संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
अष्टाविंशतितमोऽध्यायः

प्रथम खण्डः - अष्टाविंशतितमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


मार्कण्डेय उवाच ॥
रुद्रलोकमथासाद्य ददृशुस्त्र्यम्बकं तदा ॥
वह्निपुञ्जप्रकाशेन जटाभारेण राजितम् ॥१॥
सूर्यभासा तृतीयेन नयनेन च शोभितम् ॥
भालचन्द्रेण शुभ्रेण जटामण्डलशोभिना ॥२॥
व्यालयज्ञोपवीतश्च नागेश्वरकृतांशुकम् ॥
नीलकण्ठं विशालाक्षदन्तिचर्मोत्तरच्छदम् ॥३॥
उमासहायं वरदं सर्वभूतभवोद्भवम् ॥
नन्दिनानुगतं वीरं प्रमथैश्च सहस्रशः ॥४॥
नानावक्त्रशिरोग्रीवैर्नानायुधविभूषणैः ॥
तं दृष्ट्वा प्रणतः प्राह शक्रस्तु गुरुणा सह ॥५॥
शक्र उवाच ॥
नमोऽस्तु देवदेवेश प्रणतार्तिविनाशन ॥
नीलकण्ठ महाभाग ह्युमाभूषणतत्पर ॥६॥
गङ्गातरङ्गनिर्धौतजटामण्डलमण्डित! ॥
शशाङ्कशतसंकाश सूर्यकोटिसमप्रभ ॥७॥
वामनैर्जटिलैर्मुण्डैः प्रमथैरीड्यसे सदा ॥
तैश्च सार्धं महादेव रमसेऽमितविक्रम ॥८॥
घोरं हि ब्रह्मचर्यं ते यथा नान्यस्य कस्यचित् ॥
तव लिङ्गार्चनरताः पूयन्ते सर्वकिल्बिषैः ॥९॥
स्मरन्ति ये त्वां सततं ते हि यान्ति परां गतिम् ॥
विष्णोरचिन्त्यभागोऽसि प्रजासंहरणे कृते ॥१०॥
सर्वदेवमयो धाता सर्वदेवमयोऽपि च ॥
सर्वदेववरेण्यस्त्वं सर्वभूतविभावनः ॥११॥
सर्वामरगुरुर्देवः सर्वभूतेश्वरेश्वरः ॥
सर्वदेवो महायोगी महाजयो महाबलः ॥१२॥
महाबुद्धिर्महावीर्यो महातेजा महायशाः॥
चतुष्पात्सकलो धर्मो वाहनस्ते महावृषः ॥१३॥
श्मशाने वसतिर्नित्यं चिताधूमसमाकुले ॥
नृत्यद्भूताकुले भूमेर्भूतिश्वेतानुलेपनः ॥१४॥
भूखार्कवर्चःसलिलयजमानेन्दुवायवः ॥
मूर्त्तयस्ते स्मृता देव याभिर्व्याप्तमिदं जगत् ॥१५॥
त्वया विना जगत्यस्मिन्नान्यत्किञ्चन विद्यते ॥
दैत्यभाराभितप्ताङ्गां पालयस्व नमोऽस्तु ते ॥१६॥
मार्कण्डेय उवाच ॥
एवमुक्तस्तु शक्रेण देवः शक्रमभाषत ॥
कार्तवीर्यमहं त्वाजौ कर्ता निःक्षत्रियां महीम् ॥१७॥
न शक्तस्त्रिदशश्रेष्ठ यतः स्मर्तास्मि तद्वधम् ॥
विष्णुदत्तवरो राजा सोऽवध्यो मम वासव ॥१८॥
तमेव प्रार्थयिष्यामि वधं तस्य महात्मनः ॥
सर्वे यात स्वकं स्थानं त्वहमप्यमरेश्वरम् ॥१९॥
चन्द्रमण्डलमध्यस्थं यास्ये वरदमीश्वरम् ॥
विष्णुश्चार्धेन भागेन दत्तात्रेयोऽभवत्क्षितौ ॥२०॥
तेन दत्तवरो राजा पालयत्यखिलां महीम् ॥२१॥
इत्येवमुक्तस्त्रिदशेश्वरस्तु देवेन साक्षात्त्रिपुरान्तकेन ॥
जगाम शीघ्रं स्वपुरं प्रविष्टो महीं समादाय गुरुञ्च राजन् ॥२२॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेय वज्रसंवादे हरदर्शनं नामाष्टाविंशतितमोऽध्यायः ॥२८॥

N/A

References : N/A
Last Updated : July 23, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP