संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
शिवकण्ठस्तुतिः ।

स्तुतिः - शिवकण्ठस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


पातु वो नीलकण्ठस्य कण्ठं श्यामाम्बुदोपमः ॥

गौरीभुजलता यत्र विद्युल्लेखेव राजते ॥१॥

पातु वः शितिकण्ठस्य तमालश्यामलो गलः ॥

संसक्तपार्वतीबाहुसुवर्णनिकषोपलः ॥२॥

कस्तूरीतिलकन्ति भालफलके देव्या मुखांभोरुहे रोलंबन्ति तमालबालमुकुलोत्तंसन्ति मौलिं प्रति ॥

याः कर्णे विकचोत्पलन्ति कुचयोरंसे च कालागुरुस्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः ॥३॥

कस्तूरीयन्ति भाले तदनु नयनयोः कज्जलीयन्ति कर्णप्रान्ते नीलोत्पलीयन्त्युरसि मरकतालंकृतीयन्ति देव्याः ॥

रोमालीयन्ति नाभेरुपरि हरिमणीमेखलीयन्ति मध्ये कल्याणं कुर्युरेते त्रिजगति पुरुजित्कण्ठभासां विलासाः ॥४॥

इति शिवकण्ठस्तुतिः ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP