संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
एकोनचत्वारिंशत्तमोऽध्यायः

प्रथम खण्डः - एकोनचत्वारिंशत्तमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


मार्कण्डेय उवाच ॥
एवमुक्त्वा गते शुक्रे गविष्ठो वाक्यमब्रवीत् ॥
राजञ्छुक्रस्य वचनं क्रियतामविचारयन् ॥१॥
स्वप्ना हि सुमहाघोरा दृश्यन्ते भयवर्धनाः ॥
भवतां हि विनाशाय रात्र्यन्ते सततं विभो ॥२॥
भवान्स्वप्ने मया दृष्टो रक्त स्रगनुलेपनः ॥
उष्ट्रेण शिशुमारेण वराहेण तथा व्रजन् ॥३॥
तैलाक्ताश्चापरे दैत्याः खरयानमुपाश्रिताः ॥
पतन्तः पर्वता दृष्टा राजँस्ते भयकारणम् ॥४॥
केचित्कृष्णांबरधराः केचित्कृसरभोजिनः॥
केचित्पङ्कगता दृष्टाः केचिद्भस्मशया गताः ॥५॥
केचिद्विवस्त्रया नार्या कृष्यन्ते दक्षिणां दिशम् ॥
काचिद्रक्ताम्बरा नारी नीयते दक्षिणां दिशम् ॥६॥
केचिन्नृत्यन्ति भूपाला हसन्ति च तथाऽपरे ॥
केचिन्मुण्डा मया दृष्टाः केचित्काषायवाससः ॥७॥
चण्डालस्कन्धगाः केचित्केचित्किंशुकसंस्थिताः ॥
गजाश्वपत्तिसैन्येन सर्वेण च भवान्युतः ॥८॥
वापीं सुकलुषां प्राप्य निमग्नो गोमये ह्रदे ॥
राजश्रीश्च मया दृष्टा शक्रालिङ्गनतत्परा ॥९॥
तस्य मे रोचते सन्धिस्तव शक्रेण पार्थिव ॥
प्राणान्रक्षत भो राजञ्जीवन्भद्राण्युपाश्नुते ॥१०॥
साल्व उवाच ॥
यदैव भगवान्विष्णुः श्रुतः शत्रुर्मयाऽनघ ॥
तत्रैव देव तच्छ्रुत्वा राज्यं त्यक्तं तथा मया ॥११॥
इष्टं यज्ञैस्तपस्तप्तं राज्यं कृतमकण्टकम् ॥
मूर्ध्नि स्थितममित्राणां सुहृदः परिपालिताः ॥१२॥
धृतो भृत्यजनः सर्वः कृतकृत्यास्ततो वयम् ॥
गोविन्दान्मरणं प्राप्य भूयो राज्यं भविष्यति ॥१३॥
मार्कण्डेय उवाच ॥
इत्येव वाक्यं तु निशम्य राज्ञो मेने तदायुक्ततमं गविष्ठः ॥
तूष्णीं बभूवाऽथ सुनिश्चितात्मा मेने च दैत्यान्समरे विनष्टान् ॥१४॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे स्वप्नाध्यायो नामैकोनचत्वारिंशत्तमोऽध्यायः ॥३९॥

N/A

References : N/A
Last Updated : July 23, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP