संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
हरिहस्तुतिः ।

स्तुतिः - हरिहस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


जाह्नवी मूर्ध्नि पादे वा कालः कण्ठे वपुष्यथ ॥

कामारिं कामतातं वा कंचिद्देवं भजामहे ॥१॥

गाङ्गयामुनतोयेन तुल्यं हरिहरं वपुः ॥

पातु नाभिगतं पद्मं यस्य तन्मध्यमं गतः ॥२॥

अबलाढ्यविग्रहश्रीरमर्त्यनतिरक्षमालयोपेतः ॥

पञ्चक्रमोदितमुखः पायात्परो मुहुरनादिः ॥३॥

गवीशप्त्रो नगर्जातिहारी कुमारतातः शशिखण्डमौलिः ॥

लंकेशसंपूजित पादपद्मः पायादनादिः परमेश्वरो वः ॥४॥

पन्नगाधारिकराग्रो गङ्गोमालक्षितोऽङ्कओऽग्रभुजः ॥

शशिखण्डशेखर उमापरिग्रहो मुहुरनादिरवतु माम् ॥५॥

इति हरिहरस्तुतिः समाप्ता ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP