संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
त्रिंशत्तमोऽध्यायः

प्रथम खण्डः - त्रिंशत्तमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


 ॥मार्कण्डेय उवाच ॥
स ददर्श ततो गत्वा विपुलं सूर्यमण्डलम् ॥
चन्द्रमण्डलमानेन मानं यस्य च संस्कृतम् ॥१॥
यत्तत्प्रज्वलितं पिण्डं पिण्डितस्य विभावसोः ॥
देवदेवस्य यद्धाम वासुदेवस्य धीमतः ॥२॥
तस्य धर्मः परं पिण्डं ब्रह्माण्डान्तरदीपनम् ॥
आगारं सर्वभूतानां जठरस्थं हुताशनम् ॥३॥
पञ्चधाऽवस्थितं देहे सर्वेषां प्राणिनां स्मृतः ॥
आलोचकः पाचकश्च रोचको गञ्जकस्तथा ॥४॥
भ्राजकश्च तथा देवः सर्वेषां प्राणिनां तथा ॥
यन्मयं देहिनां चक्षुर्यश्चक्षुर्दक्षिणस्तथा ॥५॥
स वै देवातिदेवस्य वासुदेवस्य कीर्तितः ॥
अग्नौ प्रास्ताहुतिः सम्यङ्नित्यं यत्रोपतिष्ठते ॥६॥
यस्य दत्तं सदा तेजः सर्वेषामेव तेजसा ॥
यस्मादम्बुधरोत्पत्तिर्यस्माद्वर्षणसम्भवः ॥७॥
यस्मात्प्रवर्तते सर्वं कालचक्रं तथैव च ॥
औषधीनां परः पाकः परं यस्मान्न विद्यते ॥८॥
तन्मण्डलमथासाद्य कृत्वा रूपं तु तैजसम् ॥
विवेश मण्डलं भित्त्वा तन्मध्यं शङ्करस्तदा ॥९॥
सोऽङ्गुष्ठमात्रं पुरुषं दृक्शक्तिमिव वेष्टितम् ॥
तैजसं दृष्टवान् रुद्रः तुष्टाव च महाद्युतिः ॥१०॥
रुद्र उवाच ॥
त्वां नमस्यामि देवेश तेजसां तु परं निधिम् ॥
आराध्यस्त्वं वरेण्यस्त्वं सर्वभूतभवोद्भवः ॥११॥
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं तथा भवान्॥
अनन्तश्चाप्रमेयस्त्वं सूक्ष्मात्सूक्ष्मतरस्तथा ॥१२॥
मया समर्पितं तेजः सकलं त्वयि भास्कर ॥
मत्तस्त्वं न हि भिन्नोऽसि न च देवाज्जनार्दनात् ॥१३॥
अहं विष्णुर्भवान् विष्णुर्ब्रह्मा विष्णुः प्रभाकर ॥
अस्माकं सकलं धाम त्वयि तिष्ठति भास्कर ॥१४॥
धामकार्यं हि क्रियते येनास्य जगतः सदा ॥
प्रजानां तु प्रसवनात्सवितेति निगद्यसे ॥१५॥
रसानाञ्च तथा दानाद्रविरित्यभिधीयसे ॥
आदित्यस्त्वं तथा दानान्मित्रस्त्वं मैत्रभावतः ॥१६॥
पुष्णासि सकलाँल्लोकांस्तेन पूषा निगद्यसे ॥
धारणाच्च तथा धाता यमनादर्यमा तथा ॥१७॥
अंशुस्त्वमंशुधारित्वाद्विसर्गाद्वरुणस्तथा ॥
भवः सौभाग्यवाच्यत्वात्त्वष्टा सर्वक्रियाकृतेः ॥१८॥
सर्वजन्तुसमत्वाच्च विवस्वानभिधीयते ॥
क्रमणाच्च तथा विष्णुरीशत्वादिन्द्र उच्यते ॥१९॥
तस्मात्त्वया प्रजाकार्यं कर्तव्यमविचारितम् ॥
स्थावरैर्जंगमस्थैर्वा भूमिर्भाराभिपीडिता ॥२०॥
कदाचिजङ्गमैर्भूमिः सूर्यभारेणपीडिता ॥
कदाचित्स्थावरैरद्य भारद्वितयपीडिता ॥२१॥
अर्जुने नृपतौ वृद्धिः परा भास्कर शाखिनाम् ॥
दैत्याः क्षत्त्रियतां प्राप्य पीडयन्ति च मेदिनीम् ॥२२॥
सूर्य उवाच ॥
तव दर्शनकामेन प्रागेव न कृता मया ॥
स्थावरैर्जङ्गमैः सर्वां प्रकृतिस्थां वसुन्धराम् ॥२३॥
यथा पूर्वं तथाऽद्याहं करिष्यामि महेश्वर ॥
साम्प्रतं ब्राह्मणो भूत्वा चार्जुनेनेव पादपान् ॥२४॥
सर्वान्विनाशयिष्यामि शासनेन तथार्जुनम् ॥
वसिष्ठाद्योजयिष्यामि ततोंशेन वसुन्धराम् ॥२५॥
भृगुवंशे करिष्यामि ततो निःक्षत्त्रियां प्रजाम् ॥
मार्कण्डेय उवाच ॥
इत्येवमुक्तस्त्रिपुरान्तकारी सूर्येण सद्रश्मिविराजितेन ॥
जगाम धाम स्वमसौ बिभेति यत्सर्वलोकाञ्जगतां प्रधानः ॥२६॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे आदित्यदर्शनं नाम त्रिंशत्तमोऽध्यायः ॥३०॥

N/A

References : N/A
Last Updated : July 23, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP