संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
अष्टचत्वारिंशत्तमोऽध्यायः

प्रथम खण्डः - अष्टचत्वारिंशत्तमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


मार्कण्डेय उवाच ॥
सिंहिकापुत्रसैन्येन हन्यमानस्तदा रणे ॥
गोचराभ्यागतान्सर्वान्रामो निन्ये यमक्षयम ॥१॥
तेन कृत्ताः परशुना यथा परशुना मृगाः ॥
आलिङ्ग्य शेरते क्षोणीं दानवास्ते मदोद्धताः ॥२॥
तीक्ष्णधाराग्रदुष्प्रेक्ष्यकुठारच्छिन्नमस्तकैः ॥
आततार तदा भूमिं कुशैर्वेदिमिवाध्वरे ॥३॥
परश्वधाग्रसंभिन्नदैत्यदेहसमुद्भवम् ॥
प्रसुस्राव तदा रक्तं येनाऽऽसीत्कर्दमं महत् ॥४॥
ते हन्यमाना रामेण राममेवाऽभिदुद्रुवुः ॥
परिपूर्णे यथा काले शलभा जातवेदसम् ॥५॥
रामस्य प्रमुखे दैत्यास्तदा तिष्ठन्ति ये नृप ॥
निमेषान्तरमात्रेण ते प्रयान्ति यमक्षयम् ॥६॥
कुञ्जरस्तुरगः पत्तिर्नाजौ यादव दृश्यते ॥
द्वितीयं प्रददौ यस्य प्रहारं भृगुनन्दनः ॥७॥
एकप्रहाराभिगतान्दानवान्पर्वतोपमान्॥
अपश्याम रणे तत्र ब्रह्मणा सहिता वयम् ॥८॥
रामेण हन्यमानानां दानवानां मुहुर्मुहुः ॥
आरावः श्रूयते घोरो वनानामिव दह्यताम् ॥९॥
आक्रम्य पद्भ्यां तरसा रथस्थानामथाहरत् ॥
शीर्षाणि तेन तीक्ष्णेन तथा परशुना रणे ॥१०॥
रामेणाऽऽक्रम्यमाणेषु रथेषु रथयूथपाः ॥
भूमौ निविष्टमूर्द्धानस्तत्यजुर्जीवितं हयाः ॥११॥
निष्पिपेष रथस्थानां दारयन्कुञ्जरान्रणे ॥
बभ्रमे तत्र तत्रैकः कालोत्सृष्ट इवान्तकः ॥१२॥
विच्छिन्दन्योधशीर्षाणि रणे रामो रथाद्रथम् ॥
व्रजन्भाति विशालाक्षो वृक्षादवृक्षमिवाऽण्डज ॥१३॥
स शराञ्चितसर्वाङ्गः शोणितेन समुक्षितः ॥
रराज रामः समरे रश्मिमानिव भास्करः ॥१४॥
दैत्यबाहुविनिर्मुक्तानायुधाञ्छतशस्तथा ॥
परश्वधाग्रेण रणे चिच्छेद रणकर्कशः ॥१५॥
तेषां संछिद्यमानानां प्रादुरासीद्धुताशनः ॥
येन तानेव तरसा क्षितौ चक्रे स भस्मसात् ॥१६॥
बहुत्वाद्दैत्ययोधानां रामस्संछादितो रणे ॥
हेतिपुञ्जेन महता शैलाभेन न दृश्यते ॥१७॥
हेतिपुञ्जं विधूयोग्रमभ्रपुञ्जं यथा रविः ॥
पुनर्दर्शनमायाति संहर्त्ता दैत्यतेजसाम् ॥१८॥
ब्रह्मा सुरगणैः सार्द्धमृषिभिश्च महात्मभिः ॥
पूजयामास तद्युद्धं साधुवादेन यादव ॥१९॥
दृष्टवन्तश्च धनुषा युद्धानि च मुहुर्मुहुः ॥
तथैवाऽऽश्चर्यभूतानि लोकानां खड्गचर्मणा ॥२०॥
अपूर्व एष संग्रामो रामस्य बहुभिः सह ॥
परश्वधायुधस्योग्र इति देवास्तथाऽब्रुवन् ॥२१॥
पूज्यमानः स रामोऽपि देवपुष्पोत्करैस्तदा ॥
चिच्छेद युधि दैत्यानां शिरांसि शतशो रणे ॥२२॥
दैत्यशोणितदिग्धाङ्गं भार्गवं लघुविक्रमम् ॥
अलातचक्रप्रतिमं तदा पश्यति यादव ॥२३॥
भ्रमताऽनेन रौद्रेण रणे कालाग्निवर्च्चसा ॥
कृताः समरशौण्डेन भीमा रुधिरनिम्नगाः ॥२४॥
परश्वधाग्रविक्षेपगतजीवितकुञ्जरैः ॥
पादोपलैश्च समरे प्रतस्तार स भार्गवः ॥२५॥
दन्तिदन्तपदन्यासप्राप्तं कुञ्जरमस्तकम् ॥
विनिघ्नन्स गजारोहाच्छ्येनवद्विचरन् लघु ॥२६॥
आरुह्य कुंजरञ्चैकं कुञ्जरात्कुञ्जरान्तरम् ॥
अपश्याम रणे रामं विचरन्तं यथासुखम् ॥२७॥
भूयो भूमिगतो रामः कुञ्जराणां परश्वधा ॥
चकार कदनं घोरं प्रलयाग्निरिवोत्थितः ॥२८॥
छिन्नाग्रहस्तान्विरदान्द्विरदाञ्छोणितोक्षितान् ॥
क्षितौ गता न पश्यामः श्यामीकृतदिगन्तरान् ॥२९॥
एवं हि युध्यता तेन रणे कालाग्निवर्चसा ॥
हतानि दानवेन्द्राणां प्रयुतान्यर्बुदानि च ॥३०॥
येषां प्रहारं संसोढुं नेयं शक्ता वसुन्धरा ॥
तेषां प्रहारभिन्नाङ्गो नैव रामो व्यकम्पत ॥३१॥
दृष्ट्वा प्रहारवैक्लव्यं निहतांश्च महासुरान् ॥
प्रदुद्रुवुर्दैत्यगणाः साल्वं शरणमाहवे ॥३२॥
अल्पावशिष्टान्दितिजान्प्रनष्टान्संवीक्ष्य साल्वः स्वहिते निविष्टान् ॥
रामं ययौ तेन गजेन युद्धे रामाद्रणे युद्धमभीप्समानः ॥३३॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० साल्वसैन्यवधो नामाऽष्टचत्वारिंशत्तमोऽध्यायः ॥४८॥

N/A

References : N/A
Last Updated : July 23, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP