संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
कल्लोलोल्लसितामृताब्धिलहर...

श्रीमंत्रमातृकापुष्पमालास्तवः - कल्लोलोल्लसितामृताब्धिलहर...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


कल्लोलोल्लसितामृताब्धिलहरीमध्येविराजन्मणि-
द्वीपे कल्पकवाटिका परिवृते कादम्बवाट्युज्ज्वले ।
रत्नस्तंभसहस्रनिर्मितसभामध्ये विमानोत्तमे
चिन्तारत्नविनिर्मितं जननि ते सिंहासनं भावये ॥१॥
एणाङ्कानलभानुमण्डललसत् श्रीचक्रमध्ये स्थितां
बालार्कद्युतिभासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम् ।
चापं बाणमपि प्रसन्नवदनां कौसुम्भवस्त्रान्वितां
तां त्वां चन्द्रकलावतंसमकुटां चारुस्मितां भावये ॥२॥
ईशानादिपदं शिवैकफलकं रत्नासनं ते शुभं
पाद्यं कुङ्कुमचन्दनादिभरितैरर्घ्यं सरत्नाक्षतैः ।
शुद्धैराचमनीयकं तव जलैर्भक्त्या मया कल्पितं
कारुण्यामृतवारिधे तदखिलं सन्तुष्टये कल्पताम् ॥३॥
लक्ष्ये योगिजनस्य रक्षितजगज्जाले विशालेक्षणे
प्रालेयांबु पटीरकुङ्कुमलसत् कर्पूरमिश्रोदकैः ।
गोक्षीरैरपि नारिकेलसलिलैः शुद्धोदकैर्मन्त्रितैः
स्नानं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ॥४॥
ह्रीङ्काराङ्कितमन्त्रलक्षिततनो हेमाचलात्संचितैः
रत्नैरुज्ज्वलमुत्तरीयसहितं कौसुंभवर्णांशुकम् ।
मुक्तासन्तति यज्ञसूत्रममलं सौवर्णतन्तूद्भवं
दत्तं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ॥६॥
हंसैरप्यतिलोभनीयगमने हारावलीमुज्ज्वलां
हिन्दोलद्युतिहीरपूरिततरे हेमाङ्गदे कङ्कणे ।
मंजीरौ मणिकुण्डले मकुटमप्यर्धेन्दुचूडामणिं
नासामौक्तिकमङ्गुलीयकटकौ कञ्चीमपि स्वीकुरु ॥७॥
सर्वाङ्गे घनसारकुङ्कुमलसत् श्रीगन्धपङ्काङ्कितं
कस्तूरीतिलकं च भालफलके गोरोचनापत्रकम् ।
गण्डादर्शनमण्डले नयनयोर्दिव्याञ्जनं तेऽञ्चितं
कण्ठाब्जे मृगनाभिपङ्कममलं त्वत्प्रीतये कल्पताम् ॥८॥
कल्हारोत्पलमल्लिकामरुवकैः सौवर्णपङ्केरुहैः
जातीचंपकमालतीवकुलकैः मन्दारकुन्दादिभिः ।
केतक्या करवीरकैर्बहुविधैः कॢप्ताः स्रजोमालिकाः
सङ्कल्पेन समर्पयामि वरदे संतुष्टये गृह्यताम् ॥९॥
हन्तारं मदनस्य नन्दयसि यैरङ्गैरनंगोज्ज्वलैः
यैर्भृङ्गावलिनीलकुन्तलभरैः बध्नासि तस्याशयम् ।
तानीमानि तवाम्ब कोमलतराण्यामोदलीलागृहा-
ण्यामोदाय दशाङ्गगुग्गुलुकृतैः धूपैरहं धूपये ॥१०॥
लक्षीमुज्ज्वलयामि रत्ननिवहोद्भास्वत्तरे मन्दिरे
मालारूपविलम्बितैर्मणिमयस्तम्भेषु सम्भावितैः ।
चित्रैर्हाटकपुत्रिकाकरधृतैः गव्यैर्घृतैर्वर्धितैः
दिव्यैर्दीपगणैर्धिया गिरिसुते संतुष्टये कल्पताम् ॥११॥
ह्रीङ्कारेश्वरि तप्तहाटककृतैः स्थालीसहस्रैर्भृतं
दिव्यान्नं घृतसूपशाकभरितं चित्रान्नभेदं तथा ।
शाल्यन्नं मधुशर्करादधियुतं माणिक्यपात्रेस्थितम्
माषापूपसहस्रमम्ब सफलं नैवेद्यमावेदये ॥१२॥
सच्छायैर्वरकेतकीदलरुचा ताम्बूलवल्लीदलैः
पूगैर्भूरिगुणैस्सुगन्धिमधुरैः कर्पूरखण्डोज्ज्वलैः ।
मुक्ताचूर्णविराजितैर्बहुविधैः वक्त्राम्बुजामोदनैः
पूर्णा रत्नकलाचिका तव मुदे न्यस्ता पुरस्तादुमे ॥१३॥
कन्याभिः कमनीयकान्तिभिरलङ्कारामलारार्तिका
पात्रे मौक्तिकचित्रपंक्तिविलसत् कर्पूरदीपालिभिः ।
तत्तत्तालमृदङ्गगीतसहितं नृत्यत्पदाम्भोरुहं
मन्त्राराधनपूर्वकं सुविहितं नीराजनं गृह्यताम् ॥१४॥
लक्ष्मीर्मौक्तिकलक्षकल्पितसितच्छत्रं तु धत्ते रसात्
इन्द्राणी च रतिश्च चामरवरे धत्ते स्वयं भारती ।
वीणामेणविलोचनाः सुमनसां नृत्यन्ति तद्रागवद्
भावैराङ्गिकसात्विकैः स्फुटरसं मातस्तदाकर्ण्यताम् ॥१५॥
ह्रीङ्कारत्रयसंपुटेन मनुनोपास्ये त्रयीमौलिभिर्-
वाक्यैर्लक्ष्यतनो तवस्तुतिविधौ को वा क्षमेताम्बिके ।
सल्लापाः स्तुतयः प्रदक्षिणशतं सञ्चार एवास्तुते
संवेशो नमनः सहस्रमखिलं त्वत्प्रीतये कल्पताम् ॥१६॥
श्रीमन्त्राक्षरमालया गिरिसुतां यः पूजयेच्चेतसा
सन्ध्यासु प्रतिवासरं सुनियतस्तस्यामलं स्यान्मनः ।
चित्तांभोरुहमण्डपे गिरिसुता नृत्तं विधत्ते रसात्
वाणी वक्त्रसरोरुहे जलधिजा गेहे जगन्मङ्गला ॥१७॥
इति गिरिवरपुत्रीपादराजीवभूषा भुवनममलयन्ती सूक्तिसौरभ्यसारैः ।
शिवपदमकरन्दस्यन्दिनीयं निबद्धा मदयतु कविभृङ्गान् मातृकापुष्पमाला ॥१८॥

N/A

References : N/A
Last Updated : February 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP