संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
षष्ठोऽध्यायः

प्रथम खण्डः - षष्ठोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


 ॥वज्र उवाच ॥
भूमण्डलस्य कृत्स्नस्य संस्थानेन च भार्गव ॥
वद प्रमाणं कृत्स्नं तत्तत्र मे संशयो महान् ॥१॥
मार्कण्डेय उवाच ॥
भूमण्डलस्य राजेन्द्र मध्ये मेरुर्महागिरिः ॥
योजनानां सहस्राणि तस्य मध्ये समन्ततः ॥२॥
जम्बूद्वीपस्तु पञ्चाशत्प्रमाणेन प्रकीर्तितः ॥
योजनानां तु नियुतं तस्य पारं महीपते ॥३॥
लवणेन समुद्रेण तेनासौ परिवेष्टितः ॥
लवणद्विगुणेनापि शाकद्वीपेन लावणः ॥४॥
वेष्टितश्च महाराज शाकद्वीपो न संशयः ॥
क्षीरोदेन स्वतुल्येन क्षीरोदोऽपि च वेष्टितः ॥५॥
क्षीरोदद्विगुणेनापि कुशद्वीपेन योजनैः ॥
आज्योदेन कुशद्वीपः स्वतुल्येन च वेष्टितः ॥६॥
क्रौञ्चद्वीपेन चाज्योदो द्विगुणेन च वेष्टितः ॥
क्रौञ्चद्वीपः स्वतुल्येन दधिमण्डोदकेन च ॥७॥
द्वीपेन शाल्मलेनाथ द्विगुणेन च वेष्टितः ॥
सुरोदो द्विगुणेनाथ गोमेदेन च वेष्टितः ॥८॥
पुष्करद्वीपमध्ये तु द्वीपसंस्थानमण्डपः ॥
पर्वतः सुमहाँल्लोके विख्यातो मानसोत्तरः ॥९॥
नियुतार्धं योजनानां प्रमाणेन प्रकीर्तितः ॥
नानाप्रकारशिखरस्तावदेव समुच्छ्रितः ॥१०॥
मेरोस्तु पूर्वदिग्भागे मानसोत्तरमूर्धनि ॥
पुरी शक्रस्य विख्याता नामतस्त्वमरावती ॥११॥
पूर्वदक्षिणदिग्भागे तथा वह्नेः प्रभावती ॥
यमस्य दक्षिणे भागे नाम्ना संयमनी पुरी ॥१२॥
विरूपाक्षस्य विक्रान्ता भागे दक्षिणपश्चिमे ॥
पश्चिमे च तथा भागे वरुणस्य सुखप्रभा ॥१३॥
शिवा नाम पुरी वायोर्भागे वै पश्चिमोत्तरे ॥
विभावरी सोमपुरी उत्तरेण प्रकीर्तिता ॥१४॥
शर्मदा च पुरी शैवी भागे पूर्वोत्तरे स्मृता ॥
पुष्करश्च स्वतुल्येन वृतः स्वादूदकेन च ॥१५॥
स्वादूदकात्परं क्षोणी कार्तस्वरमयी शुभा ॥
योजनानां प्रमाणेन सहस्राणि तु विंशतिः ॥१६॥
दश चान्यानि राजेन्द्र पञ्च पञ्च प्रकीर्तिता ॥
समन्ततस्त्वेकशिला देवोद्याने मही शुभा ॥१७॥
स्थितस्तां परिवार्योर्वीं लोकालोको महीधरः ॥
अयुतं योजनानां तु विस्तरेणोच्छ्रयेण च ॥१८॥
लोकालोके महीपाल लोकपालास्त्वमी स्मृताः ॥
प्राच्यादिषु महावीर्याः कल्पस्थायिन एव ते ॥१९॥
सुदामा शेषपादश्च केतुमान्सुमहाबलः ॥
हिरण्यरोमा च तथा विज्ञेयाश्च दिगीश्वराः ॥२०॥
अर्वाक्तस्य महीध्रस्य चन्द्रार्क ग्रहतारकाः ॥
प्रपतन्ति महाराज न तु पारे कदाचन ॥२१॥
दर्भोदकसमुद्रस्तु लोकालोकं समन्ततः ॥
परिवार्य स्थितो राजन्नन्धकारे महार्णव ॥२२॥
एकषष्टिप्रमाणेन नियुतानि समन्ततः ॥
तस्य पारे ततो राजन्ब्रह्माण्डस्तु समन्ततः ॥२३॥
ऊर्द्ध्वेनाधश्च विष्कम्भो यावानण्डस्य कीर्तितः ॥
तावदेव प्रमाणेन तिर्यक्षु परिवारितः ॥२४॥
मेरुमध्यात्समुद्रस्य पारं गर्भोदकस्य तु ॥
कोटित्रयं योजनानां नियुतानि तथा दश ॥२५॥
पञ्चान्यानि च राजेन्द्र प्रमाणं परिकीर्तितम् ॥
तस्य राज... ब्रह्माण्डस्तु समन्ततः ॥२६॥
....तदद्यर्धं द्वितीयस्य महीपते । ॥
एतदेव तु निर्दिष्टं प्रमाणं तत्त्वचिन्तकैः ॥२७॥
मेरोस्तु पूर्वदिग्भागे मध्ये तु लवणोदधेः ॥
विष्णुलोको महान्प्रोक्तः सलिलान्तर संस्थितम् ॥२८॥
स्वभासयात्र देवस्य सततं नृप राजितम् ॥
तत्र स्वपिति घर्मान्ते देवदेवो जनार्दनः ॥२९॥
लक्ष्यीसहायः सततं शेषपर्यङ्कमाश्रितः ॥
एकादश्यामाषाढस्य शुक्लपक्षे जनार्दनम् ॥३०॥
देवाश्च ऋषयश्चैव गन्धर्वाप्सरसां गणाः ॥
अभिष्टुवन्ति ते गत्वा सततं दिनपञ्चकम् ॥३१॥
उत्सवं चैव कुर्वन्ति गीतनृत्यसमाकुलम्॥
ततस्तु चतुरो मासान्योगनिद्रामुपासते ॥३२॥
सुप्तं च तमुपासंते ऋषयो ब्रह्मसम्मताः ॥
सशरीराणि शास्त्राणि भक्तास्तं देवमानवाः ॥३३॥
कार्तिकस्य सिते पक्षे तदेव दिनपञ्चकम् ॥
विबोधयन्ति देवेशं गत्वा सेन्द्रा दिवौकसः ॥३४॥
देवास्तथैव कुर्वन्ति तदापि च महोत्सवम्॥
मेरोस्तु पूर्वदिग्भागे मध्ये क्षीरार्णवस्य तु ॥३५॥
क्षीराम्बुमध्यगा शुभ्रा देवस्यान्या तथा पुरी ॥
लक्ष्मी सहायस्तत्रास्ते शेषासनगतः प्रभुः ॥३६॥
तत्रापि चतुरो मासान् सुप्तस्तिष्ठति वार्षिकान् ॥
अस्त्रैः स केवलैस्तत्र दृश्यते शाश्वतः प्रभुः ॥३७॥
तस्मिंस्तथैव दिग्भागे मध्ये क्षीरार्णवस्य तु ॥
योजनानां सहस्राणि मण्डलः पञ्चविंशतिः ॥३८॥
श्वेतदीपस्तु विख्यातो द्वीपः परमशोभनः ॥
नराः सूर्यप्रभास्तत्र शीतांशुसमदर्शनाः ॥३९॥
तेजसा दुर्निरीक्ष्याश्च देवानामपि यादव ॥
पञ्चकालविधानज्ञाः पूजयन्ति जनार्दनम् ॥४०॥
पूजां तु तेषां शिरसा स तु देवः प्रयच्छति ॥
इहस्थैश्च कृतां पूजां पादतश्च प्रयच्छति ॥४१॥
एकान्तभावोपगतास्तत्र यान्ति हरिं नराः ॥
तत्र गत्वा न शोचन्ति निवर्त्तन्ते न चाप्यथ ॥४२॥
पूजयित्वा चिरं कालं देवदेवं जनार्दनम् ॥
आदित्यमण्डलं भित्त्वा ब्रह्माणं प्रविशन्ति ते ॥४३॥
ततोऽनिरुद्धं देवेशं प्रद्युम्नं चाप्यनन्तरम् ॥
ततः संकर्षणं देवं वासुदेवं ततः परम् ॥४४॥
वासुदेवं च संप्राप्य मुच्यन्ते सर्ववर्त्तनैः ॥
श्वेतद्वीपगतास्तस्मान्न निवर्तन्ति कर्हिचित् ॥४५॥
पूर्वोत्तरे तु दिग्भागे मध्ये क्षीरार्णवस्य तु ॥
वैजयन्त इति ख्यातः पर्वतः सर्वकाञ्चनः ॥४६॥
योजनानां सहस्राणि प्रमाणेन दश स्मृतः ॥
आयामविस्तरोच्छ्रायैः प्रमाणं तस्य कीर्तितम् ॥४७॥
योजनानां सहस्राणि पञ्च तस्य गुहा स्मृता॥
उच्छ्रिता योजनशतं तावदेव च विस्तृता ॥४८॥
तिमिरेणावृता द्वारि योजनानां तथा शतम् ॥
स्वप्रभाभरणा दिव्या ततः परतरं हि सा ॥४९॥
नाम्ना च लोके विख्याता ऋषिभिस्तिमिरावती ॥
तस्यां देववरो विष्णुः स्वपन्नास्ते जनार्दनः ॥५०॥
तत्रैनमुपतिष्ठन्ति देव्यस्तिस्रो महीपते । ॥
निद्रा च कालरात्रिश्च लक्ष्मीश्च वरवर्णिनी ॥५१॥
उपासते च तं देवं भृग्वाद्या परमर्षयः ॥
शरीरधारिभिश्चास्त्रैस्तथा तत्र च सेव्यते ॥५२॥
तस्य सुप्तस्य वदनान्निश्वासोच्छ्वासतः क्रमात् ॥
प्रजानां पङ्क्तयो ह्युच्चैर्निपतन्ति पतन्ति च ॥५३॥
तस्योच्छ्वासश्च जन्तूनां सम्भवः कथितो नृप ॥
निःश्वासकाले च तथा जन्तूनां मरणं स्मृतम् ॥५४॥
मध्ये धृतसमुद्रस्य मेरोः पश्चिमतस्तथा ॥
योजनानां तु नियुतं द्वीपस्तु परिमण्डलः॥५५॥
तत्र गोवर्धनस्योक्ता वसतिः सुमहात्मनः ॥
दिव्यानां तत्र धेनूनां वसतिश्च तथा स्मृता ॥५६॥
सततं कामरूपेण भाभिः स रमते हरिः ॥
मध्ये दधिसमुद्रस्य द्वीपस्तावत्प्रमाणतः ॥५७॥
हेमरूपधरो यत्र नित्यं वसति केशवः ॥
तत्रस्थमेनं पश्यन्ति ऋषयो भूरितेजसः ॥५८॥
सुरासमुद्रमध्ये तु द्वीपः परमविस्तृतः ॥
तत्र संकर्षणो देवो विभुरास्ते सुराऽसुराः ॥५९॥
उपतिष्ठन्ति तत्रैनं दिव्यस्तिस्रो मनोरमाः ॥
कान्तिश्च मदिरा चैव तथा देवी करीषिणी ॥६०॥
तत्रस्थमेनं पश्यन्ति प्रजानां पतयः सदा॥
क्ष्मामण्डलं कृत्स्नमिदं तवोक्तं क्ष्मापालवृन्दाम्बरपूर्णचन्द्र ॥
समासतो व्यासगिरामशक्यं वक्तुं महेन्द्रोपि न वर्षपूगैः ॥६१॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे द्वीपविभागवर्णनो नाम षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : July 22, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP