संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
त्रिचत्वारिंशत्तमोऽध्यायः

प्रथम खण्डः - त्रिचत्वारिंशत्तमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


 ॥राहुरुवाच ॥
बलिबाणमहाकूर्म शम्बरावर्तभीषणम् ॥
अनुह्रादमहाग्राहं कालकेयमहाजलम् ॥१॥
हिरण्याक्षमहारत्नं प्रह्रादाचलनिश्चलम् ॥
तथा नमुचिकल्लोलं ह्रादसंह्रादशब्दवत् ॥२॥
हिरण्यकशिपूद्योतं कालनेमिबलाहकम् ॥
अमृताहरणक्षुब्धं तदा दैत्यमहार्णवम् ॥३॥
क्षुब्धं दैत्यार्णवं श्रुत्वा निर्गतं समराय च ॥
निर्ययुस्त्रिदशाः सर्वे सन्नद्धा युद्धकाङ्क्षिणः ॥४॥
ततः प्रवर्तते युद्धं घोरं भीरुभयंकरम् ॥
देवानां दानवानां च परस्परवधैषिणाम् ॥५॥
पात्यमानेषु शस्त्रेषु कवचेषु महात्मनाम्॥
देवानां दानवानाञ्च ह्युत्पेतुर्ज्वलनार्चिषः ॥६॥
गजवाजिखुरक्षुण्णमुत्तस्थौ सुमहद्रजः ॥
युगान्तानलधूमाभं त्रैलोकस्येव दह्यतः ॥७॥
तस्मिन्प्रवृत्ते रजसि घोरे भीरुभयंकरे ॥
निर्मर्यादमभूद्युद्धं देवानां दानवैः सह ॥८॥
ततो दैत्यसमुत्थेन तथा देवोद्भवेन च ॥
रुधिरेण मही व्याप्ता प्रशान्तञ्च रजः क्षणात् ॥९॥
ध्वजे च्छत्रे रथे नागे चामरे व्यजने हये ॥
सर्वत्र दृश्यते दैत्यरक्तं लाक्षारसप्रभम् ॥१०॥
तस्मिन्युद्धे महारौद्रे दैत्यदानवनाशने ॥
बभ्रमुः कुञ्जरा मत्ता महामात्रप्रचोदिताः ॥११॥
हतैर्वीरैस्तथै वाऽन्यैः कुञ्जराः पर्वतोपमाः ॥
कुर्वन्तः स्वान्यनीकानि दृश्यन्ते शतशो रणे ॥१२॥
छिन्नदन्ता भिन्नध्वजा विहस्तचरणास्तथा ॥
शैलाभापतितास्तत्र शोभयन्तो रणाजिरम् ॥१३॥
बभ्रमुः सादिभिर्हीना हयाः सूर्यहयोपमाः ॥
मृताश्च शतशस्तत्र दृश्यन्ते विकृताननाः ॥१४॥
आगुल्फमवसीदन्ति दैत्याः शोणितकर्दमे ॥
रथिभिर्निहता नागा नागैश्च निहता रथाः ॥१५॥
हयाश्च विद्धा नागैस्तु सादिभिः कुञ्जरा हताः ॥
रथसादिगजारोहैर्निहताश्च पदातयः ॥१६॥
पत्तिना महता सादी कुञ्जरो रथ एव च ॥
ततः प्रावर्तत नदी रुधिरौघतरङ्गिणी ॥१७॥
अस्त्रग्राहा धनुर्मीना चक्रकूर्मा महास्वरा ॥
छत्रहंसा नागवती केशशैवलशाद्वला ॥१८॥
दैत्यशीर्षोपला रौद्रा तथा भीरुभयावहा ॥
बाहुसर्पा महावर्ता शराणां हर्षवर्द्धिनी ॥१९॥
अपारगम्या पत्तीनां फेनपुञ्जसमाकुला ॥
तस्मिन्युद्धे महाघोरे तुमुले लोमहर्षणे ॥२०॥
आकीर्णा वसुधा भाति वदनैः कमलोपमैः ॥
विवृत्तैश्च महादंष्टैर्दानवानां महात्मनाम् ॥२१॥
बाहुभिश्चाङ्गदैश्चैव रक्तचन्दनरूषितैः ॥
हस्तिहस्तैर्महाप्रासैरसिभिश्च महाधनैः ॥२२॥
तालवृन्तैस्तथा छत्रैश्चामरैर्यष्टिभिस्तथा॥
मुकुटैः कुण्डलैश्चैव शुशुभे भूर्विभूषिता ॥२३॥
ततस्ते दानवाः क्रुद्धाः स्वयुद्धेन दिएवेप्सवः ॥
अभिद्रवन्ति देवेशं सहस्राक्षं पुरंदरम् ॥२४॥
दैत्यानां पततां दृष्ट्वा प्रह्रादं देवसूदनम् ॥
प्रत्युद्ययौ गजेना ऽऽजौ देवराजो महाबलः ॥२५॥
हुताशनोऽपि नमुचिमनुह्रादं तथा शशी॥
वरुणश्च तथा बाणं यमो देवस्तथा बलिम् ॥२६॥
हिरण्यकशिपुं रुद्रो वायुर्वृत्रासुरं रणे ॥
विरूपाक्षं तथा शंभुर्हिरण्याक्षं धनेश्वरः ॥२७॥
अन्ये च दैत्याः शतशः संयुक्ता देवतागणैः ॥
द्वन्द्वयुद्धसहस्रेषु तेष्ववर्तत दानवैः ॥२८॥
प्रायशो विजिता देवा ययुर्भग्ना दिशो दश ॥
दानवाश्च जयं लब्ध्वा देवाननुययुर्बलात् ॥२९॥
ते भग्नास्त्रिदशाः सर्वे दानवैश्चाप्यभिद्रुता ॥
त्राणार्थमथ संप्राप्ता नरनारायणाश्रमम् ॥३०॥
देवानामभयं दत्त्वा नरनारायणौ तदा ॥
शंखचक्रायुधधरौ युद्धाय समवस्थितौ ॥३१॥
नरनारायणौ दृष्ट्वा तत्क्षुब्धं दैत्यसागरम् ॥
सर्वायुधविसर्गेण तयोर्युद्धं व्यवस्थितम् ॥३२॥
गजाभ्रजालसंछन्नं शरधारौघवर्षणम् ॥
चलन्खड्गलताविद्युद्दैत्यदुर्दिनमाबभौ ॥३३॥
ततः शरै रुक्मविभूषिताग्रैः सुनेत्रपुंखैर्ज्वलनार्कवर्णैः ॥
बिभेद गात्राणि नरो रिपूणां जहार शीर्षाणि सकुण्डलानि ॥३४॥
नारायणोप्युत्तमवीर्यतेजाश्चक्रेण चक्रे दितिनन्दनानाम् ॥
विदारयामास महानुभावस्तस्मिन्रणे घोरतरे तदानीम् ॥३५॥
वीर्यं तयोरप्रतिमं निरीक्ष्य ते दानवा भग्ननिकृत्तयोधाः ॥
हतामृता जीवितमात्रशेषा वेगेन याता वरुणाधिवासम् ॥३६॥
लब्ध्वा जयं देवपतिर्महात्मा प्रह्रादमाजौ च तथा विजित्य ॥
संपूजयामास महानुभावौ धर्मात्मजौ तापससंघमुख्यौ ॥३७॥
संपूज्य तौ धर्मसुतौ जितारिर्देवैः प्रहृष्टैरनुयास्यमानः ॥
जगाम नाकं त्रिदशप्रधानः सुखी बभूवाथ गतज्वरश्च ॥३८॥
एवं प्रभावो भगवान्स विष्णुर्वैरं न मे रोचति तेन नित्यम् ॥
सन्धिं कुरुष्वाऽऽत्महिताय राजञ्छक्रेण तेनारिनिषूदनेन ॥३९॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्क ण्डेयवज्रसंवादे राहुवाक्येन देवदानवयुद्धवर्णनो नाम त्रिचत्वारिंशत्तमोऽध्यायः ॥४३॥

N/A

References : N/A
Last Updated : July 23, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP