संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
सप्तचत्वारिंशत्तमोऽध्यायः

प्रथम खण्डः - सप्तचत्वारिंशत्तमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


मार्कण्डेय उवाच ॥
वह्निज्वालाग्रवर्णेन जटाजूटेन राजितम् ॥
गगनार्द्धमिवाऽऽरूढं निदाघे रविमण्डलम् ॥१॥
आधारं सर्वदेवानां तपसा द्योतितप्रभम् ॥
सेवमानमवसनं पीतगात्रमरिन्दमम् ॥२॥
एकमेकाकिनं वीरं सहस्रशतमण्डितम् ॥
पिण्डितं सकलं धाम ब्रह्मक्षत्रियतेजसाम् ॥३॥
कृष्णाजिनोत्तरासङ्गभ्राजमानं बलोद्धतम् ॥
स्निग्धया रञ्जितमिव प्रायेण पार्वतीदृशा ॥४॥
विराजमानं दोर्दण्डरुक्मदण्डेन भास्वता॥
परश्वधेन तीक्ष्णेन विमलाकाशवर्चसा ॥५॥
तपस्विनमनादृश्यं यमकालान्तकोपमम् ॥
कम्पमानं पदन्यासैर्वसुधां सकलां तथा ॥६॥
मुष्णन्तं सर्वतेजांसि प्रभाते रविमण्डलम्॥
प्रांशुं कनकवर्णाङ्गं सितयज्ञोपवीतिनम् ॥७॥
गङ्गायाः प्रवहेणैव मेरुशृंगं विराजितम्॥
तेजसा दहनाकारं प्रजासंहारकारकम् ॥८॥
विषमं प्रमथेशस्य तृतीयमिव लोचनम् ॥
अप्रसह्यमनावार्यं दुर्लङ्घ्यं जीवितच्छिदम् ॥९॥
कालेनेव भुजं सव्यं दैत्यहेतोः प्रसारितम् ॥
रामे दृष्टिपथं प्राप्ते दानवानां समन्ततः ॥१०॥
हाहाकारो महानासीत्तमेकं निघ्नतां रणे ॥
शस्त्रधारणविभ्रष्टब्राह्मण्यं स्वपथाच्च्युतम् ॥११॥
घातयध्वं दुराचारमेनमूचुः परस्परम् ॥
एवमाद्रवतां तेषां बहूनामाततायिनाम् ॥१२॥
जग्राह वेगं सर्वेषां मरुतामिव पर्वतः ॥
स हन्यमानो नाराचैस्तोमरैर्मुशलैस्तथा ॥१३॥
गदाभिरसिभिः पाशैर्भुशुण्डीभिरयोगुडैः ॥
पट्टिशैर्भिन्दिपालैश्च हुतैः शूलैः परश्वधैः ॥१४॥
न विव्यथे ह्यमेयात्मा धराधर इवाऽनिलैः ॥१५॥
संवेष्टितं सर्वत एव सैन्यैरदृष्टयुद्धोऽपि रणे महात्मा ॥
दैत्यार्णवं गोष्पदतुल्यमात्रममन्यताऽऽजौ रणचण्डवेगः ॥१६॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे युद्धे भार्गवरामदर्शनं नाम सप्तचत्वारिंशत्तमोऽध्यायः ॥४७॥

N/A

References : N/A
Last Updated : July 23, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP