सप्तद्वीपा सपत्तना ॥
सप्तोदधिपरिक्षिप्ता क्षात्रेण विधिना जिता ॥१५॥
पातालनगरे शैले वसुधायां रसातले ॥
तस्य पार्थिवसिंहस्य चक्रं न प्रतिहन्यते ॥१६॥
द्वीपेषु स हि सर्वेषु खातं खातमथाऽकरोत् ॥
यूपचिह्नानि च तथा खड्गी शतशनी रथी ॥१७॥
देशाननुचरन्योगात्सदा पश्यति तस्करान्॥
स एव पशुपालोभूत्क्षेत्रपालः स एव च ॥१८॥
स एव वृष्ट्या पर्जन्यो योगित्वादर्जुनोऽभवत् ॥
स तु बाहुसहस्रेण ज्याघातकठिनत्वचा ॥१९॥
भाति रश्मिसहस्रेण शारदेनेव भास्करः ॥
राक्षसा निर्जितास्तेन तेन बद्धश्च रावणः ॥२०॥
जित्वा भोगवती तेन कर्कोटकसुता हृता ॥
तस्य बाहुसहस्रेण क्षोभ्यमाणे महोदधौ ॥
भवन्ति लीना निश्चेष्टाः पातालस्था महासुराः ॥२१॥
मन्दरक्षोभचकिता अमृतोत्पादशङ्किताः ॥
नतनिश्चलमूर्धानो भवन्ति च महोरगाः ॥२२॥
दशयज्ञसहस्राणि तेनेष्टानि महीक्षिता ॥
द्वीपे द्वीपे महाराज धर्मज्ञेन महात्मना ॥२३॥
सर्वे यज्ञा महाराज तस्यासन्भूरिदक्षिणाः ॥
सर्वे काञ्चनवेदीकाः सर्वे यूपैश्च काञ्चनैः ॥२४॥
द्विजानां परिवेष्टारस्तस्य यज्ञेषु देवताः ॥
स्वयमासन्महाराज स्वयं भागहरास्तथा ॥२५॥
तस्य यज्ञे जगौ गाथा नारदस्सुमहत्तपाः ॥
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ॥२६॥
यज्ञैर्दानैस्तपोभिर्वा विक्रमेण श्रुतेन वा ॥२७॥
पञ्चाशीतिसहस्राणि वर्षाणां स महीपतिः ॥
सप्तद्वीपेश्वरः सम्राट् चक्रवर्त्ती बभूव ह ॥२८॥
तस्य राज्ञस्तु वसुधा बहुपार्थिवसङ्कुला ॥
भाराक्रान्ता विलुलिता बभूव पृथिवीपते॥२९॥
तस्य राज्ञो गतातङ्कैर्बहुपुत्रैर्नरोत्तम ॥
तेजोयुक्तैः समाकीर्णा वसुधा वसुधाधिप ॥३०॥
बहुनागाश्वसंकीर्णा बहुगोकुलसङ्कुला ॥
न शक्ता नृपते सोढुं तेजस्तदतिमानुषम् ॥३१॥
ज्वालावलिवपुः श्रान्ता खिन्ना नाकमुपागता ॥३२॥
एवं प्रभावे नरदेवनाथे पृथ्वीं समग्रां परिपाल्यमाने ॥
भारेण सन्ना पृथिवी जगाम महेन्द्रलोकं मुनिदेवजुष्टम् ॥३३॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादेऽर्जुनोपाख्यानं नाम त्रयोविंशोऽध्यायः ॥२३॥

N/A

References : N/A
Last Updated : July 23, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP